यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणः, त्रि, (दक्षते इति । दक्ष वृद्धौ + “द्रु- दक्षिभ्यामिनन् ।” उणां । २ । ५० । इति इनन् ।) दक्षिणोद्भूतः । (दक्षिणदिग्भवः । यथा, रघुः । ४ । ८ । “स हि सर्व्वस्य लोकस्य युक्तदण्डतया मनः । आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ॥” दक्षिणदिक्स्थितः । यथा, मनुः । ५ । ९२ । “दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् ॥”) सरलः । (यथा, महाभारते । ४ । ५ । २७ । “दक्षिणां दक्षिणाचारो दिशं येनाजयत् प्रभुः ॥”) परच्छन्दानुवर्त्ती । आरामः । इति मेदिनी णे, ५० ॥ (“दक्षिणः सरलावामपरच्छन्दानुवर्त्तिषु । वाच्यवद्दक्षिणावाटीयज्ञदानप्रतिष्ठयोः ॥” इति विश्ववचनात् । णे, ४५ ॥) दक्षः । अपसव्यम् । इति हेमचन्द्रः ॥ डाहिन इति भाषा । (यथा, मनुः । २ । ६३ । “उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजः ॥”) दक्षिणहस्ताप्रदाने दोषो यथा, -- “दक्षहस्ताप्रदाता च सर्पश्च सप्तजन्मसु । ततो भवेद्धस्तहीनो मानवश्च ततः शुचिः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ * ॥ दक्षिणहस्ते प्रतिग्रहो यथा, -- “ॐकारमुच्चरन् प्राज्ञो द्रविणं शक्तुमोदकम् । गृह्णीयाद्दक्षिणे हस्ते तदन्ते स्वस्ति कीर्त्तयेत् ॥” इत्यादित्यपुराणम् ॥ (प्रदक्षिणः । यथा, भागवते । १ । १४ । १३ । “शस्ताः कुर्व्वन्ति मां सव्यं दक्षिणं पशवोऽपरे । वाहांश्च पुरुषव्याघ्र ! लक्षये रुदतो मम ॥”) पुं, चतुर्धानायकान्तर्गतनायकविशेषः । तस्य लक्षणम् । (यथा, साहित्यदर्पणे । ३ । ४० । “एषु त्वनेकमहिलासु समरागो दक्षिणः कथितः ॥”) यथा च “सकलनायिकाविषयसमसहजानुरागः । अस्योदाहरणं यथा, -- “अन्तःपुरे स्फुरति पद्मदृशां सहस्र- मक्षिद्वयं कथय कुत्र निवेशयामि । इत्याकलय्य नयनाम्बुरुहे निमील्य रोमाञ्चितेन वपुषा स्थितमच्युतेन ॥” इति रसमञ्जरी ॥ * ॥ (तन्तोक्ताचारविशेषे, क्ली । यथा, कुलार्णवे ५ खण्डे । “सर्व्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवं महत् । वैष्णवादुत्तमं शैवं शैवाद्दक्षिणमुत्तमम् ॥ दक्षिणादुत्तमं वामं वामात् सिद्धान्तमुत्तमम् । सिद्धान्तादुत्तमं कौलं कौलात् परतरं न हि ॥”)

"https://sa.wiktionary.org/w/index.php?title=दक्षिणः&oldid=139326" इत्यस्माद् प्रतिप्राप्तम्