यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूरम्, त्रि, (दुर्दुःखेनेयते प्राप्यते इति । दुर् + इन् + “दुरीणी लोपश्च ।” उणां २ । २० । रक् धातोर्लोपश्च ।) अनिकटम् । असन्निकृष्टम् । तत्पर्य्यायः । विप्रकृष्टम् २ । इत्यमरः । ३ । १ । ६८ ॥ अनासन्नम् ३ । इति शब्दरत्नावली ॥ (यथा, हितोपदेशे । १ । ४३ । “शरीरस्य गुणानाञ्च दूरमत्यन्तमन्तरम् । शरीरं क्षणविंध्वसि कल्पान्तस्थायिनो गुणाः ॥”) आके १ पराके २ पराचैः ३ आरे ४ परा- वतः ५ । इति पञ्च दूरनामानि । इति वेद- निघण्ठौ ३ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=दूरम्&oldid=500319" इत्यस्माद् प्रतिप्राप्तम्