संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्षिण्यम्, क्ली, (दक्षिणस्य भावः । दक्षिण + ष्यञ् ।) अनुकूलता । इति हेमचन्द्रः । ६ । १३ ॥ (सरलता । यथा, आर्य्यासप्तशत्याम् । ६०१ । “सौभाग्यं दाक्षिण्यान्नेत्युपदिष्टं हरेण तरुणी- नाम् । वामार्द्धमेव देव्याः स्ववपुःशिल्पे निवेशयता ॥” परच्छन्दानुवर्त्तनम् । यथा, रघुः । १ । ३१ । “तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा । पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा ॥”) भावविशेषः । तत्तु दक्षिणाचाररूपम् । यथा, “बालान्तु वामदाक्षिण्यभावाभ्यामपि पूजयेत् । श्मशानभैरवीं देवीमुग्रतारां तथैव च ॥” अपि च । “ऋषीन् देवान् पितॄंश्चैव मनुष्यान् भूतसञ्चयान् । यो यजन् पञ्चभिर्यज्ञैरृणानि परिशोधयन् ॥ विधिवत् स्नानदानाभ्यां कुर्व्वन् यद्बिधिपूजनम् । क्रियते सरहस्यन्तु तद्दाक्षिण्यमिहोच्यते ॥ सर्व्वत्र पितृदेवादौ यस्माद्भवति दक्षिणः । देवी च दक्षिणा यस्मात्तस्माद्दाक्षिण्यमुच्यते ॥” इति कालिकापुराणे ७७ अध्यायः ॥ दाक्षिणार्हे, त्रि । इत्यमरः । ३ । १ । ५ ॥ (दक्षिणे भवम् । दक्षिण + ष्यञ् । दक्षिणभवे । दक्षिण- दिक्सम्बन्धिनि च । यथा, आर्य्यासप्तशत्याम् । २८२ । “दाक्षिण्यात् म्रदिमानं दधतं सा भानुमेन- मवमंस्थाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=दाक्षिण्यम्&oldid=506723" इत्यस्माद् प्रतिप्राप्तम्