त्रिशङ्कु
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिशङ्कुः, पुं, (त्रीणि शङ्कूनि व्यतिक्रमाणि यस्य ।) सूर्य्यवंशीयराजविशेषः । स तु इक्ष्वाकुवंशोद्भव- पृथुराजपुत्त्रः । (अस्य नामनिरुक्तिर्यथा, हरि- वंशे । १३ । १९ । “एवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महायशाः । त्रिशङ्कुरिति होवाच त्रिशङ्कुरिति स स्मृतः ॥”) एष वशिष्ठमाह अहं सशरीरेण स्वर्गं गन्तुं यजेयं वशिष्ठ एतदशक्यमित्याह ततो राजा तस्य पुत्त्रानुवाच सशरीरो यज्ञेन स्वर्गं यथा- प्नुयां तथा कुरुत यदि भवद्भिः परित्यक्तस्तदान्यं गुरुमुपासिष्ये वशिष्ठपुत्त्रास्तच्छ्रुत्वा राजानमूचु- र्वशिष्ठो भगवान् अशक्यमिति यत् प्राह तद- स्माभिः कथं शक्यम् । राजोवाच यष्टुमन्यां गतिं गमिष्यामि तच्छ्रुत्वा ऋषिपुत्त्रा राजानं शेपुः श्वश्चाण्डालो भविष्यसि । ततस्तस्यां रात्र्यामती- तायां स चाण्डालदर्शनो भूत्वा विश्वामित्रं शरण- माययौ विश्वामित्रस्तं स्वीयद्रव्येण याजयामास तस्मिन् यज्ञे देवा भागार्थं नागच्छन् ततो विश्वामित्रः क्रोधात् राजानमब्रवीत् मया बाल्यात् प्रभृति यत्तपः कृतं तेन त्वं दिवं व्रज तदा राजा सशरीरो दिवं ययौ । तदा शक्रस्तमु- वाच त्रिशङ्को ! त्वं भूमौ पत ततोऽवाक्शिराः पतन् राजा पाहीति विश्वामित्रमुवाच विश्वा- मित्रस्तिष्ठेति तमुक्त्वा स्वर्गदक्षिणमार्गेऽपरान् सप्तर्षीन् सृष्ट्वापरं नक्षत्रचक्रं स्रष्टुमुपचक्रमे देवाः सम्भ्रान्ता ऋषिमूचुरयं सशरीरः स्वर्गं गन्तुं नार्हति विश्वामित्रस्तानुवाच अहमस्य स्वर्गा- रोहणं प्रतिज्ञाय कथमनृतं करिष्यामि अतो यावल्लोकाः स्थास्यन्ति तावदमूनि नक्षत्राण्य- त्रैव तिष्ठन्तु त्रिशङ्कुरप्यवाक्शिरास्तिष्ठतु । इति रामायणम् ॥ * ॥ विडालः । शलभः । इति मेदिनी । के, १०१ ॥ चातकपक्षी । इति शब्द- रत्नावली ॥ खद्योतः । इति शब्दमाला ॥ (महा- देवः । यथा, महाभारते । १३ । १७ । १०२ । “अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥”)
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिशङ्कु¦ पु॰ त्रयः शङ्कव इव यत्र।
१ मार्ज्जारे
२ शलभेमेदि॰।
३ चातकखगे शब्दच॰।
४ खद्योते शब्दमा॰।
५ सूर्य्यवंश्ये नृपभेदे। तस्य नामनिरुक्तिः हरिवं॰
१३ अ॰दर्शिता यथा(
“अविद्यमाने मांसे तु वशिष्ठस्य महात्मनः। सर्वका-मदुघान्दोग्ध्रीं ददर्श स नृपात्मजः। तां वै क्रोधाच्चमोहाच्च श्रमाच्चैव क्षुधार्दितः। दशधर्मगतो राजाजघान जनमेजय!। मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धोबुभुक्षितः। त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश। तच्च मांसं स्वयञ्चैव विश्वामित्रस्य चात्मजान्। भोजया-मास तच्छुत्वा वशिष्ठोऽप्यस्य चुक्रुघे। क्रुद्धस्तु भगवान्वाक्यमिदमाह नृपात्मजम्। वशिष्ठ उवाच। पातयेय-महं क्रूर! तव शङ्कुमसंशयम्। यदि ते द्वाविभौशङ्कू न स्यातां वै पुनःकृतौ। पितुश्चापरितीषेण गुरो-र्दोग्ध्रीबधेन च। अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यति-क्रमः। वैशम्पायन उवाच। एवं त्रीण्यस्य शङ्कूनि तानिदृष्ट्वा महातपाः। त्रिशङुरिति होवाच त्रिशङ्कुस्तेनस स्मृतः”। तस्य सशरीरस्वर्गयानकथा रामा॰ आ॰
