दीप
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीप, ई ङ य ऋ दीपने । इति कविकल्पद्रुमः ॥ (दिवां-आत्मं-अकं-सेट् ।) दीपनमुज्ज्वली- भावः । ई, दीप्तः । ङ य, दीप्यते निशि चन्द्रमाः । ऋ, अदीदिपत् अदिदीपत् । इति दुर्गादासः ॥
दीपः, पुं, (दीप्यते दीपयति वा स्वं परञ्चेति । दीप् दीपि वा + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।) वर्त्तिस्थज्वलदग्निशिखा । तत्पर्य्यायः । प्रदीपः २ स्नेहाशः ३ दीपकः ४ कज्जलध्वजः ५ शिखातरुः ६ गृहमणिः ७ दीपं स्पृष्ट्वा वैधकर्म्मकरणे दोषो यथा, -- “दीपं स्पृष्ट्वा तु यो देवि ! मम कर्म्माणि कारयेत् । तस्यापराधाद्वै भूमे ! पापं प्राप्नोति मानवः । तच्छृणुष्व महाभागे ! कथ्यमानं मयानघे ! ॥ जायते षष्टिवर्षाणि कुष्ठी गात्रपरिप्लुतः । चाण्डालस्य गृहे तत्र एवमेव न संशयः ॥ एवं भूत्वा तु तत् कर्म्म मम क्षेत्रे मृतो यदि । मद्भक्तश्चैव जायेत श्रुद्धे भागवते गृहे ॥ प्रायश्चित्तं प्रवक्ष्यामि दीपस्य स्पर्शनाद्भुवि । तरन्ति मनुजा येन कष्टं चाण्डालयोनिषु ॥ यस्य कस्यापि मासस्य शुक्लपक्षे च द्बादशी । चतुर्थभक्तमाहारमाकाशशयने स्वपेत् ॥ दीपं दत्त्वापराधाद्बै तरन्ति मनुजा भुवि । शुचिर्भूत्वा यथान्यायं मम कर्म्म पथे स्थितः ॥ एतत्ते कथितं देवि ! स्पर्शनात् दीपकस्य तु । संसारशोधनञ्चैव यत् कृत्वा लभते शुभम् ॥” इति वराहपुराणम् ॥ * ॥ पुरुषस्य दीपनिर्व्वापणे दोषो यथा, -- “दीपनिर्व्वापणात् पुंसः कुष्माण्डच्छेदनात् स्त्रियः । अचिरेणैव कालेन वंशनाशो भवेद्ध्रुवम् ॥ * ॥ देवार्थकल्पितदीपस्य निर्व्वापणे दोषो यथा, -- नैव निर्व्वापयेद्दीपं देवार्थमुकल्पितम् । दीपहर्त्ता भवेदन्धः काणो निर्व्वापको भवेत् ॥” इत्येकादशीतत्त्वे कालिकापुराणम् ॥ कार्त्तिककृष्णचतुर्द्दश्यां मरकनिवृत्तये दीपदानं यथा, -- “नरकाय प्रदातव्यो दीपः संपूज्य देवताः ।” इति तिथितत्त्वधृतलिङ्गपुराणम् ॥ * ॥ पृथिव्यां दीपो न संस्थाप्यः । यथा, -- “सर्व्वंसहा वसुमती सहते न त्विदं द्बयम् । अकार्य्यपादघातञ्च दीपतापस्तथैव च ॥” इत्येकादशीतत्त्वधृतकालिकापुराणम् ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीप पुं।
दीपः
समानार्थक:दीप,प्रदीप
2।6।138।2।3
शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः। गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम्.।
सम्बन्धि1 : मनुष्यः
पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीप¦ दीप्तौ दि॰ आत्म॰ अक॰ सेट्। दीप्यते अदीपि--अदीपिष्ट। दिदीपे दीप्तः। णिच् अदीदिपत्--त अदिदीपत् त। दीप्तिः। दीपनं दीपकः दीप्रः।
“दीप्यमानः स्वतेजसा” मनुः।
“पुनर्दिदीपे मददुर्द्दिनश्रीः” रघुः
“देवाहवेष्व-दीपिष्ट”
“सधूमदीप्ताग्निरुचीनि रेजुः” भट्टिः
“ततःशकुनयो दीप्ताः मृगाश्च क्रूरभाषिणः” हरिवं॰
