दृश
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृश, इर् औ प्रेक्षे । इति कविकल्पद्रुमः ॥ (भ्वां- परं-सकं-अनिट् ।) इर्, अदर्शत् अद्राक्षीत् । औ, द्रष्टा । प्रेक्षश्चाक्षुषज्ञानम् । पश्यति चन्द्रं लोकः । ततः स ददृशे च तौ इति व्यतीहारे आत्मनेपदम् । कदा द्रक्ष्येऽहं परमेश्वरि त्रिपथगे भागरथि ! स्वं वपुरिति गणकृतानित्यत्वात् । इति दुर्गादासः ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृश¦ वाक्षुषज्ञाने भ्वा॰ पर॰ सक॰ अनिट्। पश्यति इरित्अदर्शत् अद्राक्षीत्। ददर्श ददर्शिथ दद्रष्ठ ददृशिवद्रष्टा दृश्यात् द्रक्ष्यति। दर्शनीयं द्रष्टव्यं दृश्यः द्रष्टादृष्टः द्रष्टुं दृष्टिः दृक् दृष्ट्वा प्रदृश्य।
“तुतोष पश्यन्वितृणान्तरालाः” भट्टिः पश्यतो हरः।
“न तु मांशक्यसे द्रष्टुमनेनैव स्वचक्षुषा। दिव्यं ददामि तेचक्षुः पश्य से योगमैश्वरम्”।
“अपश्यद् देवदेवस्यशरीरे पाण्डवस्तदा” गीता
“ददर्श दूनः स्थलपद्मिनींनलः” नैष॰ मानसज्ञाने च
“शान्तोदान्त उपरतस्तितिक्षुःश्रद्धावान् समाहितीभूत्वा आत्मन्यात्मानं पश्यति” श्रुतिः
“आत्मा वा अरे द्रष्टव्यः” वृ॰ उ॰ श्रुतिः णमुल्
“तं विप्रदर्शं कृतघातयत्ना” भट्टिः
“दृशेरनालोचनेकङ् च” पा॰ कर्त्तरि कङ् अन्यादृशः कीदृशः चात्क्विन् क्स च अन्यादृक् अन्यादृक्षः। श पश्यः
“अपास्यपश्यं निजदृश्यखेटात्” नील॰ ता॰
“उग्रम्पश्या-कुलेऽरण्ये” भट्टिः दर्शयति ते अददर्शत् अदीदृशत् त। णिचि कर्मणः कर्तृत्वे तङ् दर्शयते भवो भक्तान्भक्तैर्वा आत्मानमिति शेषः। एवं विषये दृशेः कर्तुर्वाकर्मसंज्ञा
“सीतां रामेण चात्मानमदर्शयत लक्ष्मणम्” मुग्धबो॰ सनि तङ् दिदृक्षते।
“दिदृक्षमाणः परितःससीतं रामं यदा नैक्षत लक्षणञ्च”। भट्टिः दिदृक्षा कर्मणिदृश्यते
“एकधा बहुधा चैव दृश्यते जलचन्द्रवत्” श्रुतिः
“जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः” मनुः
“अदर्शि सङ्कोप्य कदाप्यवीक्षितः”
“रूपमदर्शिधृतोऽसि यदर्थम्” नैष॰ अस्यार्षे क्वचित्तङपि।
“यं यंहि ददृशे सेयं तं तं मेने नलं नृपम्” भा॰ व॰
२२
०२ श्लो॰। दर्शनयोग्ये प्रकाशे च अक॰
“मधुरात्मानमदर्शयत् पुरः” कुमा॰। दर्शनार्थत्वे तङ् स्यादिति बोध्यम्। अनु + अनुरूपदर्शने
“रथे विलग्नाविव चन्द्रसूर्यौ घनान्तरेणा-नुददर्श लोकः” भा॰ वि॰
१६
९ श्लो॰ दृशिशब्दे पात॰ सूत्रे[Page3670-b+ 38] उदा॰ दृश्यम्।
“बहुविधमनुदृश्य चार्थहेतोः कृ-पणमिहार्यमनार्यमाश्रयन्तम्” भा॰ शा॰
१७
