यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्रम्, क्ली, (तनक्ति सङ्कोचयति दुग्धं पादाम्बु- दधिरूपेण परिणमयतीत्यर्थः । “स्कायितञ्चीति ।” उणां । २ । १३ । इति रक् न्यङ्क्वादित्वात् कुत्वं च ।) पादाम्बुसंयुतदधि । इत्यमरः । २ । ९ । ५३ ॥ (“गव्यन्त्रिदोषशमनं तक्रं श्रेष्ठन्तदुच्यते । दीपनं रुचिकृन्मेध्यमर्शोदरविकारजित् ॥” इति गव्यतक्रगुणाः ॥ “माहिषं कफकृत् किञ्चिद्घनं शोफकरं नृणाम् । प्लीहार्शोग्रहणीगुल्मपाण्ड्वामयविनाशनम् ॥” इति माहिषतक्रगुणाः ॥ “छागलं लघु संस्निग्धं त्रिदोषशमनं परम् । गुल्माशग्रिहणीशूलं पाण्ड्वामयविनाशनम् ॥” इति छागीतक्रगुणाः ॥ “तथाच त्रिविधं तक्रं कथ्यते शृणु पुत्त्रक ! । यथायोगेन तत् सम्यक् शस्यते येषु रोगिषु ॥ समुद्धतघृतं तक्रमर्द्धोद्धृतघृतञ्च तत् । अनुद्धृतघृतञ्चान्यदित्येतत्त्रिविधं मतम् ॥ सर्व्वं लघु च पथ्यञ्च त्रिदोषशमनं परम् । ततः परं वृष्यतमं क्रमेण समुदीरितम् । समुद्धृतघृतन्तक्रं लघु पथ्यतमं मतम् ॥ गरोदरार्शोग्रहणीपाण्डुरोगज्वरातुरे । वर्च्चोमूत्रग्रहे वापि प्लीहाव्यापदमेहिषु ॥ हितं संप्रीणनं बल्यं पित्तरक्तविबोधकृत् ॥ अर्द्धोद्धृतघृतं तस्माद्वृष्यं गुरु कफप्रदम् । मधुरं पित्तरक्तघ्नं श्रमघ्नं परमं मतम् ॥ अनुद्धृतघृतं सान्द्रं गुरु विद्यात् कफावहम् । बलप्रदन्तु क्षीणानामामशोफातिसारकृत् ॥” इति त्रिविधतक्रगुणाः ॥ * ॥ “तक्रं ग्राहि कषायाम्लं वीर्य्योष्णं दीपनं लघु । श्रमापहरणं स्निग्धं ग्रहण्यर्शोऽतिसारनुत् ॥ इति तक्रगुणाः प्रोक्ता न दद्याद् यत्र तच्छृणु । षाते शोफे च क्षीणानां नोष्णकाले शरत्सु च ॥ संमूर्च्छाभ्रमतृष्णासु तथाच रक्तपित्तके । न शस्तं तक्रपानञ्च करोति विविधान् गदान् ॥” एतेषां तक्रं निषिद्धम् ॥ इति हारीते प्रथमस्थानेऽष्टमेऽध्याये ॥ * ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्रम् [takram], Butter-milk; Ms.8.326; Y.3.37,321; तक्रं शक्रस्य दुर्लभम् Subhāṣ. -Comp. -अटः a churning-stick. -कूर्चिका Curds from milk boiled with whey.-पिण्डः The substance of butter-milk mixed with 1/4th of water remaining after making it pass through a piece of cloth; curds; Bhāva. P.5.13.3. -सारम् fresh butter.

"https://sa.wiktionary.org/w/index.php?title=तक्रम्&oldid=393528" इत्यस्माद् प्रतिप्राप्तम्