१७
१ अ॰।
“हिंस्रेषु दीप्रास्त्रधरः कुमारः” भट्टिः
“यावत् कर्माणिदीप्यन्ते तावत् संसारवासनाः” कुलार्ण॰। उपसर्गपूर्वकस्यतत्तदुपसर्गद्योत्यार्थयुक्ते तदर्थे
“आदिक्षदादीप्तकृशा-नुकल्पम्” भट्टिः
“यस्य यद्रेतसः प्रथममुददीप्यत” ऐत॰ ब्रा
३ ।
३४
“क्रुध्यन्ति परिदीप्यन्ति भूमिजस्याधिष्ठिते” भा॰शा॰
२०
३६ श्लो॰ आर्षः पदव्यत्ययः।
“ते शराः खस-मुत्थेन प्रदीप्ताश्चित्रभानुना” भा॰ उ॰
१८
१ अ॰
दीप¦ पु॰ दीपयति स्वं परञ्च दीप--णिच्--अच्। स्वपर-[Page3605-a+ 38] प्रकाशके तैलादिस्नेहयोगेन
१ वर्तिकादाहकशिखान्वितेप्रदीपे कार्त्तिके तद्दानप्रशंसा पाद्मे उत्तरख॰यथा
“शृणु दीपस्य माहात्म्यं कार्तिके च हरिप्रिय!। यस्य श्रवणमात्रेण दीपदाने मतिर्भवेत्। सूर्य्यग्रहेकुरुक्षेत्रे नर्मदायां शशिग्रहे। तुलादानस्य यत् पुण्यंतदूर्जे दीपदानतः। घृतेन दीपकं यस्तु तिलतैलेनवा पुनः। ज्वालयेन्मुनिशार्दूल! अश्वमेधेन तस्य किम्। तेनेष्टं क्रतुभिः सर्वं कृतं तीर्थावगाहनम्। दीपदानंकृतं येन कार्त्तिके केशवाग्रतः। तावद्गर्जन्ति पापानिदेहेऽस्मिन्मुनिसत्तम!। यावत् कार्त्तिकमासे न दीपदानंकृतं भवेत्। तावद्गर्जन्ति पुण्यानि स्वर्गे मर्त्ये रसा-तले। यावत्तु ज्वलते दीपः कार्तिके केशवाग्रतः। श्रूयतेऽत्रापि पितृभिर्गाथा गीता महामुने!। भवि-ष्यन्ति कुलेऽस्माकं कदाचित्ते सुता भुवि। कार्त्तिकेदीपदानैर्ये तोषयिष्यन्ति केशवम्। अपि नस्ते भवि-ष्यन्ति कुले सुचरिता गुणैः। दीपदानं कार्त्तिके येदीप्यन्ति हरितुष्टिदम्। गयायां पिण्डदानेन कृतंनः प्रीणनं मुतेः। यैश्चापि कार्त्तिके दत्तो दीपस्तुष्टिकरो हरेः। दीपं दास्यन्ति ये पुत्रास्तुष्ट्यर्थं चक्रपा-णिनः। कार्त्तिके तैर्मुनिश्रेष्ठ! नरकादुद्धृता वयम्। मन्त्रहीनं क्रियाहीनं शुद्धिहीनं जनार्दन!। व्रतं सम्पूर्ण-तां यातु कार्त्तिके दीपदानतः। अनेनैव हि मन्त्रेणदीपं सङ्कल्पयेन्मुने!। मधुसूदनतुष्ट्यर्थं कार्तिके मुनिपुङ्गव!”। वामनपुराणे च
“दास्यते देवदेवाय दीप-पुष्पानुलेपनम्। अपि नः स कुले भूयादेकादश्यांतिथौ नरः। करिष्यत्युपवासन्तु सर्वपातकहानिदम्। इत्थं पितॄणां वचनं श्रुत्वा नृपतिसत्तमः। ददौ चदीपान् विधिवत् विष्णीरायतने वलिः। सुगन्धतैल-संपूर्णान् दीपान् सघृततैलकान्। सर्षपस्य सुतैलेनमधुकातसिसम्भवैः। दोपप्रदानान्नरकानन्धतामिस्रसंज्ञ-कान्। तीर्त्वा स भार्यया ब्रह्मन्! विष्णुलोकमगात्ततः” वराहपुराणे दीपं स्पृष्ट्वा वैधकर्मकरणे दोष उक्तो यथा(