५
७ स॰(
“सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान्। अभिवाद्यानुपूर्व्येण ह्रिया किञ्चिदर्वाङ्मुखः। अव्रवीत्स महात्मानः सर्व्वानेव कृताञ्जलिः। शरणं वः प्रपन्नोऽहंशरण्यान् शरणं गतः। प्रत्याख्यातो हि भद्रं वोवशिष्ठेन महात्मना। यष्टुकामो महायजं तदनुज्ञा-तुमर्हथ। गुरुपुत्त्रानहं सर्व्वान्नमस्कृत्य प्रसादये। [Page3384-b+ 38] शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान्। ते मांभवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः। सशरीरोयथाहं वै देवलोकमवाप्नुयाम्। प्रत्याख्यातो वशिष्ठेनगतिमन्यां तपोधनाः!। गुरुपुत्त्रानृते सर्व्वान्नाहंपश्यामि काञ्चन। इक्ष्वाकूणां हि सर्व्वेषां षुरोधाःपरमा गतिः। तस्मादनन्तरं सर्व्वे भवन्तो दैवतं मम”। (
“ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम्। ऋषि-पुत्त्रशतं राम! राजानमिदमव्रवीत्। प्रत्याख्यातोऽसिदुर्म्मेधो! गुरुणा सत्यवादिना। तं कथं समतिक्रम्यशाखान्तरमुपेयिवान्। इक्ष्वाकूणां हि सर्व्वेषां पुरोधाःपरमा गतिः। न चातिक्रमितुं शक्यं वचनं सत्य-वादिनः। अशक्यमिति होवाच वशिष्ठो भगचानृषिः। तं वयं वै समाहर्त्तुं क्रतुं शक्ताः कथञ्च न। वालि-शस्त्वं नरश्रेष्ठ! गम्यतां स्वपुरं पुनः। याजने भगवान्शक्तस्त्रैलोक्यस्यापि पार्थिव!। अवमानं कर्थं कर्तुं तस्यशक्ष्यामहे वयम्। तेषां तद्वचनं श्रुत्वा क्रोधपर्य्याकुला-क्षरम्। स राजा पुनरेवैतानिदं वचनमब्रवीत्। प्रत्या-ख्यातो भगवता गुरुपुत्त्रैस्तथैव हि। अन्यां गतिंगमिष्यामि स्वस्ति वोऽस्तु तपोधनाः!। ऋषिपुत्त्रास्तुतच्छ्रुत्वा वाक्यं घोराभिसंहितम्। शेपुः परमसंक्रुद्धा-श्चण्डालत्वं गमिष्यसि। इत्युक्त्वा ते महात्मानो विविशुःस्वं स्वमाश्रमम्। अथ रात्त्र्यां व्यतीतायां राजाचण्डालतां गतः। नीलवस्त्रधरो नीलः परुषो ध्वस्त-मूर्द्ध्वज्वः। चितामाल्याङ्गरागश्च आयसाभरणोऽभवत्। तं दृष्ट्वा मन्त्रिणः सर्व्वे त्यज्य चण्डालरूपिणम्। प्राद्रवन् सहिताःराम! पौरा येऽस्यानुगामिनः। एकोहि राजा काकुत्स्थ! जगाम परमात्मवान्। दह्यमानोदिवारात्रं विश्वामित्रं तपोधनम्। विश्वामित्रस्तु तं दृष्ट्वाराजानं विफलीकृतम्! चण्डालरूपिणं राम! मुनिःकारुण्यमागतः। कारुण्यात् स महातेजा वाक्यं परम-धार्म्मिकः! इदं जगाद भद्रन्ते राजानं घोरदर्शनम्। किमागमानकार्य्यन्ते राजपुत्र! महाबल!। अयोध्या-धिपते! वीर! शापाच्चण्डालताङ्गतः। अथ तद्वाक्यमा-कर्ण्य राजा चण्डालताङ्गतः। अब्रवीत् प्राञ्जलिर्वाक्यंवाक्यज्ञो वाक्यकोविदम्। प्रत्याख्यातोऽस्मि गुरुणागुरुपुत्त्रैस्तथैव च। अनवाप्यैव तं कामं मया प्राप्तोत्रिप्रर्य्ययः। सशरीरो दिवं यायामिति मे सौम्यदर्शन!। मया चेष्टं क्रतुशतं तथा तन्नाप्यते फलम्। अनृतं[Page3385-a+ 38] नोक्तपूव्ये मे न च वक्ष्ये कदाचन। कृच्छ्रेष्वपि गतःसौम्य! क्षत्रधर्म्मेण ते शपे। यज्ञैर्बहुविधैरिष्टं