दल
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दल, क भेदे । इति कविकल्पद्रुमः ॥ (चुरां-परं- सकं-सेट् ।) क, दालयति गात्रं वाणः । इति दुर्गादासः ॥
दल, मि भेदे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-अकं च सेट् ।) मि, दलयत्यष्टौ कुलक्ष्मा- भृतः । इति मुरारिः । दालयति । भेदो विदा- रणम् । दलति कुठारः काष्ठम् । क्वचिद्विदीर्णी- भावे विकसने चायम् । श्रीमद्राघवबाहुदण्ड- विदलत्कोदण्डचण्डध्वनिरिति महानाटकम् । दरविदलितमल्लीवल्लिचञ्चत्परागेति जयदेवः । इति दुर्गादासः ॥
दलम्, क्ली, (दलतीति । दल + अच् ।) उत्सेधः । खण्डम् । (यथा, मनुः । ८ । २९९ । “भार्य्या पुत्त्रश्च दासश्च शिष्यो भ्राता च सोदरः । प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥”) शस्त्रीच्छदः । अपद्रव्यम् । पत्रम् । इति मेदिनी । ले, २६ ॥ (यथा, आर्य्यासप्तशत्याम् । ६९२ । “हृत्वा तटिनि ! तरङ्गैर्भ्रमितश्चक्रेषु नाशये निहितः । फलदलवल्कलरहितस्त्वयान्तरीक्षे तरुस्त्यक्तः ॥”) घनम् । इति शब्दरत्नावली ॥ तमालपत्रम् । इति राजनिर्घण्टः ॥ अर्द्धम् । इति लीलावती ॥ (पुं, इक्ष्वाकुकुलोत्पन्नपरिक्षिन्नामराज्ञः पुत्त्रः । स च मण्डूकराजकन्यासम्भूतः । यथा, महा- भारते । ३ । १९२ । ४४ । “अथ कस्यचित् कालस्य तस्यां कुमारास्त्रय- स्तस्य राज्ञः सम्बभूवुः शलो दलो बलश्चेति ॥” वृक्षविशेषः । तत्पर्य्याया यथा, -- “वातपोतः पलाशः स्याद्वानप्रस्थश्च किंशुकः । राजादनो ब्रह्मवृक्षो हस्तिकर्णो दलोऽपरः ॥” इति वैद्यकरत्नमालायाम् ॥)
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दल नपुं।
पत्रम्
समानार्थक:पत्र,पलाश,छदन,दल,पर्ण,छद
2।4।14।1।4
पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्. पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम्.।
: नूतनपत्रम्, हिङ्गुपत्रम्
पदार्थ-विभागः : अवयवः
दल नपुं।
शकलः
समानार्थक:दल
3।3।206।4।2
मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः। कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥ स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः। हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्.। तूलिश्चित्रोपकरणशलाकातूलशय्ययोः। तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि॥ दवदावौ वनारण्यवह्नी जन्महरौ भवौ।
पदार्थ-विभागः : , गुणः, परिमाणः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दल¦ भेदे भ्वा--पर॰ अक॰ भेदने सक॰ सेट्। दलति अदालीत्णिचि वा घटा॰ दलयति दालयति। ददाल देलतुः दलितः। दला
“ददाल भूर्नभोरक्तं गोष्पदप्रं बवर्ष च”
“ददालभूः पुपूरे द्यौः कपीनामपि निखनैः”
“अदालिषुःशिलादेहे चूर्ण्यभूवन् महाद्रुमाः” भट्टिः
“दलतिशतधा यन्न हृदयम्” अमरु॰।
दल¦ भेदने चुरा॰ उभ॰ सक॰ सेट्। दालयति--ते अदीदलत् त।
“मुष्टिनाऽदालयत्तस्य”
“दालयत्यष्टौ कुलक्ष्माभृतः” अनर्घरा॰। भेदश्चेह द्विधाकरणं विकमनञ्च तत्रविकसने।
“दरविदलितमल्लीवल्लिचञ्चत्परागे” गीतगो॰।
दल¦ न॰ दल--अच्
१ उत्सेधे
२ खण्डे
३ पत्रे च्छदे मेदि॰।
४ घनेशब्दर॰
५ तमालपत्रे राजनि॰
६ अर्द्धे लीलावतो
“प्राप्तापराधास्ताड्याः स्यूरज्वा वेणुदलेन वा” मनुः
“ताम्बूलीनां दलैस्तत्र रचितापानभूमयः” रघुः
“वा-पीष्वन्तलीनमहानोलदलासु” माघः।
“अङ्घ्रिः स्वत्र्यंश-युक्तः सनिजदलयुतः कीदृशः कीदृशोऽसौ” लीला॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दल¦ r. 1st cl. (दलति) r. 10th cl. (दालयति-ते)
