णट
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णट, नृत्यहिंसयोः । इति कविकल्पद्रुमः ॥ (भ्वां- परं-अकं-सकं च-सेट् ।) प्रणटति । णोपदेश- विधौ वर्ज्जनेऽपि अस्य परस्य चेह पाठः केषाञ्चिदनुरोधात् । अत्र नृत्यं साभिनयनर्त्तनम् । इति दुर्गादासः ॥
णट, म नृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) म, प्रणटयति । नृताविति नृत्यते- रौणादिककिप्रत्यये रूपम् । अत्र मिकारानु- बन्धेनैवेष्टसिद्धे पूर्ब्बे नृत्यग्रहणमर्थभेदार्थम् । तेन पूर्ब्बे नृत्यं साभिनयनर्त्तनम् इह तु नृति- रभिनयरहितनर्त्तनमिति । यथा पूर्ब्बस्य । स्फटिककटकभूतिर्नाटयत्येव शैलः । इति माघः । अस्य तु । नाट्येन केन नटयिष्यति दीर्घ- मायुरिति मुरारिः । इति दुर्गादासः ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णट¦ नृत्ये साभिनये नटकार्य्ये हिंसायामयं न णोपदेशीभ्वा॰ षर॰ अक॰ सेट्। नटति प्रणटति अनाटीत् अन-टीत्। ननाट नेटतुः। हिंसायात् प्रनटति। नटःनाट्यम्।
णट¦ नटकृत्ये भ्वा॰ पर॰ अक॰ सेट्। नटति प्रणटति अनाटीत्-अनटीत् ननाट नेटतुः घटा॰। नटयति अनीनटत्। (
“नट नृत्ये। इत्थमेव पूर्वमपि पठितम्। तत्रायंविवेकः। पूर्वपठितस्य नाट्यमर्थो यत्कारिषु नटव्यप-देशो वाक्यार्थाभिनयो नाट्यम्। घटादौ तु नृत्तं नृत्यंचार्थो यत्कारिषु नर्त्तकव्यपदेशः पदार्थाभिनयो नृत्यम्गात्रविक्षेपमात्रं नृत्तम्। केचित्तु घटादौ णटनतावितिपठन्ति। मतावित्यन्ते। णोपदेशपर्य्युदासवाक्ये भाष्य-कृता नाटीति दीर्थपाठात् घटादिर्णोपदेश एव” सि॰ कौ॰
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णट¦ r. 1st cl. (नटति प्रणटति)
1. To dance.
2. To dance as an actor, to gesticulate, to act; also नट।
3. To hurt. भ्वा-पर-सक-सेट् |