“दीपं स्पृष्ट्वा तु यो देवि! मम कर्माणि कारयेत्। तस्यापराधाद्वै भूमे! पापं प्राप्नोति मानवः। तच्छृणुष्वमहाभागे! कथ्यमानं मयानघे!। जायते षष्टिवर्षाणिकुष्ठी गात्रेपरिप्लुतः। चाण्डालस्य गृहे तत्र एवमेवन संशयः। एवं भुक्त्वा तु तत्कर्म मम क्षेत्रे मृतोयटि। मद्भक्तश्चैव जायेत शुद्धे भागवते गृहे। प्राय-[Page3605-b+ 38] श्चित्तं प्रवक्ष्यामि दीपस्य स्पर्शनाद्भुवि। तरन्ति मनुजायेन कष्टं चाण्डालयोनिषु। यस्य कस्यापि मासस्यशुक्लपक्षे च द्वादशी। चतुर्थभक्तमाहारमाकाशशयनेस्वपेत्। दीपं दत्त्वापराधाद्वै तरन्ति मनुजा भुवि। शुचिर्भूत्वा यथान्यायं मम कर्मपथे स्थितः। एतत्तेकथितं देवि! स्पर्शनात् दीपकस्य तु। संसारशोधनञ्चैवयत् कृत्वा लभते शुभम्”। वर्त्तिस्थज्वलदग्निशिक्षा हिदीपः तदङ्गम्नेहादिनियमो यथा वह्निपुराणे
“घृतं तैलञ्चदीपार्थे स्नेहान्यन्यानि वर्जयेत्”। दीपभेदास्तस्द्दशाभेदाश्चकालिका॰ पु॰
६८ अ॰ उक्ता यथा
“पुरश्चरणकृत्याञ्च दीपंशृण्विह भैरव!। दीपेन लोकान् जयति दीपस्तेजो-मयः स्मृतः। चतुर्वर्गप्रदोदीपस्तस्माद्दीपैर्यजेत् श्रिये” इत्युपक्रम्य
“घृतप्रदीपः प्रथमस्तिलतैलोद्भवस्ततः। सार्षपः फलनिर्यासजातो वा राजिकोद्भवः। दधिज-श्चाणुजश्चैव प्रदीपाः सप्त कीर्त्तिताः। पद्मसूत्रभवा दर्भगर्भसूत्रभवाऽथ वा। शणजा वादरी वापि फलकोषो-द्भवाऽथ वा। वर्तिका दीपकृत्येषु सदा पञ्चभिदाः स्मृताः। तैजसं दारवं लौहं मार्त्तिक्यं नारिकेलजम्। तृण-ध्वजोद्भवं वापि दीपपात्रं प्रशस्यते। दीपवृक्षाश्च कर्तव्यातैजसाद्यैश्च मैरव!। वृक्षेषु दीपोदातव्यो न तु भूमौकदाचन। सर्वंसहा वसुमती सहते न त्विदं द्वयम्। अकार्य्यपादघातञ्च दीपतापं तथैव च। तस्माद् यथातु पृथिवी तापं नाप्नोति वै तथा। दीपं दद्यान्महादेव्यैअन्येभ्योऽपि च भैरव!। कुर्वन्तं पृथिवीतापं यो दीपसुत्सृजेन्नरः। स ताम्रतापं नरकमाप्नोत्येव शतं समाः। सुवृत्तवर्त्तिसस्नेहपात्रेऽभग्ने सुदर्शने। मृण्मयेवृक्षकोटौ तु दीपं दद्यात् प्रयत्नतः। लभ्यते यस्यतापस्तु दीपस्य चतुरङ्गुलात्। न स दीप इति ख्यातीह्योघवह्निस्तु स स्मृतः। नेत्राह्लादकरः सार्चिर्दूरतापविवर्जितः। सुशिखः शब्दरहितो निर्धूमी नातिह्रस्वकः। दक्षिणावर्त्तवर्तिस्तु प्रदीपः श्रीविवृद्धये। दीप-वृक्षस्थिते पात्रे शुद्धस्नेहप्रपूरिते। दक्षिणावर्तवर्त्त्यातु चारुदीप्तः प्रदीपकः। उत्तमः प्रोच्यते पुत्र! सर्वतुष्टिप्रदायकः। वृक्षेण वर्जितो दीपो मध्यमः परिकी-र्त्तितः। विहीनः पात्रतैलाभ्यामधमः परिकीर्त्तितः। शार्ण वा वादरं वास्त्रं जीर्णं मलिनमेव वा। उप-युक्तन्तु नो दद्यात् वर्तिकार्थन्तु साधकः। उपादद्यान्नूत्रमेव सततं श्रीविवृद्धये। कोषजं रोमजं वस्त्रं[Page3606-a+ 38] वर्तिकार्थं न चाददेत्। न मिश्रीकृत्य दद्यात्तु दीपंस्नेहान् घृतादिकान्। कृत्वा मिश्रीकृतं स्नेहं ता-मिस्रं नरकं व्रजेत्। वसामज्जास्थिनिर्यासैः स्नेहैःप्राण्यङ्गसम्भवैः। प्रदीपं नैव कुर्य्यात्तु कृत्वा पङ्केविषीदति। अस्थिपात्रेऽथ वा गव्ये दुर्गन्धाद्युपवासिनि। नैव दीपः प्रदातव्यो विबुधैः श्रीविवृद्धये। नैव निर्वा-पयेद्दीपं कदाचिदपि यत्नतः। सततं लक्षणोपेतंदेवार्थमुपकल्पितम्। न हरेज्जनतो दीपं तथा लो-भादिना नरः। दीपहर्त्ता भवेदन्धः काणो निर्वापकोभवेत्। उद्दीप्तदीपप्रतिमः काष्ठकाण्डसमुद्भवः। विल्वे-ध्मोद्भवमेवाथ दीपालाभे निवेदयेत्। उल्मूकं नैवदीपार्थे कदाचिदपि चोत्सृजेत्। प्रसन्नार्थन्तु तं दद्या-दुपचाराद्बहिः कृतः। एवं वां कथितो दीपो धूपञ्चशृणुतं सुतौ!”। श्राद्धे वस्त्रवर्तियुक्तदीपनिषेधो यथा