प्रजा-धर्म्मेण पालिताः। गुरवश्च महात्मानः शीलवृत्तेनतोषिताः। धर्म्मे प्रयतमानस्य यज्ञं चाहर्त्तुमिच्छतः। परितोषं न गच्छत्ति गुरवो मुनिपुङ्गव!। दैवमेव परंमन्ये पौरुषं तु निरर्थकम्। दैवेनाक्रम्यते सर्व्वं दैवंहि प्तरमा गतिः। तस्य मे परमार्त्तस्य प्रसादमभिका-ङ्क्षतः। कर्त्तुमर्हसि भद्रन्ते दैवोपहतकर्म्मणः। नान्यंगतिं गमिष्यामि नान्यच्छरणमस्ति मे। दैवं पुरुषकारेणनिवर्त्तयितुमर्हसि”
५८ स॰।
“उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः! अब्र-वीत् मधुरं बाक्यं साक्षाच्चण्डालताङ्गतम्। इक्ष्वाको!स्वागतं वत्स! जानामि त्वां सुधार्म्मिकम्। शरणं तेप्रदास्यामि मा भैषीर्नृपपुङ्गव!। अहमामन्त्रये सर्व्वा-न्महर्षीन् पुण्यकर्म्मणः। यज्ञसाह्यकरान् राजंस्ततोयक्ष्यसि निर्वृतः। गुरुशापकृतं रूपं यदिदं त्वतिवर्त्तते। अनेन सह रूपेण सशरीरो गमिष्यसि। हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप!। यस्त्वं कौ-शिकमागम्य शरण्यं शरणागतः। एवमुक्त्वा महातेजाःपुत्त्रान् परमधार्म्मिकान्। व्यादिदेश महाप्राज्ञान्यज्ञसम्भारकारणात्। सर्व्वान् शिष्यान् स चाहूयवाक्यमेतदुवाच ह। सर्वानृषीन् सवाशिष्ठानानयध्वंममाज्ञया। सशिष्यान् सुहृदश्चैव सर्त्विजः सुबहुश्रुतान्। यदन्यो वचनं ब्रूयान्मद्वाक्यबलनोदितः। तत्सर्वमखिले-नोक्तं ममाख्येयमनावृतम्। तस्य तद्वचनं श्रुत्वा दिशोजग्मुस्तदाज्ञया। आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्म-वादिनः। ते च शिष्याः समागम्य मुनिं ज्वलिततेज-सम्। ऊचुश्च वचनं सर्वं सर्वेषां ब्रह्मवादिनाम्। श्रुत्वाते वचनं सर्वे समायान्ति द्विजातयः। सर्वदेशेभ्य आग-च्छन् वर्जयित्वा महोदयम्। वाशिष्ठं यच्छतं सर्वंक्रोधपर्य्याकुलाक्षरम्। यथाह वचनं सर्वं शृणु त्वंमुनिपुङ्गव!। क्षत्त्रियो याजको यस्य चण्डालस्यविशेषतः। कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः। ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम्। कथंस्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः। एतद्वचन-नैष्ठुर्य्यमूचुः संरक्तलोचनाः। वाशिष्ठा मुनिशार्द्दूल!सर्बे सहमहोदयाः। तेषां तद्वचनं श्रुत्वा सर्वेषां मुनि-पुङ्गवः। क्रोधसंरक्तनयनः सरोषमिदमव्रवीत्। यद्दूष-[Page3385-b+ 38] यन्त्यदुष्टं मां तप उग्र समास्थितम्। भस्मीभूता दुरा-त्मानो भविष्यन्ति न संशयः। अद्य ते कालपाशेन नीतावैवस्वतक्षयम्। सप्त जातिशतान्येव मृतपा सम्भवन्तुते। श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः। विक्रियाश्च विरूपाश्च लोकाननुचरन्त्वमी। महोदयश्चर्दुर्बुद्धिर्नामदुष्यं ह्यदूषयत्। धूषितः सर्वलीकेषु निषा-दत्वं गमिष्यति। प्राणातिपातनिरतो निरनुक्रोश-ताङ्गतः। दीर्धकालं मम क्रोधात् दुर्गतिं वर्त्तयि-ष्यति। एतावदुक्त्वा बचनं विश्वामित्रो महातपाः। विर-राम महातेजा ऋषिमध्ये महामुनिः”
५९ स॰। (
