दुर्भिक्ष
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्भिक्षम्, क्ली, (भिक्षाया अभावः ।) भिक्षाया अप्राप्तिकालः । अकाल इति भाषा । यथा, “दुर्भिक्षमल्पं स्मरणं चिराय ।” इत्युद्भटः ॥ भिक्षायाः प्रायो निष्फलत्वमित्यव्ययीभावसमासः । यद्देशे यत्काले तद्देशतत्कालयोग्यशस्यादिकं न जायते तद्देशे तदा याच्यमानद्रव्यालाभात् दुर्भिक्षं जातमिति व्यवह्रियते सद्भिरिति । तत्- कारकवर्षाणि यथा, -- “राष्ट्रभङ्गश्च दुर्भिक्षं तस्करैरुपपीडनम् । जानीयाद्बिग्रहं घोरं प्रमाथिनि वरानने ! ॥ १३ ॥ दुर्भिक्षं जायते घोरं सर्व्वोपद्रवसंयुतम् । अनावृष्टिः समाख्याता व्यये संवत्सरे प्रिये ! ॥ २० ॥ क्वचिद्बर्षति पर्ज्जन्यो देशे संछिन्नमण्डलः । दुर्भिक्षं सर्व्वरीवर्षे व्यवहारो विपर्य्ययः ॥ ३४ । दुर्भिक्षं जायते सर्व्वा मेदिनी दुष्यति प्रिये ! । प्लवे प्लवन्ति तोयानि पीडिता मानवा भुवि ॥ ३५ ॥ दुर्भिक्षं जायते घोरं धान्यौषधिप्रपीडनम् । अनले च समाख्याता नात्र कार्य्याविचारणा ॥ ५० देशभङ्गः सुदुर्भिक्षं समासात् कथयाम्यहम् । पिङ्गले चारुपद्माक्षि ! दुर्भिक्षं नर्म्मदातटे ॥ ५१ ॥ दुर्भिक्षं मध्यमं प्रोक्तं व्यवहारो न वर्त्तते । भवेद्वै मध्यमा वृष्टिर्दुर्म्मतौ समुपस्थिते ॥ ५५ ॥ दुर्भिक्षं मरणं घोरं धान्यौषधिप्रपीडनम् । पापरोगो भवेद्देवि ! रक्ताख्येऽमरवन्दिनि ! ॥ ५८ ॥ रोगो मरणदुर्भिक्षं विरोधोपद्रवाकुलम् । क्रोधे तु विषमं सर्व्वं समाख्यातं हरप्रिये ! ॥ ५९ ॥ मेदिनी चलते देवि ! सर्व्वभूतं चराचरम् । देशभङ्गश्च दुर्भिक्षं क्षये सङ्क्षीयते प्रजा ॥ सौराष्ट्रे मालवे देशे दक्षिणे कोङ्कणे तथा । दुर्भिक्षं जायते घोरं क्षये संवत्सरे प्रिये ! ॥” ५० ॥ इति ज्योतिस्तत्त्वधृतषष्टिवर्षान्तर्गतवर्षविशेष- फलबोधकभविष्यपुराणीयवचनानि ॥ * ॥ अद्भुतेऽपि दुर्भिक्षं भवति यथा, -- “मांसास्थिनी समादाय श्मशानाद्गृघ्रवायसाः । श्वा शृगालोऽथवा मध्ये पुरस्य प्रविशन्ति चेत् ॥ विकिरन्ति गृहादौ च श्मशानं सा मही भवेत् । चौरेण हन्यते लोकः परचक्रसमागमः ॥ संग्रामश्च महाघोरो दुर्भिक्षं मरकन्तथा । अद्भुतानि प्रसूयन्ते तत्र देशस्य विद्रवः ॥ अकाले फलपुष्पाणि देशविद्रवकारणम् ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ “तत्राशौचिभिक्षाग्रहणे दोषाभाव इति हार- लताप्रभृतयः ॥ कौर्म्मे । सद्यःशौचं समाख्यातं दुर्भिक्षे चाप्युपप्लवे । डिम्बाहवे हतानाञ्च विद्युता पार्थिवैर्द्बिजैः ॥ सद्यःशौचं समाख्यातं शापादिमरणे तथा ॥” इति शुद्धितत्त्वम् ॥ अपि च गारुडे २२६ अध्याये । “दुर्भिक्षयुक्तराष्ट्रे च मृतके सूतकेऽपि वा । नियमाश्च न दुष्यन्ति दानधर्म्मरतास्तथा ॥ दीक्षिताश्चाभिषिक्ताश्च व्रततीर्थपरास्तथा । दीक्षाकाले विवाहादौ देवद्रोण्यां निमन्त्रिते ॥ पूर्ब्बसङ्कल्पिते चापि नाशौचं मृतसूतके ॥”
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्भिक्ष¦ अव्य॰ भिक्षायाः अभावः।
१ भिक्षाया अभावे। दुर्लभाभिक्षा यत्र प्रा॰ ब॰। यद्देशे यानि शस्यानि जायन्तेतद्देशे तद्द्रव्यस्यानुत्पत्त्या