“दीपं वर्जत् वस्त्रवर्त्तिप्रत्यक्षं तैलमेव च”। योगिनी॰ त॰
२ य भागे
५ पटलः। पुरुषस्य दीपनिर्वापणे दोषो यथा।
“दीपनिर्वापणात्पुसः कुष्माण्डच्छेदनात् स्त्रियः। अचिरेणैव कालेनवंशनाशो भवेद्ध्रुवम्” ति॰ त॰। देवदत्तदीपस्य तु निर्वा-पणम् विधानपारिजाते उक्तं यथा
“स्वयं निर्वापितंदीपमाजिघ्रन्ति सुरारयः। तस्मान्निर्वापयेद्दीपं देवानांघ्राणतुष्टये”। कार्त्तिककृष्णचतुर्दश्यां नरकनिवृत्तयेदीपदानं यथा
“नरकाय प्रदातव्यो दीपः संपूज्य देवताः” तिथितत्त्वधृतलिङ्गपुराणम्।
“स्नाने धूमे तथा दीपे नैवेद्ये भूषणे तथा। घण्टानादंप्रकुर्वीत तथा नीराजनेऽपि च। विधानपारिजातोक्तःदीपदाने घण्टानादोविधेयः। शिवालये दीपोद्दीपनमा-हात्म्यं काशीख॰
१३ अध्याये दृश्या दिङ्मात्रमत्रोच्यते
“सदीपवासनायोगात् बहून् दीपान् प्रदीप्य वै। अलकायाःपतिरभूद्रत्नदीपशिखाश्रयः”। दीपवर्तिश्च कर्पूरगर्भिणीकार्य्या
“वर्त्त्या कर्पूर गर्भिण्या सर्पिषातिलजेन वा। आरोप्य दर्शयेद्दीपानुच्चैः सौरभशालिनः” शारदाति॰। तन्त्रसारे
“कर्पूरादियुता वर्त्तिः सा च कार्पास। निर्मिता। सप्तावृत्ता सुसंकॢप्तो दीपः स्याच्चतुरङ्गुलः” कार्त्तवीर्य्यप्रियार्थदीपविशेषस्तु कार्त्तवीर्यदीपशब्दे
१९
८४ पृ॰ उक्तः। दीपदानफलादिकम् भा॰ अनु॰
९८ अ॰ उक्तं यथा(
“दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम्। यथायेन यदा चैव प्रदेया यादृशाश्च ते। ज्योतिस्तेजः प्र-[Page3606-b+ 38] काशं वाऽप्यूर्द्धगञ्चापि वर्ण्यते। प्रदानं तेजसां तस्मा-त्तेजो वर्द्धयते नृणाम्। अन्धन्तमस्तमिस्रञ्च दक्षि-णायनमेव च। उत्तरायणमेतस्माज्ज्योतिर्दानं प्रश-स्यते। यस्मादूर्द्ध्वगमेतत्तु तमसश्चैब भैषजम्। तस्मा-दूर्द्ध्वगतेर्दाता भवेदत्रेति निश्चयः। देवास्तेजस्विनो य-स्मात् प्रभावन्तः प्रकाशकाः। तामसा राक्षसाश्चैवतस्माद्दीपः प्रदीयते। आलोकदानाच्चक्षुष्मान् प्रभायुक्तोभवेन्नरः। तान् दत्त्वा नोपहिंसेत न हरेन्नोपनाश-येत्। दीपहर्त्ता भवेदन्धस्तमोगतिरसुप्रभः। दीपप्रदःस्वर्गलोके दीपमालेव राजते। हविषा प्रथमः कल्पीद्वितीयश्चौषधीरसैः। वसामेदोऽस्थिनिर्य्यासैर्न कार्यःपुष्टिमिच्छता। गिरिप्रपाते गहने चैत्यस्थाने चतु-ष्पथे। दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः। कुलोद्योतो विशुद्धात्मा प्रकाशत्वञ्च गच्छति। ज्योतिषा-ञ्चैव सालीक्यं दीपदाता नरः सदा” दीपस्य शुभाशुभ-लक्षणम् वृ॰ सं॰