“तपोवलहतान् ज्ञात्वा वाशिष्ठान् समहोदयान्। ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत। अय-मिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः। धर्मिष्ठश्च वदा-न्यश्च मां चैव शरणं गतः। स्वेनानेन शरीरेण देव-लोकजिगीषया। यथायं स्वशरीरेण देवलोकं गमि-ष्यति। तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह। विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः। ऊचुः समे-ताः सहसा धर्म्मज्ञा धर्म्मसंहितम्। अयं कुशिक-दायादो मुनिः परमकोपनः। यदाह वचनं सम्य-गेतत् कार्य्यं न संशयः। अग्निकल्पो हि भगवान्शापं दास्यति रोषतः। तस्मात् प्रवर्त्यतां यज्ञः सश-रीरो यथा दिवि। गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्यतेजसा। ततः प्रवर्त्त्यतां यज्ञः सर्वे समभितिष्ठत। एवमुक्त्वा च ऋपयः संजह्रुस्ताः क्रियास्तदा। याज-कश्च महातेजा विश्वामित्रोऽभवत् क्रतौ। ऋत्विजश्चानु-पूर्वेण मन्त्रवन्मन्त्रकोविदाः। चक्रुः सर्वाणि कर्माणियथाकल्पं यथाविधि। ततः कालेन महता विश्वा-मित्रो महातपाः। चकारावाहनं तत्र भागार्थं सर्व-देवताः। नाभ्यागमंस्तदा तत्रं भागार्थं ताश्च देवताः। ततः कोपसमाविष्टो विश्वामित्रो महामुनिः। स्रुव-मुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्। पश्य मे तपसोवीर्य्यं स्वार्जितस्य नरेश्वर!। एष त्वां स्वशरीरेणनयामि स्वर्गमोजसा। दुष्प्रापं स्वशरीरेण स्वर्गं गच्छनरेश्वर!। स्वार्जितं किञ्चिदप्यस्ति मया हि तपसःफलम्। राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज। उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः। दिवंजगाम काकुत्स्थ! मुनीनां पश्यतां तदा। स्वर्गलोकंगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः। सह सर्वैः स्वरगणै-[Page3386-a+ 38] रिदं वत्त्रनमब्रवीत्। त्रिशङ्को! गच्छ भूयस्त्वं नास्तिस्वर्गकृतालयः। गुरुशापहतो मूढ! पत भूमिमवाक्-शिराः। एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत् पुनः। विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्। तच्छ्रुत्वावचनं तस्य क्रोशमानस्य कौशिकः। रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रबीत्। ऋषिमध्ये स तेजस्वीप्रजापतिरिवापरः। सृजन् दक्षिणमार्गस्थान् सप्तर्षी-नपरान् पुनः। नक्षत्रवंशमपरमसृजत् क्रोधमूर्च्छितः। दक्षिणां दिशमास्थाय ऋषिमध्ये महायशाः। सृष्ट्वानक्षत्रवंशञ्च क्रोधेन कलुषीकृतः। अन्यमिन्द्रं करि-ष्यामि लोको वा स्यादनिन्द्रकः। दैवतान्यपि स क्रो-धात् स्रष्टुं समुपचक्रमे। ततः परमसम्भ्रान्ताः सर्षि-सङ्घाः सुरासुराः। विश्वामित्रं महात्मानमूचुः सानुनयंवचः। अयं राजा महाभाग! गुरुशापपरिक्षतः। सशरीरो दिवं यातुं नार्हत्येव तपोधन!। तेषां तद्वचनंश्रुत्वा देवानां मुनिपुङ्गवः। अब्रवीत् सुमहद्वाक्यंकौशिकः सर्वदेवताः। सशरीरस्य भद्रं वस्त्रिशङ्कोरस्यभूपतेः। आरोहणं प्रतिज्ञातं नानृतं कर्त्तुमुत्सहे। स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः। नक्षत्राणिच सर्वाणि मामकानि ध्रुबाण्युत। यावल्लोका धरि-ष्यन्ति तिष्ठन्त्वेतानि सर्वशः। मत्कृतानि सुराः