यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिनम्, क्ली, (द्यति खण्डयति महाकालमिति । दो छेदे + “बहुलमन्यत्रापि ।” उणां २ । ४९ । इति इनच् ।) कालविशेषः । तत्पर्य्यायः । घसः २ अहः ३ दिवसः ४ वासरः ५ । इत्य- मरः । १ । ४ । २ ॥ भास्वरः ६ दिवा ७ । इति राज- निर्घण्टः ॥ वारः ८ अंशकः ९ द्यु १० अंशकम् ११ । इति शब्दरत्नावली ॥ (यथा, रघुः । ३ । ८ । “दिनेसु गच्छत्सु नितान्तपीवरं तदीयमालीनमुखं स्तनद्बयम् ॥”) तत्तु मनुष्यमाने षष्टिदण्डात्मकम् । पितृमाने गौणचान्द्रमासात्मकम् । देवासुरमाने वत्सरा- त्मकम् । ब्रह्ममाने दिव्यद्बिसहस्रयुगात्मकम् । मनुष्यमाने ब्रह्मणो दिनस्य संख्या । ८,६४०,०००, ००० । इति पुराणम् ॥ तदेव मनुष्याणां सौर- सावनचान्द्रनाक्षत्रभेदेन चतुर्व्विधम् । यथा, -- सावनं दण्डाः षष्टिरहः स्वलग्नखगुणांशाढ्या- स्तदैनं भवेत् । १ । उदयादोदयाद्भानोर्भौमसावनवासराः । २ । तिथिनैकेन दिवसश्चान्द्रमाने प्रकीर्त्तितः । ३ । आयुर्द्दाये स्मृतं प्राज्ञैर्नाक्षत्रं षष्टिनाडिकम् ॥ ४ ॥ जीमूतवाहनमते तु सूर्य्यकिरणावच्छिन्नदतु- र्यामयुक्तम् ॥

दिनम्, क्ली, (दो छेदे + इनच् ।) सूर्य्यकिरणा- वच्छिन्नकालः । तद्वैदिकपर्य्यायः । वस्तोः १ द्युः २ भाबुः ३ वासरम् ४ स्वसराणि ५ घ्रंसः ६ घर्म्मः ७ घृणः ८ दिनम् ९ दिवा १० दिवे- दिवे ११ द्यविद्यवि १२ । इति द्बादशाहर्नामानि । इति वेदनिघण्टौ १ अध्यायः ॥ * ॥ सिंह- कन्यातुलावृश्चिककुम्भमीनलग्नानि । यथा, -- “अजगोपतियुग्मञ्च कर्किधन्विमृगास्तथा । निशासंज्ञाः स्मृताश्चैते शेषाश्चान्ये दिनात्मकाः ॥” इति ज्योतिस्तत्त्वम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिन नपुं।

दिवसः

समानार्थक:अहन्,घस्र,दिन,अहन्,दिवस,वासर,दिवा

1।4।2।1।2

घस्रो दिनाहनि वा तु क्लीबे दिवसवासरौ। प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि। व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते॥

अवयव : समयः,प्रत्यूषः,दिनान्तः,सन्ध्या,दिवसः_पूर्वो_भागः,दिवसः_अन्त्यो_भागः,दिवसः_मध्यो_भागः,प्राह्णापराह्णमध्याह्नाः,रात्रिः

 : मेघाच्छन्नदिनम्, समरात्रिन्दिवकालः, अस्मिन्नहनि, पूर्वे_अह्नि, उत्तरे_अह्नि, अपरे_अह्नि, अधरे_अह्नि, अन्यस्मिन्_अह्नि, अन्यतरस्मिन्_अह्नि, इतरस्मिन्_अह्नि, उभयस्मिन्नह्नि, परे_अह्नि, अतीते_अह्नि, अनागते_अह्नि

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिन¦ पु॰ न॰ द्यति तमः द--खण्डने दी--क्षये वा नक् ह्रुस्वः।

१ सूर्यकिरणावच्छिन्ने काले तद्भेदादिकं अहन् शब्दे

५७

६ पृ॰ दृश्यम्।

२ षष्टिदण्डात्मके मानुषे अहोरात्रे चान्द्रे

३ तिथिरूपे काले

४ चान्द्रमासात्मके पैत्र्ये कालभेदे सौ-रवर्षरूपे

५ दैवे कालभेदे व्राह्मे

६ कल्परूपे काले च
“अजगोपतियुग्मञ्च कर्किधन्विमृगास्तथा। निशासंज्ञाःस्मृताश्चैव शेषाश्चान्ये दिनाख्यकाः” इति ज्योतिषतत्त्वोक्ते

