यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस्विनी, स्त्री, जटामांसी । इत्यमरः । २ । ४ । १३४ ॥ (तपस्वितुल्यजटायुक्तत्वादस्यास्तथात्वम् । यथा, वैद्यकरत्नमालायाम् । “नलदं नन्दिनी पेषी मांसी कृष्णजटा जटी । किरातिनी च जटिला लोमशा तु तपस्विनी ॥”) कटुरोहिणी । इति हेमचन्द्रः ॥ महाश्राव- णिका । इति भावप्रकाशः ॥ (तपोऽस्या अस्तीति । तपस् + “तपःसहस्राभ्यां विनीनी ।” ५ । २ । १०२ । इति विनिः । ततः स्त्रियां ङीप् ।) तपोयुक्ता स्त्री ॥ (यथा, रामायणे । ३ । २ । ७ । “पत्नीं स च महावृद्धां सिद्धां शुद्धां तपस्विनीम् । अनसूयां महाभागां सर्व्वभूतहिते रताम् ॥” दीना । दुःखिता । यथा, भागवते । १ । ९ । ४४ । “ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् । पितरं सान्त्वयामास गान्धारीञ्च तपस्विनीम् ॥” पतिव्रता । यथा, नैषधे । १ । १३५ । “मदेकपुत्त्रा जननी जरातुरा नवप्रसूतिर्व्वरटा तपस्विनी । गतिस्तयोरेष जनस्तमर्द्दय- न्नहो विधे ! त्वां करुणा रुणद्धि न ॥” “वरटा हंसी मम स्त्री नवा नूतना प्रसूतिः प्रसवो यस्यास्तादृशी सापि स्वतो जीवितुमस- मर्था तर्हि पत्यन्तरेण तस्या जीविका भवे- दित्यपि निषेधयति यतस्तपस्विनी पतिव्रता मम मरणानन्तरं पत्यन्तराश्रयणाभावात् तस्या जीवनं शिशूनां पोषणञ्च दुर्घटमेव भवेदिति भावः ॥” इति तट्टीका ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस्विनी स्त्री।

जटामांसी

समानार्थक:तपस्विनी,जटा,मांसी,जटिला,लोमश,मिसी

2।4।134।1।1

तपस्विनी जटामांसी जटिला लोमशा मिसी। त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस्विनी/ तपस्--विनी f. a female devotee , poor wretched woman Nal. R. iii , 2 , 7 S3ak. Das3.

तपस्विनी/ तपस्--विनी f. Nardostachys जटा-मांसीL.

तपस्विनी/ तपस्--विनी f. Helleborus niger L.

तपस्विनी/ तपस्--विनी f. = महाश्रावणिकाBhpr.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the third daughter of भन्गकार, married to कृष्ण. वा. ९६. ५५.

"https://sa.wiktionary.org/w/index.php?title=तपस्विनी&oldid=430128" इत्यस्माद् प्रतिप्राप्तम्