सर्वेतदनुज्ञातुमर्हथ। एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनि-वुङ्गवम्। एवं भवतु भद्रन्ते तिष्ठन्त्वेतानि सर्वशः। गगने तान्यनेकानि वैश्वानरपथाद्बहिः। नक्षत्राणिमुनिश्रेष्ठ! तेषु ज्योतिःषु जाज्वलन्। अवाक्शिरास्त्रि-शङ्कुश्च तिष्ठत्वमरसन्निभः। अनुयास्यन्ति चैतानिज्योतीषि नृषसत्तमम्। कृतार्थं कीर्त्तिमन्तञ्च स्वर्गलोक-गत यथा। विश्वामित्रस्तु धर्म्मात्मा सर्वदेवैरभिष्टुतः। ऋषिमध्ये महातेजा वाढमित्येव देवताः। ततो देवामहात्मान ऋषयश्च तपोघनाः। जम्मुर्यथागतं सर्वेयज्ञस्यान्ते नरोत्तम!। ”
६० स॰त्रिशङ्कोरपत्यम् अण्। त्रैशङ्कव हरिश्चन्द्रे
“तस्य (त्रिशङ्कीः)सत्यरथा नाम पत्नी कैकयवंशजा। कुमारं जनयामासहरिश्चन्द्रमकल्मषम्। स वै राजा हरिश्चन्द्रस्त्रैशङ्कवइति स्मृतः” हरिवं॰
१३ अ॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिशङ्कु¦ m. (-ङ्कुः)
1. The name of a king of the solar race, famous for attempting to go to heaven in his mortal frame, by the aid of VISWAMITRA.
2. A cat.
3. A grasshopper.
4. A bird, the Chataka, (Cuculus melanoleucos.)
5. A fire-fly. E. त्रि three, शङ्कु a dart, ट aff.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिशङ्कु/ त्रि--शङ्कु m. N. of a sage TUp. i , 10
त्रिशङ्कु/ त्रि--शङ्कु m. of a king of अयोध्या(aspiring to ascend to heaven in his mortal body , he first requested वसिष्ठto perform a great sacrifice for him ; on वसिष्ठ's refusing he applied to वसिष्ठ's hundred sons , who cursed and degraded him to the rank of a चण्डाल[hence called a चण्डालking DivyA7v. xxxiii ] ; विश्वा-मित्रthen undertook the sacrifice for him and invited all the gods , who declined to come and thereby so enraged the sage that , by his own power , he transported -T त्रिशङ्कुto heaven ; on his being hurled down again head foremost by the gods , he was arrested in his course by विश्वा-मित्रand remained suspended in the sky , forming the southern cross constellation R. i , 57 (59 G) ff. [son of पृथु] ; Hariv. 730 ff. and VP. iv , 3 , 13 f. [son of त्रय्यारुण] ; [son of त्रि-बन्धन] BhP. ix , 7 ) MBh. i , xiii etc.
त्रिशङ्कु/ त्रि--शङ्कु m. a cat L.
त्रिशङ्कु/ त्रि--शङ्कु m. the civet-cat Npr.
त्रिशङ्कु/ त्रि--शङ्कु m. a grasshopper L.
त्रिशङ्कु/ त्रि--शङ्कु m. a fire-fly L.
त्रिशङ्कु/ त्रि--शङ्कु m. = ङ्खL.
त्रिशङ्कु/ त्रि--शङ्कु m. N. of a mythical mountain DivyA7v. viii , 293 ff.
त्रिशङ्कु/ त्रि--शङ्कु f. N. of a mythical river 223 and 295
त्रिशङ्कु/ त्रि--शङ्कु f. ( कुका) 298
त्रिशङ्कु/ त्रि--शङ्कु m. pl. N. of thorns 293
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
TRIŚAṄKU I : (SATYAVRATA, MATAṄGA). A celebrated King of the Solar dynasty.