२ तद्द्रव्यालाभसमयभेदे न॰ तत्-समयभेदसूचकाश्च षष्टिसंवत्सरान्तर्गता वर्षभेदाः ज्योति॰त॰ भविष्यपु॰ उक्ताः संगृह्य दर्श्यन्ते यथा(
“राष्ट्रभङ्गश्च दुर्भिक्षं तस्करैरुपपीडनम्। जानी-याद्विग्रहं घोरं प्रमाथिनि
१३ वरानने!।
“दुर्भिक्षं जा-यते घोरं सर्वोपद्रवसंयुतम्। अनावृष्टिः समाख्याताव्यये
२० संवत्सरे प्रिये!”।
“क्वचिद्वर्षति पर्जन्यो देशे सं-छिन्नमण्डलः। दुर्भिक्षं सर्वरीवर्षे
३४ व्यवहारेविपर्ययः”।
“दुर्भिक्षं जायते सर्वा मेदिनी दुष्यतिप्रिये!। प्लवे
३५ प्लवन्ति तोयानि पीडिता मानवा भुवि”।
“दुर्भिक्षं जायते घोरं धान्यौषधिप्रपीडनम्। अनले
५० च समाख्याता नात्र कार्य्या विचारणा”।
“देशभङ्गःसुदुर्भिक्षं समासात् कथयाम्यहम्। पिङ्गले
५१ चारुपद्माक्षि! दुर्भिक्षं नर्मदातटे”।
“दुर्दिक्षं मध्यमं प्रोक्तं[Page3640-b+ 38] व्यवहारो न वर्तते। भवेद्वै मध्यमा वृष्टिर्दुर्मतौ
५५ समुपस्थिते”।
“दुर्भिक्षं मरणं घोरं धान्यौप्रधिप्रपीड-नम्। पापरोगो भवेद्देवि! रक्ताक्षे
५८ ऽमरवन्दनि” !।
“रोगो मरणदुर्भिक्षं विरोधोपद्रवाकुलम्। क्रोधे
५९ तुविषमं सर्वं समाख्यातं हरपिये!”।
५९
“मेदिनीचलते देवि! सर्तभूतं चराचरम्। देशभङ्गश्च दुर्भिक्षक्षये संक्षोयते प्रजाः। सौराष्ट्रे मालवे देशे दक्षिणेकोङ्कणे तथा। दुर्भिक्षं जायते घोरं क्षये
६० संवत्सरेप्रिये!”। क्वचिदद्भुतोत्पातेऽपि दुर्भिक्षं भवति यथा(
“मांसास्थिनी समादाय श्मशानाद् गृध्रवायसाः। श्वा शृगालोऽथ वा मध्ये पुरस्य प्रविशन्ति चेत्। विकिरन्ति गृहादौ च श्मशानं सा मही भवेत्। चौरेणहन्यते लोकः परचक्रसमागमः। सग्रामश्च महाघोरो दुर्भिक्षं मरकस्तथा। अद्भतानि प्रसूयन्ते तत्रदेशस्य विद्रवः। अकाले फलपुष्पाणि देशविद्रवकारणम्” इति ज्योत॰ त॰। तत्र कालेऽशौचिभ्यो भिक्षाग्रहणेदोषाभाव इति हारलताप्रभृतयः। कौर्मे
“सद्यः-शौचं{??}माख्यातं दुर्भिक्षे चाप्युपप्लवे। डिम्बाहवेहतानाञ्च विद्युता पार्थिवैर्द्विजैः। सद्यः शौचं समा-ख्यातं शापादिमरणे तथा” इति शु॰ त॰
“दुर्भिक्षयुक्तराष्ट्रेच मृतके सूतकेऽपि वा। नियमाश्च न दुष्यन्ति दानधर्म-रतेष्वपि। दीक्षिताश्चाभिषिक्ताश्च व्रततीर्थपरास्तथा। दीक्षाकाले विवाहादौ देवद्रोण्यां निमन्त्रिते। पूर्वसङ्क-ल्पिते चापि नाशौच मृतसूतके” इति गारुडे
२२
६ अ॰
“शकटः शाकिनी गावो जालमास्कन्दनं वनम्। अनूपःपर्वतो राजा दुर्भिक्षे नव वृत्तयः” चाणक्याः
“द्वाविमौपुरुषौ लोके सूर्यमण्डलभेदिनौ। दातान्नस्य तु दुर्भिक्षेसुभिक्षे वस्त्रहेमदः”।
“एकग्रामे चतुःसाले दुर्भिक्षे राष्ट्रविप्लवे। पतिना नीयमानायाः पुरःशुक्रो न दुष्यति” ज्यो॰ त॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्भिक्ष¦ n. (-क्षं) Dearth, famine. E. दुर्, and भिक्षा alms; when charity ceases.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्भिक्ष/ दुर्--भिक्ष n. (rarely m.) scarcity of provisions , dearth , famine , want , distress TA1r. i , 4 , 3 Mn. MBh. etc.