णुद
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णुद, ञ श औ प्रेरणे । इति कविकल्पद्रुमः ॥ (तुदां-उभं-सकं-अनिट् ।) ञ श, नुदति नुदते शरं योधः । औ, नोत्ता । इति दुर्गादासः ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णुद¦ प्रेरणे तुदा॰ उभ॰ सक॰ अनिट्। नुदति--ते प्रणुदतिअनौस्मीत् अनुत्त। नुनोद नुनुदे नोत्ता नोत्स्यति तेनोदनम् नोत्तुम्। नुन्नः नुत्तः।
“मन्दं मन्दंनुदति पवनश्चानुकूलो यथा त्वाम्” मेघ॰। खण्डनेअपसारणे च नुनुदे तनुकण्डु पण्डितः” नैष॰। अद-स्त्वया नुन्नमनुचमं तमः” माघः।
“प्रणुद्यान्मेवृजिनं देवदेवः” हरिवं
१३
१ अ॰।
“विधिना संप्रणु-दितः” भा॰ व॰
१ अ॰। अनुदात्तेत्त्वेऽपि इट् आर्षः। नोदं करोतीति णिच्। नोदयति नोदितः नोद्यमानः।
“ते नोद्यमाना विधिवत् बाहुकेन हयोत्तमा” भा॰ व॰
७१ अ॰।
“अङ्कुशाङ्गुष्ठनोदिताः” भो॰
१९ अ॰। धातुपाठे स्वरित्सु णुद प्रेरण इति पाठेऽपि पुन-स्तथैबोत्तरत्र पाठः कर्त्रभिप्राये क्रियाफलेऽपि परस्मै-पदार्थः” सि॰ कौ॰। अप + अपसारने
“जरां रोगमपनुद्य शरिरात्” साङ्ख्या॰ गृ॰
“आच्छाद्य च महाबाहुर्वलात्तृष्णानपानुदत्” भा॰ आश्व॰
६२ अ॰।
“अलक्ष्मीं व्यपनोत्स्यथ” भा॰ व॰
११
५ अ॰।
“अभिद्रवार्जुन! क्षिप्रं कुरून् द्रोणदापानुद” भा॰ द्रो॰
१९
० अ॰। परा + अपसारणे
“तन्न पराणुद विभो! कश्मलं मानसंमहत्” भाग॰
३ ।
७ ।
७ श्लो॰। प्र + प्रकर्षेण नोदने चालने च।
“स शत्रुसेनां तरसा प्रणुद्य” भा॰ वि॰
६४ अ॰। अपसारणे
“ततोऽन्धकारं प्रणुदन्नुद-तिष्ठत चन्द्रमाः” भा॰ व॰
३३ अ॰। वि + विशेषणे नोदने।
“चोदयामास तानश्वात् विनुन्नाद्भीष्म-सायकैः” भा॰ भी॰
४८
४६ श्लो॰। णिजन्तस्य दुःखा-द्यपसारणे
“लक्ष्मीविर्नोदयति येन दिगन्तलम्बी” रघःमल्लिनाथस्तु तत्करोतीत्यर्थे नामधातुरयमित्याह।
“पुष्पं फलं चार्त्तवमाहरस्व। विनोदयिष्यन्ति नवाभि-षङ्गादु” रघुः।
“कथं वा देवी सरुजत्वात् विनोद्यते” मालविकाग्नि॰।
“लोलं विनोदय मनः सुमनोलतासु”। सा॰ द॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णुद¦ r. 6th cl. (औ) औणुद (नुनति नुदते)
1. To cast, to command, to direct, to throw or send; the act of ordering being considered analogous to that of throwing.
2. To go or proceed. With अप, To remove. With निर्
1. To throw out.
2. To confess, to acknowledge. With वि, To be happy. With सं in the causal, To drive, (as horses.)