1) Genealogy. Descending in order from Brahmā-- Marīci--Kaśyapa--Vivasvān--Vaivasvata Manu-- Ikṣvāku--Vikukṣi--Śaśāda--Purañjaya (Kakutstha)-- Anenas--Pṛthulāśva--Prasenajit, Yuvanāśva--Mān- dhātā--Purukutsa--Trasadasyu--Anaraṇya--Haryaśva Vasumanas--Sudhanvā--Trayyāruṇa--Satyavrata (Triśaṅku).
2) Father discards him. When Satyavrata grew up he became a lewd, lustful imprudent man. One day while he was leading such a contemptuous life, a marriage was being conducted in a brahmin house. Guests had assembled, the bridegroom had come and the ceremony was about to start when Satyavrata entered the marriage hall and carried away by force the bride to the shock of all those present there. Some of the Brahmin guests immediately went to Trayyāruṇa and told him what a shameful crime his son had committed. The enrag- ed father at once sent Satyavrata out from the palace. Satyavrata left the country altogether and went and stayed in a colony of harijans. Though he lived with those low-caste people he did not adopt their mode of living. He went out daily to the forests with his bow and arrow and made his food. He never felt any animosity towards his father who had thus sent him out from his country. He thought thus “Of course, my father got terribly angry when he heard the complaints of the Brahmins and in that mood punished me thus, though the punishment was a bit too much. But our family preceptor Vasiṣṭha, who knows everything, who is a moralist and a righteous man, who has the knowledge and authority to prescribe atonement for all sins, did severe punishment. That was very hard.” As he thought more about it in this vein, he felt a great hatred towards Vasiṣṭha.
3) Satyavrata and Viśvāmitra's family. When his only son Satyavrata was turned out from the family, King Trayyāruṇa was greatly distressed. He went to the forests to do penance to get another son. At that time the country did not have rains for twelve successive years as a punishment for the King for sending out his son. The people suffered much. Among the people who were suffering were the wife and children of Viśvāmitra. Viśvāmitra at that time had gone to the shores of river Kauśikī for doing penance. Viśvāmitra's family consist- ing of his wife and three sons during that famine lived in hunger. At last the mother decided to sell the middle son and buy food with the money received by the sale. She put a rope made of darbha grass round the neck of the boy and took him to the market. On the way Satyavrata saw them and on hearing their sad story told them not to sell the child. He assured them that he would take care of them till the return of Viśvāmitra. He removed the darbha rope from the child's neck and the child got the name of Gālava from that time on- wards. (Gala=neck). He promised them he would daily place enough meat at the foot of a tree near the āśrama. True to his promise, he hunted in the forests and brought to the foot of the tree fresh flesh of deer or hare or boar and also fresh fruits. The family lived happily because of him.
4) Curse of Vasiṣṭha and the name of Triśaṅku. When Trayyāruṇa went to the forests to do penance, it was Vasiṣṭha who was managing the affairs of the palace. The heir-apparent Satyavrata lived in the hut of a caṇḍāla. Every minute Satyavrata's hatred towards Vasiṣṭha increased in strength. One day Satyavrata did not get any game even after a day's hunting and at dusk he happened to reach the āśrama of Vasiṣṭha where he saw Nandinī, the beloved cow of the sage, grazing by the side of the āśrama. Anger, desire and hunger made him imprudent and without thinking of the consequences Satyavrata killed Nandinī and after eating enough to appease his hunger took the rest to feed the family of Viśvāmitra. The wife of Viśvāmitra little knowing that it was cow's flesh cooked it and ate it.
That night when Vasiṣṭha came to the āśrama he found Nandinī missing and he went in search of it. After some time the sage knew that Satyavrata had killed and eaten it. The enraged sage called Satyavrata to his side and cursed him thus “You will from today become a caṇḍāla. Three śaṅkus (sins) namely wrath of a father, abduction of another man's wife and consumption of cow's flesh will give you life-long trouble and thus you will earn a name, Triśaṅku (Three śaṅkus). Instantly Satyavrata became a caṇḍāla and started roaming about in the streets.
