णद
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णद, म्लिष्टोक्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) म्लिष्टोक्तिरव्यक्तशब्दः । नदति घण्टा । इति दुर्गादासः ॥
णद, क भाषि । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) क, नादयति । इति दुर्गा- दासः ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णद¦ अव्यक्तशब्दे भ्वा॰ पर॰ अक॰ सेट्। नदति प्रणदतिअनादीत् अनदीत्। ननाद नेदतुः नेदतुः। नादः नदन्नदितुम्। सति निमित्ते एतत्पूर्ववर्त्तिनः न्युपसर्गस्यणत्वम्। प्रणिनदति परिणिनदति।
“वासवश्चानदद्घोरम् रुधिरञ्चाभ्यवर्षत” हरिवं॰
१८
३ अ॰।
“नदति मही गम्भीरम्” वृ॰ स॰
५४ अ॰।
“शब्दं घोरंनदन्ति” भा॰ व॰
२६
७ अ॰
“शिवाश्चैवाशिवान्नादान्नदन्ते” हरिवं॰
१९
३ अ॰। आर्षस्तङ्। णिचि नादयति
“नदय-[Page3194-a+ 38] न्नेति पृथिवीमुत द्याम्” ऋ॰
९ ।
९७ ।
१३ ।
“आ सानु-शुष्मैर्नदयन् पृथिव्याः” ऋ॰
७ ।
७ ।
२ । छान्दसो ह्रस्वः। लोके तु न ह्रस्वः।
“नादयन्रथघोषेण सर्वाः सविदिशोदिशः” भा॰ व॰
२५
३३ श्लो॰। अन्तर्भूतण्यर्थे तु अस्यसकर्मकता
“नृत्याबसाने नटरजराजो ननाद ढक्कांनव पञ्च वारान्” शब्दे न्दुशेखरधृतवाक्यम्। अनु + नादेनानुकरणे सक॰।
“तथा च तेषां रुदतां महा-त्मनां दिशं च खञ्चानुननाद निस्वनः” रामा॰
२ ।
११
१ अ॰। अभि + आभिमुख्येन शब्दकरणे।
“पुत्रेति तन्मयतया तर-वोऽभिनेदुः” भाग॰
१ ।
२ ।
२ । उद् + उच्चैःशब्दकरणे।
“कालमेघैवोन्नदन्” भा॰ द्रो॰
६८
१४ प्रति + प्रतिशब्देन अनुकरणे सक॰।
“वयं प्रति नदन्तस्तान्” भा॰ भी॰
४५
१८ ।
णद¦ भाषे चु॰ उभ॰ सक्॰ सेट्। नादयति ते प्रणादयतिअनीनदत्--त। ननाद नेदतुः।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णद¦ r. 1st cl. (नदति प्रणदति) To sound Inarticulately, to roar as a river or a wild beast, to ring as a bell, &c. r. 10th cl. (नादयति-ते) To speak or tell, to shine. भासे चुरा-उभ-सक-सेट् | भ्वा-पर-अक-सेट् |
णद (इ) णिदि¦ r. 1st cl. (निन्दति-ते प्रणिन्दति) also (ऋ) णिदृ r. 1st cl. (नेदति- ते, प्रणेदति)
1. To abuse. to censure, to reproach, to reprove or revile, to despise or condemn, &c. (The second root means also)
2. To approach, to come near. The change of ण after a preposition is op- tional in the derivatives of the first of these roots. E. कुत्सने भ्वादि- पर-सक-सेट् इदित् | सन्निधाने अक-निन्दने सक-भ्वा-उभ-सेट् |