७ राशिभेदे।
“दिने दिने त्वं तनुरेधि रेऽधिकम्” नैष॰
“दिनानि दीनोद्धरणोचितस्य”
“दिनेषु गच्छत्सु निता-न्तपीवरम्” रघुः।
“प्रौढध्वान्तं दिनमिह जलदाः” माघः जीमूतवाहनस्तु सूर्यकिरणावच्छिन्नं चतुर्या-मात्मकं दिनमित्याह॰
“दिनं दिनेशस्य यतोऽत्र दर्शनेतमी तमोहन्तुरदर्शने सति। कुपृष्ठगानां द्युनिशं यथातथा पितॄणां शशिपृष्ठवासिनाम्” सि॰ शि॰ दिनमानशब्देदृश्यम्
“तिथिश्चान्द्रमसं दिनम” सू॰ सि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिन¦ mn. (-नः-नं) A day. E. दी to waste, नक् affix, and the vowel made short; or दो to destroy, (darkness,) किनन् Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिनः [dinḥ] नम् [nam], नम् [द्युति तमः, दो दी वा नक् ह्रस्व; Uṇ.2.49.]

Day (opp. रात्रि); दिनान्ते निहितं तेजः सवित्रेव हुताशनः R.4.1; यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि K.P.1; दिनान्ते निलयाय गन्तुम् R.2.15.

A day (including the night), a period of 24 hours; दिने दिने सा परिवर्धमाना Ku.1.25; सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि R.2.25. -Comp. -अंशः any portion of a day, i. e. an hour, a watch, &c.-अण्डम् darkness. -अत्ययः, -अन्तः, -अवसानम् evening, sunset; R.2.15,45; दिनान्तरभ्यो$भ्युपशान्तमन्मथः Ṛs.1.1; Ki.9.8. -अधीशः the sun. -अर्धः mid-day, noon. -अन्तकः darkness. -आगमः, -आदिः, -आरम्भः daybreak, morning; Ki.11.52. -ईशः, ईश्वरः the sun. ˚आत्मजः

an epithet of Saturn.

of Karṇa.

of Sugrīva. -करः, -कर्तृ, -कृत् m. the sun; तुल्योद्योगस्तव दिनकृतश्चाधिकारो मतो नः V.2.1; दिनकरकुलचन्द्र चन्द्रकेतो U.6. 8; R.9.23. ˚तनयः N. of (1) Saturn; (2) Sugrīva; (3) Karṇa; (4) Yama. ˚तनया N. of (1) the river Yamunā, (2) the river Tāptī. -कर्तव्यम्, -कार्यम्, -कृत्यम् ceremonies to be performed daily; Ks. -केशरः, -केसरः, -केशवः darkness. -क्षयः, -पातः evening.-चर्या daily occupation, daily routine of business.

च्छिद्रम् a constellation or lunar mansion.

a change of the moon at the beginning or end of a half-day; Hch. -ज्योतिस् n. sunshine. -दुःखितः the Chakravāka bird. -नक्तम् ind. by day and night. -नाथः, -पः, -पतिः, -बन्धः, -प्रणीः, -मणिः, -मयूखः, -रत्नम् the sun; दिनमणिमण्डलमण्डन Gīt.; पस्पृशुर्न पृथिवीं तुरङ्गमाः स्पर्धयेव दिननाथवाजिनाम् Vikr.14.64;11.1. -पाटिका a day's wages; Vet.4. -बलम् N. of the fifth, sixth, seventh, eighth, eleventh, and twelfth signs of the zodiac taken collectively. -मलम् a month. -मुख morning; तुल्यतां दिनमुखेन दिनान्तः Ki.9.8; दिनमुखानि रविर्हिमनिग्रहै- र्विमलयन् मलयं नगमत्यजत् R.9.25. -मूर्द्धन् m. the eastern mountain behind which the sun is supposed to rise.-यौवनम् mid-day, noon (the youth of day). -वारः a week-day. -व्यास-दलम् the radius of a circle made by an asterism in its daily revolution; Sūrya S.2.6.-स्पृश् n. a lunar day coinciding with 3 week-days; Hch.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिन mfn. ( दो)cut , divided , mowed RV. viii , 67 , 10 (See. स्वयं-).

दिन (3. दा). See. अ-सं-

दिन (accented only Naigh. i , 9 ) mn. ( g. अर्धर्चा-दि, only occurring as n. )a day Mn. Ragh. Pan5cat. etc. ( ifc. also in Vedic texts) ifc. f( आ). Ra1jat. i , 347. [ cf. Lat. peren-dinus , nUndinus etc. ; Got. sin-teins ; Lit. de0na ; O.Pr. acc. sg. deinan ; Slav. dr2ni1.]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिन वि.
(दि+क्त) काटी हुई (तृणमुपमूलं दिनानि), आप.श्रौ.सू. 1.7.3.

"https://sa.wiktionary.org/w/index.php?title=दिन&oldid=500226" इत्यस्माद् प्रतिप्राप्तम्