ज्ञानिन्
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्ञानी, [न्] पुं, (ज्ञानमस्त्यस्येति । ज्ञान + “अत इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।) दैवज्ञः । (सामान्यबोधयुक्तमात्रे, त्रि । यथा, मार्कण्डेये । ८१ । ३६ । “ज्ञानिनो मनुजाः सत्यं किन्तु ते नहि केवलम् । यतो हि ज्ञानिनः सर्व्वे पशुपक्षिमृगादयः ॥”) ज्ञानयुक्ते च, त्रि । इति मेदिनी । ते, ६९ ॥ तस्य लक्षणं यथा, -- “प्रजहाति यदा कामान् सर्व्वान् पाथ ! मनो- गतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ यः सर्व्वत्रानभिस्नेहस्तत्तत् प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ यदा संहरते चायं कर्म्मोऽङ्गानीव सर्व्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥” ज्ञानिनापि कर्म्म कर्त्तव्यम् । यथा, -- “सक्ताः कर्म्मण्यविद्बांसो यथा कुर्व्वन्ति भारत ! । कुर्य्याद्धिद्वांस्तथा सक्तश्चिकीर्षुः कर्म्म संग्रहम् ॥ न बुद्धिभेदं जनयेदज्ञानां कर्म्मसङ्गिनाम् । योजयेत् सर्व्वकर्म्माणि विद्वान् युक्तः समाचरन् ॥ प्रकृतेः क्रियमाणानि गुणैः कर्म्माणि सर्व्वशः । अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते ॥ तत्त्ववित्तु महाबाहो ! गुणकर्म्मविभागयोः । गुणा गुणेषु वर्त्तन्त इति मत्वा न सज्जते ॥” ज्ञानिप्रशंसा यथा, -- “चतुर्व्विधा भजन्ते मां जनाः सुकृतिनोऽर्ज्जुन ! । आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ! ॥ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ उदाराः सर्व्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्व्वमिति स महात्मा सुदुर्लभः ॥” इति श्रीभगवद्गीता ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्ञानिन् पुं।
ज्यौतिषिकः
समानार्थक:सांवत्सर,ज्यौतिषिक,दैवज्ञ,गणक,मौहूर्तिक,मौहूर्त,ज्ञानिन्,कार्तान्तिक
2।8।14।2।3
सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि। स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि॥
स्वामी : राजा
पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्ञानिन्¦ त्रि॰ ज्ञानमस्त्यस्य इनि।
१ ज्ञानयुक्ते ब्रह्मसाक्षात्कारयुक्ते
“चतुर्विधा भजन्ते माम्--आर्त्तो जिज्ञासुरर्था-र्थी ज्ञानी च भरतर्षभ!”।
“ज्ञानिनामपि सर्वेषां मद्ग-तेनान्तरात्मनां” गीता
२ बोधयुक्तमात्रे त्रि॰ ज्ञानिनोमनुजाः सत्यं किन्तु ते न हि केवलम्। यतो हिज्ञानिनः सर्वे पशुपक्षिमृगादयः” देवामा॰। ज्ञान + अस्त्यर्थेमतुप् मस्य वः ज्ञानवदप्यत्रार्थे
“बहूनां जन्मनामन्तेज्ञानवान् मां प्रपद्यते” गीता। उभयत्र स्त्रियां ङीप्।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्ञानिन्¦ mfn. (-नी-निनी-नि)
1. Wise, intelligent.
2. Knowing, who or what knows. m. (-नी)
1. An astrologer, a fortune-teller, a man prescient of future events.
2. A sage, one possessing religious wisdom or Jnan (ज्ञान) as above. E. ज्ञान knowledge, affix इनि।
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्ञानिन् [jñānin], a. (-नी f.) [ज्ञानमस्त्यस्य इनि] Intelligent, wise. -m.
An astrologer, fortune-teller; यदुवाचाग्निदाहादि स ज्ञानी भावि पृच्छताम् Ks.19.77.
A sage, one possessed of spiritual knowledge; आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भसतर्षभ Bg.7.16.
Planet mercury; ज्ञानी सर्वज्ञसौम्ययोः । Nm.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्ञानिन् mfn. knowing , endowed with knowledge or intelligence , wise , (opposed to वि-)knowing the higher knowledge or knowledge of spirit( Katha1s. lxxix ) Mn. xii , 103 Hariv. etc.
ज्ञानिन् m. a fortune-teller , astrologer R. vi , 23 , 4 Katha1s. xviii , 60 ; xix , 77 Vet.
ज्ञानिन् m. " possessing religious wisdom " , a sage W.