यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरीयम्, क्ली, (चतुर्णां पूरणम् । चतुर्थस्थानस्थित- त्वादस्य तथात्वम् ।) ब्रह्म । इति वेदान्तसारः ॥ “अज्ञानतदुपहितचैतन्ययोराधारभूतं अनुप- हितचैतन्यम् । यथा । वनवृक्षतदवच्छिन्ना- काशयोर्जलजलाशयतद्गतप्रतिविम्बाकाशयोर्वा आधारभूतानुपहिताकाशवदनयोरज्ञानतदुप- हितचैतन्ययोराधारभूतं यदनुपहितं चैतन्यं तत्तुरीयमित्युच्यते । शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते । इत्यादि श्रुतेः ।” इति वेदान्तसारः ॥ (शुक्लयजुर्व्वेदान्तर्गतोपनिषद्बिशेषः । यथा, मुक्ति- कोपनिषदि । “तुरीयातीतसंन्यासपरिव्राजाक्षमालिका ॥”)

तुरीयः, त्रि, (चतुर्णां पूरणः । चतुर् + “चतुर- श्छयतावाद्यक्षरलोपश्च ।” ५ । २ । ५१ । इत्यस्य वार्त्तिकोक्त्या छः । चस्य लोपश्च ।) चतुर्थः । इति मुग्धबोधम् ॥ (यथा, देवी- भागवते । १ । १९ । ८ । “जाग्रत् स्वप्नसुषुप्तिश्च तव राजन् ! भवन्ति हि । अवस्थास्तु यथाकालं तुरीया तु कथं नृप ! ॥” तारकः । इति सायनः ॥ यथा, ऋग्वेदे । ३ । ४ । ९ । “तन्नस्तुरीयमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरीय¦ गतौ भ्वा॰ सक॰ सेट् गतिकर्म्मसु निघण्ठुः। तुरीयति अतुरीयीत्।

तुरीय¦ त्रि॰ तुरीय--अच् चतुर्णां पूरणः चतुर + छ आद्य-लोपश्च।

१ गतियुक्ते

२ चतुर्णां पूरणे च।

३ तारके।
“तनस्तुरीयमध पोषयित्नुः” ऋ॰

३ ।

४ ।

८ ।
“तुरीयं तार-कम्” भा॰।
“गुहा त्रीणि निहितानेङ्गयन्ति”
“तुरीयंवाचो मनुष्या वदन्ति” ऋ॰

१ ।

१६

४ ।

४५ । अस्यार्थः भाष्येवहुधा मतभेदेन दर्शितः किन्तु वैखरीरूपा वाक् चतु-र्थीति निष्कृष्टार्थः तथा हि
“परा प्रश्यन्ती मध्यमा वैस्वरीति चत्वारि। एकैव नादा-त्मिका वाक् मूलाधारादुदिता सती परेत्युच्यते। नादस्यच सूक्ष्मत्वेन दुर्निरूपत्वात् सैव हृदयगामिनी पश्यन्ती-त्युच्यते योगिभिर्द्रष्टुं शक्यत्वात्। सैव बुद्धिं गता विवक्षांप्राप्ता मध्यमेत्युच्यते मध्ये हृदयाख्ये उदीयमानत्वान्मध्यमायाः! अथ यदा सैव वक्त्रे स्थिता ताल्वोष्ठादिव्या-पारेण बहिर्निर्गच्छति तदा वैस्वरीत्युच्यते एवं चत्वारिबावः पदानि परिमितानि। मनीषिणो मनसः स्वा-मिनः स्वाधीनमनस्का ब्राह्मणा वाचोऽस्य शब्दब्रह्मणो-ऽधिगन्तारो योगिनः पदानि चत्वारि पदानि विदुः। जानन्ति। तेषु मध्ये त्रीणि परादीनि गुहानिहितानिहृदयान्तर्वर्त्तित्वात्। तुरीयं तु पदं वैखरीसंज्ञकंमनुष्याः सर्वे वदन्ति।