1. To cut, to divide, to split or pierce.
2. To be cut, &c.
3. To display.
4. To wither. भ्वा० अक० भेदे सक० भेदने सेट् | भेदने चुरा० उभ० सक० सेट् |
दल¦ mn. (-लः-लं) A leaf. n. (-लं)
1. A part, a portion, a fragment.
2. Dividing, tearing, cutting, splitting, &c.
3. A sheath, a scabbard.
4. An adulteration or alloy.
5. A heap or quantity.
6. The leaf of Tamala.
7. A half. E. दल् to divide, to cut, &c. affix अच्।
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दलः [dalḥ] लम् [lam], लम् [दल्-अच्]
(a) A piece, portion, part, fragment; वापीष्वन्तर्लीनमहानीलदलासु Śi.4.44. (b) A piece torn or split off. (c) Tearing, cutting.
A degree.
A half, the half.
A sheath, scabbard.
A small shoot or blade, a petal, leaf; ताम्बूलीनां दलैस्तत्र रचितापानभूमयः R.4.42; Ś.3.2,21.
The blade of any weapon.
A clump, heap, quantity.
A detachment, a body of troops.
Alloy or adulteration.
Comp. आढकः foam.
a cuttle-fish bone.
a ditch, moat.
a hurricane, high wind.
red chalk.
wild sesamum.
the Kunda creeper.
a Sūdra.
the headman of a village.
an elephant's ear. -आढ्यम् mud on the banks of a river. -उदर a. having a tapering (leaf-like) belly; पूररेचकसंविग्नवलि- वल्गुदलोदरम् Bhāg.4.24.51. -कपाटः a folded leaf.-कोमलम् a lotus. -कोषः the Kunda creeper. -निर्मोकः the Bhūrja tree. -पुष्पा the Ketaka plant. -सूचिः, -ची f. a thorn. -स्नसा the fibre or vein of a leaf.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दल n. ( m. L. )a piece torn or split off. fragment(See. अण्ड, चर्म-, द्वि-, वेणु-) Sus3r. v , 3 , 22 ; vi , 5 , 4 S3is3. iv , 44 ( ifc. f( आ). ) Naish- vii , 31
दल n. " part " , a degree VarBr2. xvii , 4
दल n. a half(See. अधर-, अहर्-, द्यु-) VarBr2S. Sus3r. i , 7 Su1ryas.
दल n. a hemistich
दल n. " unfolding itself. " a small shoot , blade , petal , leaf (often ifc. in names of plants) MBh. R. etc.
दल n. cinnamon leaf. L.
दल n. unclean gold Bhpr. v , 26 , 2
दल n. a clump , heap L.
दल n. a detachment W.
दल n. = उत्सेध, धवद्-वस्तु, अवद्रव्य( अपद्W. ) L.
दल n. dividing , splitting W.
दल m. N. of a prince MBh. iii , 13178 VP. iv , 4 , 47 ,
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a son of प्रत्युष and a देवऋसि. Br. II. ३५. ९४.
(II)--a son of परियात्र (पारिपात्र-वा। प्।) and father of Bala. Br. III. ६३. २०४: वा. ८८. २०४.
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
DALA : The son of King Parīkṣit of the dynasty of Ikṣvāku. The mother of Dala was Suśobhanā, the daughter of the King of Maṇḍūka. Dala had an elder brother called Śala. Dala became king when Śala was killed. Hermit Vāmadeva was the priest of this King. (M.B. Vana Parva, Chapter 192). See Parīkṣit II.
_______________________________
*7th word in left half of page 195 (+offset) in original book.