यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्भचक्रम्, क्ली, (डिम्भ इव चक्रम् ।) नराणां शुभाशुभनिर्णायकचक्रविशेषः । यथा, -- “डिम्भचक्रे न्यसेद्भानि भानुभादित्रिमस्तके । मुखे त्रीणि द्बयं स्कन्धे चैकैकं बाहुहस्तयोः ॥ हृदि पञ्च नाभिगुह्ये चैकैकं षट् च जानुनोः । चरणाभ्यां तथैकैकं जन्मर्क्षपतनात् फलम् ॥ शीर्षस्थे छत्रलाभः स्यात् वक्त्रे मिष्टान्नभोजनम् । स्कन्धे धनी च बाहुभ्यां स्थानभ्रष्टो भवेन्नरः ॥ पाणिभ्यां तस्करो लक्ष्मीर्हृद्यल्पायुश्च नाभितः । गुह्ये कामो भ्रमो जान्वोरल्पजीवी च पादयोः ॥” इति स्वरोदयः ॥

"https://sa.wiktionary.org/w/index.php?title=डिम्भचक्रम्&oldid=136797" इत्यस्माद् प्रतिप्राप्तम्