यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षः, पुं, (दक्षते सृष्टिप्रवृद्धये समर्थो भवतीति । दक्ष + अच् ।) प्रजापतिविशेषः । स ब्रह्मणो दक्षिणाङ्गुष्ठाज्जातः । ततः प्रभृति मैथुनेन प्रजा जाताः । यथा, -- “शरीरानथ वक्ष्यामि मातृहीनान् प्रजापतेः । अङ्गुष्ठाद्दक्षिणाद्दक्षः प्रजापतिरजायत ॥” इति मत्स्यपुराणे । ३ । ९ ॥ “यथा ससर्ज चैवादौ तथैव शृणुत द्बिजाः ! । यदा तु सृजतस्तस्य देवर्षिगणपन्नगान् ॥ न वृद्धिमगमल्लोकस्तदा मैथुनयोगतः । दक्षः पुत्त्रसहस्राणि पाञ्चजन्यामजीजनत् ॥” इति च तत्रैव । ५ । ३ -- ४ ॥ समर्थः । यथा, ऋग्वेदे । १ । ५९ । ४ । “बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः ॥” प्रवृद्धः । यथा, तत्रैव । १ । १५ । ६ । “युवं दक्षं धृतव्रत मित्रावरण दूळभम् ॥” “दक्षं प्रवृद्धम् ।” इति तद्भाष्ये सायनः ॥ दक्षिणः । अपसव्यम् । यथा, महानिर्व्वाणे । ३ । ४४ । “प्राणायामं ततः कुर्य्यान् मूलेन प्रणवेन वा । मध्यमानामिकाभ्याञ्च दक्षहस्तस्य पार्व्वति ! ॥”)

"https://sa.wiktionary.org/w/index.php?title=दक्षः&oldid=139314" इत्यस्माद् प्रतिप्राप्तम्