यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततः, त्रि, (तन्यते स्म इति । तन् + क्तः ।) विस्तृतः । (यथा, महाभारते । ४ । ५ । १ । “ते वीरा बद्धनिस्त्रिंशास्ततायुधकलापिनः ॥”) व्याप्तः । (यथा, भगवद्गीतायाम् । ८ । २२ । “यस्यान्तःस्थानि भूतानि येन सर्व्वमिदं ततम् ॥”) वायौ, पुं । इति मेदिनी । ते, २० ॥

ततः, [स्] व्य, (तद् + “पञ्चम्यास्तसिल् ।” ५ । ३ । ७ । इति तसिल् । यद्वा, सर्व्वविभक्तिषु तसिल् ।) हेतुः इत्यमरः । ३ । ४ । ३ ॥ (यथा, महाभारते । १२ । ३४८ । ७९ । “हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः ॥” आदिः । परिप्रश्नः । पञ्चम्यर्थः । (यथा, मनुः । १२ । ८५ । “सर्व्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् । तद्ध्यग्र्यं सर्व्वविद्यानां प्राप्यते ह्यमृतं ततः ॥” सप्तम्यर्थः । यथा, मनुः । ४ । १५ । “न विद्यमानेष्वर्थेषु नार्त्त्यामपि यतस्ततः ॥” तृतीयार्थः । यथा, नारदपञ्चरात्रे । २ । ६ । “आराधितो यदि हरिस्तपसा ततः किं नाराधितो यदि हरिस्तपसा ततः किम् ॥”) कथान्तरम् । आनन्तर्य्यम् । इति विश्वः ॥ (यथा, महाभारते । ४ । ५ । २ । “ततस्ते दक्षिणं तीरमन्वगच्छन् पदातयः ॥”)

"https://sa.wiktionary.org/w/index.php?title=ततः&oldid=136963" इत्यस्माद् प्रतिप्राप्तम्