४ सर्वाधारभूतेऽनुपहितचैतन्येपरब्रह्मणि
“वनवृक्षतदवच्छिन्नाकाशयोर्जलाशयजलतद्गत-प्रतिविम्बाकाशयोर्वा आधारानुपहिताकाशवदनयोरज्ञान-तदुपहितचैतन्ययोराधारभूतं यदनुपहितचैतन्यं तत्तुरीयमित्युच्यते” वेदान्तसा॰। आधारश्चासौ अनुपहितश्चासौआकाशश्च स तथा तद्वदिति यावत्। यद्यप्याकाशस्यवनाश्रयत्वं जलाश्रयत्व वा नास्ति तदनारम्भकत्वात्[Page3327-b+ 38] तथाप्याकाशमन्तरेण तयोः स्थित्यनुपपत्तेस्तदाधारत्ववचन-मिति द्रष्टव्यम्। अस्य चैतन्यस्य तुरीयत्वं विश्वतैजस-प्राज्ञापेक्षया द्रष्टव्यम्।
“शिवमद्वैतं तुरीयं मन्यन्ते” वेदान्त सारधृता श्रुतिः
“तुरीयो यज्ञो यत्र हव्यमिति”। यजु॰

१७ ।

५७ तुरीयःचतुर्थः
“आदौ यजुर्जपः ततोहोत्रा ऋचां पठनम्ब्रह्मणोऽप्रतिरथजपः एवं च तुरीयोहोमः तथा चश्रुतिः
“अध्वर्युः पुरस्ताद्यजूंषि जपति होता पश्चा-दृचोऽन्वाह ब्रह्मा दक्षिणतोऽप्रतिरथं जपत्येष एवतुरीयो यज्ञ” इति वेददी॰।
“तुरीयः ब्रह्महत्यायाःक्षत्रियस्य बधे स्थितः” मनुः स्वार्थे क। तत्रार्थे।
“भगिन्यश्च निजादशात् दत्त्वांशन्तु तुरीयकम्” याज्ञ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरीय¦ mfn. (-यः-या-यं) Fourth, a fourth. m. (-यः) A fourth part, a quarter. n. (-यं) The divine being, or universal spirit. E. irr. derived from चतुर् four, with छ affix; also तूर्य्य and तुर्य्य | तुरीय-अच् | चतुर्णां पूरणः चतुर् + छ आद्यलोपश्च |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरीय [turīya], a.

The fourth.

Consisting of four parts.

Mighty.

यम् A quarter, a fourth part, fourth.

(In Vedānta. phil.) The fourth state of the soul in which it becomes one with Brahman or the Supreme Spirit. -Comp. -वर्णः, -जातिः a man of the fourth caste, a Śūdra; तुरीयजातिं तिलकयन् कुलोत्तुङ्ग इति यथार्थनामा बभूव शूद्रः । चोलचम्पू p.6.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरीय Nom. यति, to go Naigh. ii , 14.

तुरीय mfn. (for क्तुर्[ Zd. khtuiria] fr. चतुर्)( Pa1n2. 5-2 , 51 Va1rtt. 1 ) Ved. 4th RV. etc.

तुरीय mfn. consisting of 4 parts S3Br. ix

तुरीय n. the 4th state of spirit (pure impersonal Spirit or ब्रह्म) Up. ( MaitrUp. Nr2isUp. ii , 2 , 1 etc. RTL. 35 ) Veda7ntas.

तुरीय mfn. being in that state of soul Nr2isUp.

तुरीय mfn. तुर्, a 4th , constituting the 4th part

तुरीय n. a 4th part AV. Ka1t2h. etc. (with यन्त्र, " a quadrant " S3am2kar. xxvii ).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of ब्रह्मा (s.v.). भा. XI. १५. १६.
(II)--(Turiya Indrayuk?-ब्र्। प्।); a Deva (a- jita). Br. II. १३. ९४; वा. ३१. 8.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TURĪYA : A state of existence of Man. (See under Jāgrat).


_______________________________
*1st word in right half of page 799 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरीय वि.
(चतुर्+छ, चतुरश्छयतावाद्यक्षरलोपश्च, वा., पा. 5.,2.51 पर) मा.श्रौ.सू. 1०.1.1.9; सर्वोत्तम।

"https://sa.wiktionary.org/w/index.php?title=तुरीय&oldid=478523" इत्यस्माद् प्रतिप्राप्तम्