यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तगरम्, नदीवृक्षः । पिण्डतगर इति कोङ्कणे प्रसिद्धः । तगरमूल इति ख्यातञ्च । तत्- पर्य्यायः । कालानुशारिवा २ वक्रम् ३ कुटि- लम् ४ शठम् ५ महोरगम् ६ नतम् ७ जिह्मम् ८ दीपनम् ९ तगरपादिकम् १० । इति रत्न- माला ॥ विनम्रम् ११ कुञ्चितम् १२ षण्ढम् १३ नहुषाख्यम् १४ दण्डहस्तम् १५ वर्हणम् १६ पिण्डीतगरकम् १७ पार्थिवम् १८ राजहर्ष- णम् १९ कालानुसारकम् २० क्षत्त्रम् २१ दीनम् २२ । अस्य गुणाः । शीतलत्वम् । तिक्त- त्वम् । दृष्टिदोषविषार्त्तिभूतोन्मादभयनाशित्वम् । पथ्यत्वञ्च ॥ आहुल्यवृक्षः । इति राजनिर्घण्टः ॥ गन्धद्रव्यविशेषः । तस्य पर्य्यायगुणाः । “कालानुसार्य्यं तगरं कठिनं लघु संनतम् । अपरं पिण्डतगरं दण्डहस्ति च वर्हणम् ॥ तगरद्बयमुष्णं स्यात् स्वादु स्निग्धं लघु स्मृतम् । विषापस्मारमृर्द्धाक्षिरोगदोषत्रयापहम् ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=तगरम्&oldid=136901" इत्यस्माद् प्रतिप्राप्तम्