संस्कृतम्

सम्पाद्यताम्
  • देवः, सुरः, अमरः, निर्जरः, विवुधः, सुपर्वन्, सुमनस्, त्रिदिवेशः, दिवौकस्, आदितेयः, दिविषद्, लेस्वः, अदितिनन्दनः, आदित्यः, ॠभुः, अस्वमः, अमर्त्यः, अमृतांधत्, बर्हिंमुखः, क्रतुमुक्, गीर्वानः, दानवारिः, वृंदारकः, दैवतः, परमेश्वरः, परमात्मन्।
  • देवः नाम भगवान्।
  • मङ्गलाचरणम् -
    यस्य ज्ञानदयासिंधोरगाधस्यानघा गुणाः।
    सेव्यतामक्षयो धीराः स श्रिये चामृताय च॥ अ.को. १.१.॥
  • अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः।
  सिपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः॥
  आदितेया दिविषदो लेखा अदितिनन्दनाः।
  आदित्य ॠभवोऽस्वप्ना अमर्त्या अमृतान्धसः॥
   बर्हिर्मुखाः ॠतुभुजो गीर्वाणा दानवारयः।
   वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम्॥ अ.को.१.१.१८॥

यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवः, पुं, (दीव्यति आनन्देन क्रीडतीति । दिव + अच् ।) देवता । (यथा, मनुः । ३ । ११७ । “देवानृषीन् मनुष्यांश्च पितन् गृह्याश्च देवताः । पूजयित्वा ततः पश्चात् गृहस्थः शेषभुग् भवेत् ॥”) नाठ्योक्तौ राजा । इत्यमरः । १ । ७ । १३ ॥ राजा । (यथा, कादम्बरी । १८ । “सकलभूतलरत्नभूतोऽयं वैशम्पायनो नाम शुकः । सर्व्वरत्नानामुदधिरिव देवो भाजन- मिति कृत्वैनमादायास्मत्स्वामिदुहिता देवपाद- मूलमायाता तदयमात्मीयः क्रियतामिति ॥”) मेघः । इति मेदिनी । वे, १२ ॥ (यथा, महा- भारते । ३ । २३५ । २३ । “क्षेत्रे सुकृष्टे ह्युपिते च बीजे देवे च वर्षत्यृतुकालयुक्तम् ॥” केचित्तु देवशब्देन इन्द्र इति व्याचक्षते ॥) पारदः । इति राजनिर्घण्टः ॥ ब्राह्मणाना- मुपाधिभेदः । यथा, स्मृतिः । “देवपूर्ब्बं नराख्यं स्यात् शर्म्मवर्म्मादिसंयुतम् ॥” (ऋत्विक् । यथा, ऋग्वेदे । ९ । ९६ । ६ । “ब्रह्मा देवानां पदवीः कवीना- मृषिर्विप्राणां महिषो मृगाणाम् ॥” “देवानां स्तोत्रकारिणामृत्विजां ब्रह्मा ब्रह्मा- ख्यर्त्विक्स्थानीयो भवति ।” इति तद्भाष्ये सायनः ॥) कायस्थादीनां पद्धतिविशेषः । तस्य विवरणं कायस्थशब्दे द्रष्टव्यम् ॥ (त्रि, दाता । द्योतयिता । दीपयिता । यथा, ऋग्वेदे । १ । १ । १ । “अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ॥” “देवशब्दो दानदीपनद्योतनानामन्यतममर्थ- माचष्टे । यज्ञस्य दाता दीपयिता द्योतयिता यमग्निरित्युक्तं भवति ।” इति तद्भाष्ये सायनः ॥ विष्णुः । यथा, महाभारते । १३ । १४९ । ५४ । “उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ॥” “दीव्यति यत् क्रीडति सर्गादिति विजिगीषति असुरान् व्यवहरति सर्व्वभूतेष्वात्मतया द्योतते स्तूयते स्तुत्यैः सर्व्वत्र गच्छति तस्माद्देवः । एको- देव इति मन्त्रवर्णात् ॥” इति तद्भाष्ये शङ्करः ॥ महादेवः । यथा, महाभारते । १३ । १७ । ९८ । “परश्वधायुधो देवः अनुकारी सुबान्धवः ॥”)

"https://sa.wiktionary.org/w/index.php?title=देवः&oldid=500334" इत्यस्माद् प्रतिप्राप्तम्