यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्दुकम्, क्ली, (तिन्दुरिव कायतीति । कै + कः ।) कर्षपरिमाणम् । इति वैद्यकपरिभाषा ॥ (यथा, शार्ङ्गधरे पूर्ब्बखण्डे १ अध्याये । “कोलद्बयञ्च कर्षः स्यात् स प्रोक्ता पाणि- मालिका । अक्षः पिचुः पाणितलं किञ्चिपाणिश्च तिन्दु- कम् ॥” यथास्य पर्य्यायाः । “विद्याद्द्वौ द्रंक्षणौ कर्षं सुवर्णञ्चाक्षमेव च । विडालपदकन्तच्च पिचुम्पाणितलन्तथा ॥ तिन्दुकञ्च विजानीयात् कवडग्रहमेव च ॥” इति कल्पस्थाने द्बादशेऽध्याये चरकेणोक्तम् ॥)

तिन्दुकः, पुं, स्त्री, (तिन्दु + स्वार्थे संज्ञायां वा कन् ।) वृक्षविशेषः । गाव् इति ख्यातः । इत्यमरटीकासारसुन्दरी ॥ केन्दूकवृक्षः । इति भरतः ॥ इति राजनिर्घण्टश्च । ते~दु इति भाषा ॥ तत्पर्य्यायः । स्फुर्जकः २ कालस्कन्धः ३ शिति- सारकः ४ । इत्यमरः । २ । ४ । ३८ ॥ स्फूर्जकः ५ केन्दुः ६ तिन्दुः ७ तिन्दुलः ८ तिन्दुकिः ९ तिन्दुकी १० । इति शब्दरत्नावली ॥ नील- सारः ११ अतिमुक्तकः १२ स्वर्य्यकः १३ रामणः १४ स्फूर्जनः १५ स्पन्दनाह्वयः १६ कालसारः १७ । (यथा, महाभारते । ३ । ६४ । ३ । “शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः । अर्ज्जुनारिष्टसंछन्नं स्यन्दनैश्च सशाल्मलैः ॥”) अस्य आमफलस्य गुणाः । कषायत्वम् । ग्राहि- त्वम् । वातकारित्वम् । शीतलत्वम् । लघुत्वञ्च । पक्वफलस्य गुणाः । मधुरत्वम् । स्निग्धत्वम् । दुर्जरत्वम् । श्लेष्मदत्वम् । गुरुत्वम् । व्रणवात- नाशित्वम् । पित्तप्रमेहास्रकारित्वम् । विषद- त्वञ्च । इति राजनिर्घण्टः ॥ पित्तप्रमेहास्र- श्लेष्मन्नाशित्वम् । इति भावप्रकाशः ॥ तत्सारं चिररोगजित् ॥ विश्वतिन्दुकमप्येवं विशेषात् ग्राहि शीतलम् ॥ इति राजनिर्घण्टः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्दुक पुं।

तिन्दुकः

समानार्थक:तिन्दुक,स्फूर्जक,कालस्कन्ध,शितिसारक

2।4।38।2।1

ऐरावतो नागरङ्गो नादेयी भूमिजम्बुका। तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्दुक¦ mf. (-कः-की) A sort of ebony, (Diospyros glutinosa.) f. (-की) The resinous fruit of this tree: see the preceding. Also with इ substi- tuted for the final तिन्दुकि। n. (-कं) A Karsha, the measure. E. तिन्दु, and कन् added.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्दुकम् [tindukam] की [kī], की The fruit of the ebony tree. -कम् A kind of measure (कर्ष).

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्दुक m. Diospyros embryopteris , ( n. ) its fruit (yielding a kind of resin used as pitch for caulking vessels etc. ) MBh. R. Sus3r. VarBr2S. etc.

तिन्दुक m. = दुSee.

तिन्दुक n. a kind of weight(= कर्ष; = सुवर्णCar. vii , 12 ) S3a1rn3gS. i , 21 Asht2a7n3g.

"https://sa.wiktionary.org/w/index.php?title=तिन्दुक&oldid=401417" इत्यस्माद् प्रतिप्राप्तम्