यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यत्, [द्] त्रि, (त्यजति संसर्गमिति । त्यज् + “त्यजितनियजिभ्यो डित् ।” उणां १ । १३१ । इति अदिः स च डित् ।) तत् । सेइ इति भाषा । अस्य पुंलिङ्गस्त्रीलिङ्गयो रूपं स्यः स्या । सर्व्वनामशब्दोऽयम् । इति व्याकरणम् ॥ (यथा, ऋग्वेदे । १ । ६३ । ४ । “त्वं ह त्यदिन्द्र चोदीः सखा वृत्रं यद्बज्रिन् वृषकर्म्मन्नुभ्नाः ॥”)

त्यत्, [द्] क्ली, (त्यज् + “त्यजितनीति ।” उणां । १ । १३१ । इति अदिः स च डित् ।) वायुः । आकाशः । यथा, -- “सत्यव्रतं सत्यपरं त्रिसत्यं सत्त्यस्य योनिं निहितञ्च सत्त्ये । सत्त्यस्य सत्यमृतसत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ॥” इति भागवते । १० । २ । २६ ॥ “सत्यव्रतमिति । सत्यं व्रतं सङ्कल्पो यस्य तम् । सत्यपरं सत्यं परं श्रेष्ठं प्राप्तिसाधनं यस्मिन् तम् । त्रिसत्यं त्रिष्वपि कालेषु सृष्टेः पूर्ब्बं प्रलयानन्तरं स्थितिसमये च सत्यं अव्यभिचारेण वर्त्तमानम् । तदेवाहुः सत्त्यस्य योनिमिति । सच्छब्देन पृथिव्यप्तेजांसि त्यच्छब्देन वाय्वाकाशौ एवं सच्च त्यच्च सत्त्यं भूतपञ्चकम् । ‘तत् सत्त्यमित्या- चक्षते ।’ इति श्रुतेः । तस्य योनिं कारणम् । अनेन सृष्टेः पूर्ब्बं वर्त्तमानतोक्ता । तथा सत्त्ये तस्मिन्नेव निहितं अन्तर्यामितया स्थितम् । अनेन स्थितिसमयेऽपि सत्यत्वमुक्तम् । तथा मत्त्यस्य सत्यं तस्यैव सत्त्यस्य सत्यं पारमार्थिकं नाशेऽप्यवशिष्यमाणरूपम् । अनेन प्रलयेऽप्य- वधित्वे न सत्यत्वं दर्शितम् । एवं त्रिसत्यत्व- मुपपादितम् । तथा ऋतसत्यनेत्रं ऋतं सूनृता वाणी सत्यं समदर्शनम् । तथा भगवता व्याख्यास्य मानत्वात् । सत्यञ्च समदर्शनम् । ऋतञ्च सूनृता, वाणी कविभिः परिकीर्त्तिता इति । तयोर्नेत्रं नयनसाधनं नेतारं प्रवर्त्तकमिति यावत् । एवं सर्व्वप्रकारेण सत्यात्मकं त्वां वयं शरणं प्रपन्ना इत्यर्थः ।” इति तट्टीकायां श्रीधर- स्वामी ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यद्¦ त्रि॰ त्यज--
“त्यजितनियजिभ्यो डित्” उ॰ अदिडिच्च।

१ प्रसिद्धे। अस्य सर्वनामतया त्यदादिकार्य्यम्, स्यःत्यौ त्ये त्यस्मै त्यस्मात् त्येषां त्यस्मिन्। स्त्रियां स्था त्येत्याः। क्लीवे त्यद् त्यें त्यानीति भेदः।

