यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्तिः, स्त्री, (दीप + क्तिन् ।) दीपनम् । तत्- पर्य्यायः । प्रभा २ रुक् ३ रुचिः ४ त्विट् ५ भा ६ भाः ७ छविः ८ द्युतिः ९ रोचिः १० शोचिः ११ । इत्यमरः । १ । ४ । ३४ ॥ बाणवेगस्य तीव्रता । स्त्रिया अयत्नजगुणः । इति हेमचन्द्रः । २ । १३ ॥ “कान्तिरेव वयोभोगदेशकालगुणादिभिः । उद्दीपितातिविस्तारं प्राप्ता चेद्दीप्तिरुच्यते ॥” इत्युज्ज्वलनीलमणिः ॥ (यथा, साहित्यदर्पणे । ३ । १३१ । “कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते ॥”) लाक्षा । कांस्यम् । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्ति स्त्री।

प्रभा

समानार्थक:प्रभा,रुच्,रुचि,त्विष्,भा,भास्,छवि,द्युति,दीप्ति,रोचिस्,शोचिस्,वर्च,महस्,ओजस्,तेजस्

1।3।34।1।9

स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः। रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः॥

वैशिष्ट्य : सूर्यः

 : तडित्, किरणः, आतपः, ज्योत्स्ना

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्ति¦ स्त्री दीप--भावे क्तिन्।

१ त्विषि प्रभायाम्
“एवं दीप्त्यायोजनं भाति सन्ध्या” वृ॰ सं॰

३१ अ॰

२ अभिव्यक्तौ चज्ञानाभिव्यक्तिरूपदीप्तेः कारणानि पात॰ सू॰ भाष्ययोरु-क्तानि यथा
“योगाङ्गानुष्ठानदशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः” सू॰
“योगाङ्गान्यष्टावभिधायिष्यमाणोनि तेषामनुष्ठानात् पञ्चपर्वणो विषयस्याशुद्धिरूपस्य क्षयोनाशस्तत्क्षये सम्यग्ज्ञान-स्याभिव्यक्तिर्यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथातनुत्वमशुद्धिरापद्यते यथा यथा च क्षीयते तथा तथा च-क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्द्धते सा खल्वेषा पिवृद्धिः प्रकर्षमनुभवति आ विवेकख्यातेरा गुण-पुरुषस्वरूपविज्ञानादित्यर्थः। योगाङ्गानुष्ठानमशुद्धेर्वि-योगकारणं यथा परशुः छेद्यस्य, विवेकख्यातेस्तु प्राप्ति-कारणं यथा धर्मः सुखस्य, नान्यकारणम्। कति चैतानिकारणानि शास्त्रे भवन्ति नवैवेत्याह तद् यथा
“उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः। वियोगान्य-त्वधृतयः कारणं नवधा स्मृतम्” इति। तत्रोत्पत्ति-कारणं मनोभवति ज्ञानस्य स्थितिकारणं मनसः पुरु-षार्थता शरोरस्येवाहार इति अभिव्यक्तिकारणं यथारूपस्यालोकस्तथा रूपज्ञानम्। विकारकारणं मनसो[Page3609-b+ 38] विषयान्तरम् यथाग्निः पाक्यस्थ, प्रत्ययकारणं धूमज्ञान-मग्निज्ञानस्य, प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेःवियोगकारणं तदेवाशुद्धेः अन्यत्वकारणं, यथा सुवर्ण-कारः सुवर्णस्य, एवमेकस्य प्रत्ययस्याविद्यामूढत्वे द्वेषो,दुःखत्वे रागः, सुखत्वे तत्त्वज्ञानं माध्यस्थ्ये, धृति-कारणं शरीरमिन्द्रियाणां, तानि च तस्य महाभूतानिशरीराणां तानि च परस्परं सर्वेषाम्। तैर्य्यग्यौनमा-नुषदैवतानि च परस्परार्थत्वादित्येवं नव कारणानितानि च यथासम्भवं पदार्थान्तरेष्वपि योज्यानि” भा॰स्त्रीणां यौवने अयत्नसाध्ये गुणभेदरूपे

३ सत्वजेऽलङ्कारेच
“यौवने सत्वजास्तासामष्टाविंशतिसंख्यकाः। अल-ङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः। शोभा कान्तिश्चदीप्तिश्च माधुर्यञ्च प्रगल्भता” इत्युपक्रमे
“रूपयौवमलालित्यभोगाद्यैरङ्गभूषणम्। शोभा प्रोक्ता, सैव का-न्तिर्मन्मथाप्यायिता दुतिः। कान्तिरेवातिविस्तीर्णादीप्तिरित्यभिधीयते” सा॰ द॰ लक्षयित्वा उदाजहार यथा
“तारुण्यस्य विलासः समधिकलावण्यसम्पदोहासः। धरणितलस्याभरणं युवजनमनसोवशीकरणम्”। दीप-कर्त्तरि संज्ञायां क्तिच्।

४ लाक्षायां

५ कांस्ये चराजनि॰। विश्वदेवभेदे पु॰
“उष्णीनाभो नभोदश्च वि-श्वायुर्दीप्तिरेव च” भा॰ अनु॰

९१ अ॰ विश्वदेवोक्तौ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्ति¦ f. (-प्तिः)
1. Light, lustre, splendour.
2. Beauty.
3. The swift flight of an arrow.
4. A property of women, extreme loveliness, brilliant beauty.
5. Lac.
5. Bell metal. E. दीप् to shine, affix भावे क्तिन् | [Page343-a+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्तिः [dīptiḥ], f. [दीप्-भावे-क्तिन्]

Brightness, splendour, brilliance, lustre.

Brilliancy of beauty, extreme loveliness; (for the difference between दीप्ति and कान्ति see under कान्ति).

Lac.

Brass.

The flash-like flight of an arrow.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्ति f. brightness , light , splendour , beauty S3Br. Mn. (See. गृह-)etc.

दीप्ति f. the flash-like flight of an arrow L.

दीप्ति f. lac L.

दीप्ति f. brass L.

दीप्ति m. N. of one of the विश्वेदेवाs.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an अमिताभ god; one of the twenty अमिताभ gan2as. Br. IV. 1. १७; वा. १००. १६.
(II)--the fruit of प्राणायाम; equal to the worship of planets of Sun, Moon, and able to know the past, present and future. वा. ११. 4, 9. [page२-096+ २४]

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DĪPTI : A Viśvadeva. (M.B. Anuśāsana Parva, Chap- ter 91, Verse 34).


_______________________________
*5th word in left half of page 243 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दीप्ति&oldid=500268" इत्यस्माद् प्रतिप्राप्तम्