यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्कृतम्, क्ली, (दुष्टं कृतम् ।) पापम् । इत्यमरः । १ । ४ । २३ ॥ तत्तु तत्कर्त्तुर्मरणानन्तरं तेन सह गच्छति । यथा, -- “गृहादर्था निवर्त्तन्ते श्मशानादपि बान्धवाः । सुकृतं दुष्कृतं लोके गच्छन्तमनुगच्छति ॥ तस्माद्बित्तं समासाद्य दैवाद्बा पौरुषादथ । दद्यात् सम्यक् द्विजातिभ्यः कीर्त्तनानि च कार- येत् ॥” इति वह्निपुराणे यमानुशासननामाध्यायः ॥ (दुष्टकृते, त्रि । यथा, महाभारते । ९ । ४३ । २० । “युष्माकञ्चाप्रसादेन दुष्कृतेन च कर्म्मणा । यत् पापं वर्द्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्कृत नपुं।

पापम्

समानार्थक:पङ्क,पाप्मन्,पाप,किल्बिष,कल्मष,कलुष,वृजिन,एनस्,अघ,अंहस्,दुरित,दुष्कृत,कल्क,मल,आगस्,कु

1।4।23।2।7

अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम्. कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्कृत¦ न॰ दुष्टं कृतम् प्रा॰ स॰।

१ पापे
“दातुर्यत् दुष्कृतंकिञ्चित् तत्सर्वं प्रतिपद्यते। निपानकर्त्तुः स्नात्वा तु दुष्-कृतांशेन लिप्यते” मनुः

२ तज्जनके कर्मणि च
“यथा यथामनस्तस्य दुष्कृतं कर्म गर्हति” मनुः तदस्यास्ति इनि। दुष्कृतिन् तद्युक्ते
“पुनःपुनर्दुष्कृतिनं निनिन्द” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्कृत¦ mfn. (-तः-ता-तं)
1. Done wrong or wickedly.
2. Done with diffi- culty or pain. n. (-तं) Sin, crime, guilt. E. दुर् evil, कृत done, commit- ted. दुष्टं कृतम् प्रा० स० |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्कृत/ दुष्--कृत mfn. ( दुष्-)wrongly or wickedly done , badly arranged or organized or applied S3Br. viii , 6 , 2 , 18 MBh. etc.

दुष्कृत/ दुष्--कृत n. ( त)evil action , sin , guilt RV. S3Br. ChUp. Mn. MBh.

दुष्कृत/ दुष्--कृत n. etc.

दुष्कृत/ दुष्--कृत n. a partic. class of sins DivyA7v. 544

"https://sa.wiktionary.org/w/index.php?title=दुष्कृत&oldid=500308" इत्यस्माद् प्रतिप्राप्तम्