२ सर्वदा परो-क्षाभिधानार्हे वस्तुनि।
“द्वे बाव ब्रह्मणो रूपे मूर्त्तञ्चैवामूर्त्तञ्च मर्त्यञ्चामृतञ्चस्थितञ्च यच्च सच्च त्यच्च। तदेतन्मूर्तं यदन्यद्वायीश्चा-न्तरीक्षाच्चैतन्मर्त्यमेतत् स्थितमेतत् तस्यैतस्य मूर्त्तस्यै-तस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एषतपति सत्यो ह्येष रसः। अथामूर्तं वायुश्चान्तरिक्षंचैतदमृतमेतद्यदेतत्त्यत्तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यतएतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस्तस्यह्येष रस इत्यधिदैवतम्” वृ॰ उ॰।
“ते एते द्वे वाववावशब्दोऽवधारणार्थः। द्वे एवेत्यर्थः। ब्रह्मणो पर-मात्मनो रूपे रूप्यते याभ्यामरूपं परमब्रह्माविद्याध्या-रोपणाभ्यां के ते द्वे। मूर्त्तञ्च एव मूर्तमेव च। तथाअमूर्त्तञ्च एवामूर्तमेव चेत्यर्थः। अन्तर्नीतस्वात्मविशेषणेमूर्त्तामूर्ते द्वे एवेत्यवधार्य्येते। कानि पुनस्तानि विशे-षणानि मूर्त्तामूर्तयोरित्युच्यन्ते। मर्त्यं मरण-धर्म्यमृतञ्च तद्विपरीतम्। स्थितं परिच्छिन्नं गतिपूर्वकंयत् स्थास्नु। यच्च यातीति यद्व्याप्यपरिच्छिन्नं स्थित-विपरीतम्। सच्च सदित्यन्येभ्यो विशेष्यमाणासाधारणध-र्मविशेषवत्। तच्च तद्विपरीतं त्यदित्येव सर्वदा परोक्षा-क्षाभिधानार्हम्। अथासूर्तमथाधुनाऽमूर्तमुच्यते। वायु-श्चान्तरिक्षञ्च यत्परिशेषितं भूतद्वयं एतदमृतममूर्तत्वा-दस्थितमतोऽविरुध्यमानं केनचिदमृतममरणधर्म तद्यत्स्थितविपरीतं व्याप्यपरिच्छिन्नं यस्माद्यदेतदन्येभ्योऽप्र-रित्यज्यमानविशेषमतस्त्यत्त्यदिति परोक्षाभिधानार्हमेवपूर्ववत्। तस्येतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्यत्यस्य चतुष्टयविशेषणस्यामूर्तस्यैव रसः। कोऽसौ। यएष एतस्मिन्मण्डले पुरुषः करणात्मको हिरण्यगर्भःप्राण इत्यभिधीयते। यः स एषः अमूर्तस्य भूतद्वयस्यरसः पूर्ववत् सारिष्ठः, एतत्पुरुषसारञ्चामूर्तं भूतद्वयंहैरण्यगर्भलिङ्गारम्भाय हि भूतद्वयाभिव्यक्तिरव्याकृता-त्तस्मात्तादर्य्यात्तत् सारं भूतद्वयम्। त्यस्य ह्येष रसो[Page3357-b+ 38] यस्माद्यो मण्डलस्थः पुरुषो मण्डलवन्न गृह्यसारश्चभूतद्वयस्य च साधर्म्यम्। तस्माद्युक्तं प्रसिद्धवद्धेतूपा-दानं त्यस्य ह्येष रस इति” पा॰ भाष्यम्
“सूतोवा सूतपुत्रो वा यो वा स्यो वा भवाम्यहम्” वेणी॰। अव्ययीभावे शदरा॰ अच् समासान्तः। उपत्यदम्।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यद्¦ pron. for तद् mfn. (-स्यः-स्या-तद्) That. E. त्यज् to quit, Unadi affix अदि, and the final of the radical rejected.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यद् [tyad], Pron. a. (Nom. sing. स्यः m.) That; अयं त्यस्य राजा Bṛi. Up.1.3.24. -n. (त्यत्)

Wind, air.

sky; L. D. B.

Invisible (अमूर्त); यच्च सच्च त्यच्च Bṛi. Up.2.3.1; सच्च त्यच्चाभवत् Tait. Up.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यद् mfn. nom. स्य( स्) , स्या, त्यद्, ( g. सर्वा-दि)that (often used like an article e.g. त्यत् पणीनां वसु, " that i.e. the wealth of the पणिs " RV. ix , 111 , 2 ; sometimes strengthened by चिद्; often put after उत, or after another demonstrative in the beginning of a sentence) RV. AV. vii , 14 , 1 S3Br. xiv ( त्यस्य= मम, 4 , 1 , 26 ; n. त्यम्for त्यद्, 5 , 3 , 1 and [in the etymology of सत्यम्] KaushUp. ) TUp. ii , 6

"https://sa.wiktionary.org/w/index.php?title=त्यद्&oldid=409155" इत्यस्माद् प्रतिप्राप्तम्