यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्लभः, त्रि, (दुर्दुःखेन लभ्यते इति । दुर् + लभ + “ईषद्दुःसुष्विति ।” ३ । ३ । १२६ । इति खल् ।) दुष्प्रापः । इति मेदिनी । भे, १६ ॥ यथा, -- “दुर्लभं प्राकृतं वाक्यं दुर्लभः क्षेमकृत् सुतः । दुर्लभा सदृशी भार्य्या दुर्लभः स्वजनः प्रियः ॥” इति चाणक्ये । ५४ ॥ अतिप्रशस्तः । इति शब्दरत्नावली ॥ “सर्व्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा । हरिद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥” इति कूर्म्मपुराणम् ॥ प्रियः । इति हेमचन्द्रः ॥

दुर्लभः, पुं, (दुर् + लभ + खल् ।) कच्चुरः । इति मेदिनी । भे, १६ ॥ कर्च्चूरः । इति राजनिर्घण्टः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ९६ । “दुर्ल्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥” “दुर्ल्लभतया दुर्ल्लभः । ‘जन्मान्तरसहस्रेषु तपोदानसमाधिभिः । नराणां क्षीणपापानां कृष्णभक्तिः प्रजायते ।’ इति वचनात् भक्त्या लभ्य इति भगवद्बचनाच्च ।” इति तत्र शाङ्करभाष्यम् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्लभ¦ त्रि॰ दुःखेन लभ्यते दुर् + लभ--कर्मणि खल्।

१ लब्धुम-शक्ये कृच्छ्रेण लभ्ये

२ दुष्प्राप्ये मेदि॰

३ अतिप्रशस्तेशब्दर॰

४ प्रिये हेमच॰।
“नरत्वं दुर्लभं लोके विद्या तत्रसुदुर्लभा” सा॰ द॰
“अप्रियस्य च पय्यस्य वक्त्रा श्रीताच दुर्लभः” रामा॰
“दुर्लभं प्राकृतं वाक्यं दुर्लभः क्षेम-कृत् सुतः। दुर्लमा सदृशी भार्या दुर्लभः स्वजनःप्रियः” चाणक्य॰

५ कच्चूरे पु॰ मेदि॰

६ कर्चूरे पु॰राजनि॰

७ दुरालमायां

८ श्वेतकण्टकार्याञ्च स्त्री रा-जनि॰।

९ विष्णौ पु॰
“दुर्लभो दुर्जयो दुर्गः” विष्णुसं॰।
“दुर्लभया भक्त्या लभ्यत इति दुर्लभः
“जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः। नराणांक्षीणपापानां कृष्णे भक्तिः प्रजायतेः” इति व्यास-वचनात्
“भक्त्या लभ्यस्त्वनन्ययेति” भगद्वचनात् भा॰
“आ-मृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम्” मनुः।
“मत्परं दुर्लभं मत्वा नूनमावर्जितं मया” रघुः
“कुसु-मायुधपत्नि! दुर्लभस्तव भर्त्ता न चिराद् भविष्यति” कुमा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्लभ¦ mfn. (-भः-भा-भं)
1. Difficult of attainment.
2. Excellent, eminent.
3. Dear, beloved. m. (-भः) A plant, (a sort of Hedysarum:) see

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्लभ/ दुर्--लभ mfn. -ddifficult to be obtained or found , hard , scarce , rare( comp. -तर) Mn. MBh. Ka1v. etc.

दुर्लभ/ दुर्--लभ mfn. hard to be (with inf. MBh. iii , 1728 )

दुर्लभ/ दुर्--लभ mfn. extraordinary , eminent L.

दुर्लभ/ दुर्--लभ mfn. dear , beloved (also -क) Ka1ran2d2.

दुर्लभ/ दुर्--लभ m. Curcuma Amhaldi or Zerumbet L.

दुर्लभ/ दुर्--लभ m. N. of a man Cat.

"https://sa.wiktionary.org/w/index.php?title=दुर्लभ&oldid=500303" इत्यस्माद् प्रतिप्राप्तम्