त्रिदोषज
यन्त्रोपारोपितकोशांशः सम्पाद्यताम्
कल्पद्रुमः सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिदोषजः, त्रि, (त्रिदोषाज्जायते इति । जन + “पञ्चम्यामजातौ ।” ३ । २ । ९८ । इति डः ।) त्रिदोषजनितः । सन्निपातरोगः । यथा, -- “चिरज्वरे वातकफोल्वणे वा त्रिदोषजे वा दशमूलमिश्रः । किराततिक्तादिगणः प्रयोज्यः शुद्ध्यर्थिने वा त्रिवृता विमिश्रः ॥” इति चक्रपाणिदत्तः ॥ (“दृष्ट्वा त्रिदोषजं घोरं ज्वरं प्राणापहारकम् । तस्मादादौ कफस्यास्य शोधनं परिकीर्त्तितम् ॥ न कुर्य्यात् पित्तशमनं यदीच्छेदात्मनो यशः । कफो वातो बलीयांस्तु सद्यो हन्ति रुजातुरम् ॥ लङ्घनं वमनं वारि ष्ठीवनं स्यात्त्रिदोषजे । त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा ॥ लङ्घनञ्च समुद्दिष्टं ज्ञात्वा दोषबलाबलम् । कफं विशोधितं ज्ञात्वा ततो वातनिवारणम् ॥ पित्तसंशमनं कार्य्यं ज्ञात्वा पित्तस्य कोपनम् । शोधनीयौ वातकफौ न तु पित्तं विनाशयेत् ॥” इति हारीते चिकित्सितस्थाने द्बितीयेऽध्याये ॥)
वाचस्पत्यम् सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिदोषज¦ त्रि॰ त्रिदोषात् जायते जन--ड। दोषत्रयजातेवातादिसन्निपातजे रोगभेदे
“चिरज्वरे बातकफोल्वणे[Page3367-b+ 38] वा त्रिदे षजे वा दशमूलमिश्रः। किराततिक्तादिगणःप्रयोज्यः शुद्ध्यर्थिने वा त्रिवृताविमिश्रः” चक्रद॰। अस्यपूर्वरूपं
“सर्वलिङ्गसमवायः” भावप्र॰। ज्वरशब्दे दृश्यम्।
शब्दसागरः सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिदोषज¦ m. (-जः) Disease, &c. proceeding from disorder of the three hu- mours of the body. E. त्रिदोष, and ज produced.
Monier-Williams सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिदोषज/ त्रि--दोष---ज mfn. resulting from the -T त्रि-दोषL.