यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाग्निः, पुं, (दक्षिणः अनुकूलोऽग्निः ।) यज्ञाग्निविशेषः । इत्यमरः । २ । ७ । १९ ॥ दक्षि- णस्या दिशोऽग्निर्दक्षिणाग्निः । इति भरतः ॥ अस्य नामकरणम् । यथा, -- “दत्तासु दक्षिणास्वादौ तृप्तिर्भूत्वा यतोऽमरान् । नयसे दक्षिणाभागं दक्षिणाग्निस्ततोऽभवत् ॥” इति वराहपुराणम् ॥

"https://sa.wiktionary.org/w/index.php?title=दक्षिणाग्निः&oldid=139337" इत्यस्माद् प्रतिप्राप्तम्