5) Triśaṅku becomes King. Triśaṅku, distressed at heart by a father's wrath and a Guru's curse walked about aimlessly in the forests. He expressed his desire to the ṛṣis and Brahmins to do a yāga and get himself absolved of all his sins. But nobody was willing to help a wretch- ed man cursed and abandoned by both his father and his Guru. Feeling desperate, he decided to commit suicide. He made a great fire-pit and prepared himself to jump into it. Before doing that he prayed to the goddess and when the goddess knew that his devotee would jump into the fire and become ashes, she appear- ed before him in person and said thus: “Son, why do you try to jump into the fire? Your father has become old and day after tomorrow he will crown you as King and then go to the forests to do penance. Look, there comes your father's minister to take you to the palace.” When the goddess disappeared Satyavrata returned to his āśrama in a pensive mood. Nārada went and in- formed the king of everything that happened in the forest and the king immediately sent his ministers to fetch Satyavrata to the palace. When Satyavrata came the king crowned him as king and then went to the forests for penance.
6) Satyavrata becomes Caṇḍāla again. Satyavrata ruled the country for a long time. He was a pious ruler, devoted to god and soon he developed a desire to go to heaven with his mortal body. He approached Vasiṣṭha first for this purpose. But the family preceptor told him there was nothing in the śāstras about any yāga which could help one to go bodily to heaven. Disappointed he approached the sons of Vasiṣṭha who ridiculed him when he told them of his queer desire. Triśaṅku got angry and left them saying “Let me see whether there are others in this country who could send me bodily to heaven.” Those arrogant words annoyed Vasiṣṭha and his sons and they cursed him and made him a caṇḍāla again. Triśaṅku thereafter did not return to the palace, but went to the forests to live there. He knew if he returned to the palace as a caṇḍāla he would not be recognised by his wife and children.
Hariścandra, son of Triśaṅku, heard about the curse on his father and sent the ministers to fetch his father to the palace. But Triśaṅku did not come back and so the ministers made Hariścandra the king of Ayodhyā.
7) Viśvāmitra meets Triśaṅku. When Hariścandra became king, Triśaṅku was living in Ambāvana (forest of Ambā) as a great devotee of the goddess. It was at that time that Viśvāmitra returned home after his penance. Viśvā- mitra enquired of his wife how they managed to live during the great famine. Then Satyavatī, wife of Viśvā- mitra, told him the whole story of how Satyavrata helped them, why he killed Nandinī, Vasiṣṭha's cow, and how they ate cow's flesh, how Satyavrata was cursed to be a caṇḍāla, how he was called back as king and how he was at that time living in Ambāvana. The eyes of Viśvā- mitrā became wet when he heard the sorrowful story and he decided to end the caṇḍālatva (state of being a caṇḍāla) of Satyavrata. He went straight to Ambāvana and met Triśaṅku there.
8) Triśaṅku Svarga (Heaven of Triśaṅku). Viśvāmitra pro- mised Triśaṅku that he would send him to heaven bodily and made preparations for a yāga. No other sage par- took in the yāga because of instructions from Vasiṣṭha. But undaunted, Viśvāmitra conducted the yāga alone and, as the power of his performances increased, Tri- śaṅku started rising bodily from earth slowly and soon rose up to heaven. When the devas found a Caṇḍāla standing with his physical body before the gates of heaven, they ran to Indra and told him. Indra got angry and pushed him out from heaven and Triśaṅku came falling down with his head turned downwards to the earth. Triśaṅku cried loudly calling Viśvāmitra by name. When Viśvāmitra, hearing the noise, looked up he saw poor Triśaṅku descending fast from heaven with his head turned upside down. Viśvāmitra's anger knew no bounds and he roared aloud “Let Triśaṅku stay where he is now.” Triśaṅku stopped in mid-air. Indra did not allow Triśaṅku to come up and Viśvā- mitra did not allow him to come down. Indra then made a separate heaven for Triśaṅku below original heaven. Then Viśvāmitra started to create another Indra and devas for the new heaven. The devas were frightened and Indra then approached Viśvāmitra and requested him to desist from his attempt to make duplicate devas promising him that he would give Triśaṅku a seat in his heaven itself. Viśvāmitra agreed to it. At once Indra brought a golden Vimāna and took him bodily to heaven. (Sargas 57 to 59, Bālakāṇḍa, Vālmīki Rāmāyaṇa 7th Skandha, Devī Bhāgavata; 9th Skandha, Bhāgavata; Chapter 13, Harivaṁśa; Sundara Kāṇḍa, Kamba Rāmāyaṇa; Chapter 71, Ādi Parva; Chapter 12, Sabhā Parva).
_______________________________
*4th word in left half of page 794 (+offset) in original book.
TRIŚAṄKU II : A philosopher. He is mentioned in several places in Taittirīyopaniṣad.
_______________________________
*1st word in right half of page 795 (+offset) in original book.