९ अ॰अभि + आभिमुख्येन समन्ताद्वा दर्शने
“तदा प्रभृति कौ-न्तेय! नरा गिरिमिमं सदा। नाशक्नुवन्नभिद्रष्टुं कुतएवाघिरोहितुम्” भा॰ व॰
९९
८२ श्लो॰अव + नीचतया दर्शने
“यथा जलस्थ आभासः स्थल-स्थेनावदृश्यते। स्वाभासेन यथा सूर्यो जलस्थेन दिवि-स्थितः” भाग॰
३ ।
२७ ।
१२ आ + आभिमुख्येन समन्ताद्वा दर्शने आदर्शः।
“उत्कलादा-र्शितपथः कलिङ्गाभिमुखो ययौ” रघुः। उद् + नीचस्थस्योच्चतया दृष्टौ उत्प्रेक्षणे चउप + सामीप्येन दर्शने।
“चतुष्पाद् व्यवहारोऽयं विवा-देषूपदर्शितः” याज्ञ॰। नि + दृष्टान्ततया साम्मुख्येन वा दर्शने।
“द्रष्टुमिच्छामि तेरूपमैश्वरं त्वं निदर्शय” भा॰ आश्र॰
१५
८८ श्लो॰निदर्शनालङ्कारः
“निदर्शयामास विशेषदृश्यम्” रघुःपरा + विपरीतदर्शने यस्य यथारूपं ततोऽन्यरूपेण दर्शने
“धूममग्निं परादृश्या मित्राहृत्स्वा दधतां भयम्” अथ॰
८ ।
८ ।
२ ।
“त्रीन् स्तनानुपेयुस्तं पराददृशुः। द्वौ स्तनाउपेयुस्तन्नेदीयसः पराददृशुः” शत॰ ब्रा॰
९ ।
५ ।
१ ।
३ ।
४ । परि + परितः समन्ताद्वा दर्शने
“परिदृष्टानि तीर्थानि गङ्गा-चैव मया नृप!” भा॰ आश्र॰
७३ अ॰ परिच्छिन्नतयादर्शने च।
“बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिःपरिदृष्टो दीर्घसूक्ष्मः” पा॰ सू॰। दीर्घसूक्ष्मशब्दे
३६
१४ पृ॰ दृश्यम्। प्र + सम्यग्दर्शने
“मनसैव प्रदीपेन महानात्मा प्रदृश्यते” भा॰ आश्व॰
१९ अ॰
“अहो त्वयाद्य विप्रेषु भक्तिरागःप्रदर्शितः” भा॰ अनु॰
७२
११ श्लो॰ एकदेशदर्शने च। प्रदर्शनार्थमिदमुक्तम्।
“योगेश्वरत्वं कृष्णेन यत्र राज्ञांप्रदर्शितम्” भा॰ आ॰
५१
० श्लो॰। प्रति + तुल्यरूपदर्शने
“कृताभ्यङ्गः शोणितेन रुद्रवत् प्रत्य-दृश्यत” भा॰ भी॰
४६
७९ श्लो॰
“निमित्तलक्षणं ज्ञानंशाकुनं स्वप्नदर्शनम्। अवश्यं सुखदुःखेषु नराणांप्रतिदृश्यते” रामा॰ अयो॰
५८
१५ श्लो॰वि + विशेषेण दर्शने
“विदर्शयन्तोविविधान् भूयश्चित्रांश्च नि-र्झरान्” रामा॰ अयो॰
४८ अ॰
१३ श्लो॰सम् + सम्यग्दर्शने
“संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विना-शनम्” भा॰ शा॰
१०
६८ श्लो॰[Page3671-a+ 38]
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृश (औ ईर) औदृशीर¦ r. 1st cl. (पश्यति) To see. With उत् prefixed,
1. To see, to observe.
2. To anticipate, to foresee.
3. To doubt, to think doubtingly. भ्वा० पर० सक० अनिट् |
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृश m. look , appearance(See. ई-द्, की-द्, ता-द्etc. )