यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलोदकम्, क्ली, (तण्डुलस्य तण्डुलक्षालनस्य उदकम् । तण्डुलक्षालितं उदकं वा ।) तण्डु- लाम्बु । यथा, वैद्यकपरिभाषायाम् । “जलमष्टगुणं दत्त्वा पलं कण्डिततण्डुलात् । भावयित्वा ततो देयं तण्डुलोदककर्म्मणि ॥” (अस्य गुणा यथा, -- “सन्धानं शीतलं बल्यं महातिसारनाशनम् । सुस्वादु शीतलञ्चैव बृंहणं तण्डुलोदकम् ॥” इति हारीते प्रथमे स्थानेऽष्टमेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=तण्डुलोदकम्&oldid=136956" इत्यस्माद् प्रतिप्राप्तम्