त्रय
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रयम्, क्ली, (त्रयोऽवयवा यस्य । त्रि + “संख्याया अवयवे तयप् ।” ५ । २ । ४२ । इति तयप् । “द्बित्रिभ्यां तयस्यायज्वा ।” ५ । २ । ४३ । इति तयस्यायच् ।) त्र्यवयवम् । इति मुग्ध- बोधम् ॥ तिन इति भाषा ॥ (यथा, मनुः । २ । ७६ । “अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः । वेदत्रयात् निरदुहत् भूर्भुवःस्वरितीति च ॥”)
त्रयः, पुं, (तरतीति । तॄ + “तरतेर्ड्रिः ।” उणां ५ । ६६ । इति ड्रिः ।) त्रिसंख्या । तिन इति भाषा । त्रिशब्दस्य बहुवचनान्तरूपोऽयम् । अस्य स्त्रीलिङ्गक्लीवलिङ्गयो रूपे तिस्रः त्रीणि । इति व्याकरणम् ॥ तद्वाचकानि यथा, -- कालः १ अग्निः २ भुवनम् ३ गङ्गामार्गः ४ शिवचक्षुः ५ गुणः ६ ग्रीवारेखा ७ कालिदास- काव्यम् ८ वलिः ९ सन्ध्या १० पुरम् ११ पुष्क- रम् १२ रामः १३ विष्णुः १४ ज्वरपादः १५ । इति कविकल्पलता ॥ त्रिसंख्याविशिष्टे, त्रि । इत्यमरः ॥ “तिस्रोभार्य्या त्रिशालाश्च त्रयो भृत्याश्च बान्धवाः । ध्रुवं वेदविरुद्धाश्च न ह्येते मङ्गलप्रदाः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रय¦ न॰ स्त्री त्रयाणामवयवम् अयच्। त्रितये
१ त्रित्वसंख्यायाम्
“वेदत्रयं निरदुहत् भूर्भुवः स्वरितीति च” मनुः। स्त्रीत्वपक्षे ङीप्।
“व्याघोतिष्ट सभावेद्यामसौनरशिखित्रयी” माघः त्रयोऽवयवा अस्य अयच्।
२ त्रित्व-संख्यान्विते त्रि॰ स्त्रियां ङीप्।
“प्रत्यक्षमनुमानञ्चशास्त्रञ्च विविधागमम्। त्रयं सुविदितं कार्य्यं धर्म-[Page3359-a+ 38] शुद्धिमभीप्सताः” मनुः ङीषन्तः
“ऋग्यजुःसामरूपे
३ वेदत्रये त्रित्वसंख्यान्वितेषु ऋगादिवेदेषु अमरः
“एत-द्विदन्तोविद्वांसस्त्रयीनिष्कर्षमन्वहम्”
“त्रैविद्येभ्यस्तवींविद्याद्दण्डनीतिञ्च शाश्वतीम्” मनुः।
“ब्रह्माऽथ पुरुषोरुद्रस्त्रयमेतत् त्रयीमयम्। सर्गादावृङ्मयो ब्रह्मास्थितौ विष्णुर्यजुर्मयः। रुद्रः साममयोऽन्ताय तस्मात्तस्याशुचिर्ध्वनिः” मनुः।
४ पुरन्ध्र्यां
५ सुमतौ स्त्र्यी विश्वः
६ सोमराजीवृक्षे स्त्री शब्दच॰।
७ भवान्याम् दुर्गायाम्। यथा
“ऋग्यजुःसामभागेन साङ्गवेदगतापि या। त्रयीतिपट्यते लोके दृष्टा दृष्टार्थसाधिनीति” देवीपु॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रय¦ nf. (-यं-यी)
1. The third.
2. (In composition) Tree, as गुणत्रयं the three properties. E. त्रि, अयच् aff.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रय [traya], a. (-यी f.) Triple, threefold, treble, divided into three parts, of three kinds; त्रयी वै विद्या ऋचो यजूंपि सामानि Śat. Br.; Ms.1.23. -यम् A triad, a group or collection of three; अदेयमासीत्त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे R.3.16; लोकत्रयम् Bg.11.2,43; Ms.2.76.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रय mf( ई)n. (fr. त्रिPa1n2. 5-2 , 43 )triple , threefold , consisting of 3 , of 3 kinds RV. x , 45 , 2 AV. iv , 11 , 2 VS. etc. ( यी विद्या) , " the triple sacred science " , reciting hymns , performing sacrifices , and chanting([ RV. , YV. , and SV. ]) S3Br. AitBr. etc.
त्रय n. a triad (chiefly ifc. ) ChUp. Kat2hUp. Mn. etc.
त्रय n. = यी विद्याGaut. Mn. etc.
त्रय n. the Buddh. triad (Buddha , धर्म, and संघ) Hcar. viii
त्रय n. summit Ba1lar. i , 28
त्रय n. a woman whose husband and children are living L.
त्रय n. Venonia anthelminthica L.
त्रय n. सु-मतिL.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--group of three: वर्ण loka, etc. वा. ९७. ३३.