णिद
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णिद, इ कुत्सने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट्-इदित् ।) निंसनिन्दनिक्षां णोपदेश- फलं चिन्त्यम् । णत्वविकल्पने स्वरूपग्रहणात् । केचित्तु कृतिविकल्पमिच्छन्ति त्यादौ तूपसर्गा- दसमासे उपसर्गात् समासे त्यादौ नित्यमित्यर्थः । यथा, प्रणिन्दकः प्रनिन्दकः । प्रणिन्दति । भट्टौ तु त्यादावपि विकल्पो दृश्यते । इ, कर्म्मणि निन्द्यते । निन्दति दुष्टं लोकः । इति दुर्गा- दासः ॥
णिद, ऋ ञ सन्निधौ । कुत्सने । इति कविकल्प- द्रुमः ॥ (भ्वां-उभं-अकं-कुत्सने-सकं-सेट्- ऋदित् ।) सन्निधिः सन्निकर्षः । ऋ, अनिनेदत् । ञ, नेदति नेदते दयालुं दीनः । निनिदुः । इति दुर्गादासः ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णिद¦ सन्निधाने अक॰ निन्दने सक॰ भ्वा॰ उभ॰ सेट्। नेदति--ते प्रणेदति--तै। अनेदीत् अनेदिष्ट निनेदनिनिदे।
णिद¦ कुत्सने भ्वा॰ पर॰ सक॰ सेट् इदित्। निन्दति प्रणि-न्दति अनिन्दीत्। कृत्सु वा णत्पमिति पाणिनिः। सर्वत्र वा णत्वम् मुग्ध॰
“निनिन्द रूपं हृदयेन पार्वती” कुमा॰।
“निन्दन्तस्तवसामर्य्यम्” गीता।
“अनिन्द्यं निन्दते यो हि” भा॰ व॰
२५
२ अ॰। आर्षस्तङ्।
“न निन्दा निन्द्यंनिन्दति किन्तु विधेयं स्तौति” भीमांसा।