८४ अ॰ उक्तं यथा
“वामावर्त्तो मलिनकिरणः सस्फुलिङ्गोऽल्पमूर्त्तिः क्षिप्रंनाशं व्रजति विमलस्नेहवर्त्त्यन्वितोऽपि। दीपः पापंकथयति फलं शब्दवान् वेपनश्च व्याकीर्णार्चिर्विशलभम-रुद् यश्च नाशं प्रयाति। दीपः संहतमूर्त्रिरायततनुर्नि-र्वेपनो दीप्तिमान् निःशब्दोरुचिरः प्रदक्षिणगतिर्वैदूर्यहेमद्युतिः। लक्ष्मीं क्षिप्रमभिव्यनक्ति रुचिरं यश्चोद्यतंदीप्यते शेषं लक्षणमग्निलक्षणसमं योज्यं यथायुक्तितः”(
“प्रवर्तितो दीप इव प्रदीपात्” निशीथदीपाः सहसाहतत्विषः” रघुः। दीपयत्यर्थान् वा।
२ प्रकाशकेयथा चित्रदीपादयः पञ्चदश्याम्।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीप¦ r. 4th cl. (ई ऋ) ऋदीपी (दीप्यते) To shine, to blaze, to be luminous or light. दिवा० आ० अक० सेट् |
दीप¦ m. (-पः) A lamp. E. दीप् to shine, affix, क, अच् or घञ् |
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीपः [dīpḥ], [दीप्-णिच् अच्]
A lamp, light; नृपदीपो धनस्नेहं प्रजाभ्यः संहरन्नपि । अन्तरस्थैर्गुणैः शुभ्रैर्लक्ष्यते नैव केनचित् ॥ Pt.1. 221. न हि दीपौ परस्परस्योपकुरुतः Ś. B.; so ज्ञानदीपः &c. -Comp. -अङ्कुर; the flame or light of a lamp; दीपाङ्कुरच्छाया- चञ्चलमाकलय्य Bh.3.68. कुरण्टकविपाण्डुरं दधति धाम दीपाङ्कुराः Vb.
अन्विता the day of new moon (अमा).
= दीपाली q. v. -आराधनम् worshipping an idol by waving a light before it.
आलिः, ली, आवली, उत्सवः a row of lights, nocturnal illumination.;
particularly, the festival called Diwali held on the night of new moon in आश्विन. -उच्छिष्टम् soot, lamp-black.
कलिका the flame of a lamp.
N. of a com. on Yajñavalkya. -किट्टम् lamp-black, soot. -कूपी, -खोरी the wick of a lamp. -द a. one who gives a lamp; दीपद- श्चक्षुरुत्तमम् Ms.4.229. -दण्डः A lamp-post.
ध्वजः lamp-black.
lamp-stand. -पुष्पः the Champaka tree.-भाजनम् a lamp; वामनार्चिरिव दीपभाजनम् (अभूत्) R. 19.51. -माला lighting, illumination; अद्यापि तां धवलवेश्मनि रत्नदीपमालामयूखपटलैर्दलितान्धकारे Ch. P.18. -वर्तिः the wick of a lamp.
वृक्षः a lampstand. कनकोज्ज्वलदीप्तदीपवृक्षम् (आसनम्) Bu. Ch.5.44. तथेह पञ्चेन्द्रियदीपवृक्षा ज्ञानप्रदीप्ताः परवन्त एव Mb.12.22.9. A treelike column of building (Mar. दीपमाळ); Rām.2.6.18; also दीपपादय (a candle-stick).
a light.
a lantern.
the tree called devadāru q. v. -शत्रुः a moth.
शिखा the flame of a lamp. अनङ्गमङ्गलावासरत्नदीपशिखामिव Ks.18.77.
lamp-black. -शृङ्खला a row of lights, illumination.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीप m. a light , lamp , lantern A1s3vGr2. Mn. MBh. etc.