दिक्
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दिक्, [श्] स्त्री, (दिशति अवकाशं ददाति या । दिश + “ऋत्विग्दधृगिति ।” ३ । २ । ५९ । इति क्विन्-प्रत्ययेन साधुः ।) पूर्व्वपश्चिमदक्षि- णोत्तरादिरूपा । तत्पर्य्यायः । ककुप् २ काष्ठा ३ आशा ४ हरित् ५ । इत्यमरः । १ । ३ । ८ ॥ निदेशिनी ६ दिशा ७ ककुभः ८ हरितः ९ गौः १० । इति शब्दरत्नावली ॥ अपि च । आताः १ आशाः २ उपराः ३ आष्ठाः ४ काष्ठाः ५ व्योमः ६ ककुभः ७ हरितः ८ इत्यष्टौ दिङामानि । इति वेदनिघण्टौ १ अध्यायः ॥
अस्या व्युत्पत्तिर्यथा, -- “कृत्वैवमवधिं तस्मादिदं पूर्ब्बञ्च पश्चिमम् । इति देशो निदिश्येत यया सा दिगिति स्मृता ॥” तस्या वायोर्गुणाः । “विश्वग्वायुरनायुष्यः प्राणिनांनैकदोषकृत् । सर्व्वर्त्तुनिन्दको हन्ता कृत्योत्पातपुरःसरः ॥” इति राजवल्लभः ॥ * ॥ सा दशधा यथा । पूर्ब्बा १ आग्नेयी २ दक्षिणा ३ नैरृती ४ पश्चिमा ५ वायवी ६ उत्तरा ७ ऐशानी ८ ऊर्द्धम् ९ अधः १० ॥ * ॥
तासां उत्पत्तिर्यथा, -- \
महातपा उवाच ।
“शृणु राजन्नवहितः प्रजापाल ! कथामिमाम् । यथा दिशः समुत्पन्नाः श्रोत्रेभ्यः पृथिवीपते ! ॥
ब्रह्मणः सृजतः सृष्टिमादिसर्गे समुत्थिते । चिन्ताभून्महती को मे प्रजाः सृष्टा धरिष्यति ॥
एवं चिन्तयतस्तस्य अवकाशं व्रजत्विह । प्रादुर्ब्बभूषुः श्रोत्रेभ्यो दश कन्या महाप्रभाः ॥
पूर्ब्बा च दक्षिणा चैव प्रतीची चोत्तरा तथा । ऊर्द्ध्वाध एव षण्मुख्याः कन्या ह्यासंस्तदा नृप ! ॥
तासां मध्ये चतस्रस्तु कन्याः परमशोभनाः । याःपश्यन्त्यो महाभागा गाम्भीर्य्येण समन्विताः ॥
ता ऊचुः प्रणयाद्देवं प्रजापतिमकल्मषम् । अवकाशन्तु नो देहि देवदेव प्रजापते ! ॥
यत्र तिष्ठामहे सर्व्वा भर्त्तृभिः सहिताः सुखम् । पतयश्च महाभाग ! देहि नोऽव्यक्तसम्भव ! ॥
ब्रह्मोवाच ।
ब्रह्माण्डमेतत् सुश्रोण्यः शतकोटिप्रविस्तरम् । तस्यान्ते स्वेच्छया तुष्टा उष्यतां मा विलम्बथ ॥
भर्त्तॄंश्च वः प्रयच्छामि सृष्ट्वा रूपस्विनोऽनघाः । यथेष्टं गम्यतां देशो यस्या यो रोचतेऽधुना ॥
एवमुक्ताश्च ताः सर्व्वा यथेष्टं प्रययुस्तदा । ब्रह्मा ससर्ज तूर्णं तान् लोकपालान् महा- बलान् ॥
दृष्ट्वा तु लोकपालांस्तु ताः कन्याः पुनराह्वयन् । विवाहं कारयामास ब्रह्मा लोकपितामहः ॥
एकामिन्द्राय स प्रादादग्नयेऽन्यां यमाय च । निरृताय च देवाय वरुणाय महात्मने ॥
वायवे धनदेशाय ईशानाय च सुव्रत ! । ऊर्द्धं स्वयमधिष्ठाय शेषायाधोव्यवस्थिताम् ॥
एवं दत्त्वा पुनर्ब्रह्मा तिथिं प्रादात् दिशां पुनः । दशमीं भत्तृनाम्नस्तु अर्द्धनाम्नोदनः प्रभुः ॥
ततःप्रभृति ताः देव्यः सेन्द्र्याद्याः परिकीर्त्तिताः ॥”
इति वराहपुराणम् ॥ * ॥
न्यायमते अस्याः सर्व्वगतत्वम् । परममहत्त्व- परिमाणम् । दूरान्तिकादिधीहेतुत्वम् । नित्य- त्वम् । एकत्वेऽपि उपाधिभेदात् प्राच्यादिव्यप- देशभाक्त्वम् । अस्या गुणाः । संख्या १ परि- मितिः २ पृथक्त्वम् ३ संयोगः ४ विभागः ५ । इति भाषापरिच्छेदः ॥ (सामान्यम् । यथा, सुश्रुते । १ । ४३ । “वमवद्रव्ययोगानां दिगियं सम्प्रकीर्त्तिता ॥”)
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दिक् in comp. for 2. दिश्, p.480.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a son of शतरूपा. M. 4. २५.
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
DIK : A river. The Mahābhārata, (Bhīṣma Parva, Chapter 9, Verse 18) states that the water of this river was used for drinking by the people in India.
_______________________________
*2nd word in right half of page 241 (+offset) in original book.