यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमः, पुं, (ताम्यत्यनेनेति । तम + संज्ञायां घः ।) तमोगुणः । इत्यमरटीकायां रायमुकुटः ॥ तमालवृक्षः । इति शब्दचन्द्रिका ॥ (राहुः । इत्यमरः । १ । ३ । २६ । यथा, ज्योतिषे होरायाम् । “भृगुतमबुधजीवैरिति । कितवस्तमस्येति वराहः ॥” इति उणादिवृत्तिटीकायां उज्- ज्वलदत्तः । ४ । १८८ ॥)

तमः, [स्] क्ली, (ताम्यत्यनेनेति । तम + “सर्व्व- धातुभ्योऽसुन् ।” उणां । ४ । १८८ । इति असुन् ।) प्रकृतेर्गुणविशेषः । यथा, -- “सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः । कालसञ्चोदितास्तेऽपि परिवर्त्तन्त आत्मनि ॥ प्रभूतञ्च यदा सत्त्वं मनोबुद्धीन्द्रियाणि च । तदा कृतयुगं विद्याद्दाने तपसि यद्रतिः ॥ यदा कर्म्मसु कार्य्येषु शक्तिर्यशसि देहिनाम् । तदा त्रेता रजोवृत्तिरिति जानीहि शौनक ! ॥ यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सरः । कर्म्मणाञ्चापि काम्यानां द्बापरस्तद्रजस्तमः ॥ यदा सदानृतं तन्द्री निद्राहिंसादिसाघनम् । शोकमोहभयं दैन्यं स कलिस्तु तदा स्मृतः ॥” इति गारुडे २२७ अध्यायः ॥ * ॥ अपि च । “तमस्त्वज्ञानजं विद्धि मोहनं सर्व्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ! ॥ सत्त्वं सुखे सञ्जयति रजः कर्म्मणि भारत ! । ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ रजस्तमश्चाभिभूय सत्त्वं भवति भारत ! । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥” “अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्यतानि जायन्ते विवृद्धे कुरुनन्दन ! ॥ यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान् प्रतिपद्यते ॥ रजसि प्रलयं गत्वा कर्म्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ कर्म्मणः सुकृतस्याहुः सात्त्विकं निर्म्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ ऊर्द्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ॥” इति श्रीभगवद्गीतायाम् । १४ । ८१८ ॥ तत्तु आवरकं मोहहेतुः । इत्यमरभरतौ ॥ अस्य कार्य्यं संहारः । इति श्रीधरस्वामी ॥ तस्य धर्म्मो यथा । प्रमादः १ मोहः २ भयम् ३ क्लान्तिः ४ विषादः ५ शोकः ६ अरतिः ७ अनार्य्यता ८ । इति मोक्षधर्म्मः ॥ श्रमः ९ तन्द्रा १० । इत्याश्वमेधिकपर्व्व ॥ अन्धकारः । (यथा, महाभारते । १ । १०५ । १० । “तमसा लोकमावृत्य नौगतामेव भारत ! ॥”) तत्पर्य्यायः । तमसम् २ निशाचर्म्म ३ नीलपङ्कम् ४ रजोबलम् ५ दिवान्तकः ६ वियद्भूतिः ७ खलुक् ८ वृत्रः ९ । इति त्रिकाण्डशेषः ॥ रजोरसम् १० दिनान्तरम् ११ अन्धकम् १२ । इति शब्दरत्नावली ॥ अमरोक्तपर्य्यायोऽन्धकारशब्दे द्रष्टव्यः ॥ शोकः । इति मेदिनी । से, २४ ॥ पापम् । इति हेमचन्द्रः ॥ (राहुः । इति मेदिनी । से, २४ ॥ यथा, रषुः । ८ । ३७ । “निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमः in comp. for मस्.

"https://sa.wiktionary.org/w/index.php?title=तमः&oldid=396847" इत्यस्माद् प्रतिप्राप्तम्