यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव्यम्, क्ली, (द्रोरिव । द्रु + “द्रव्यञ्च भव्ये ।” ५ । ३ । १०४ । इति यत्प्रत्ययेन निपातनात् साधुः ।) वस्तु । (यथा, मनुः । ७ । ९ । “एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् । कुलं दहति राजाग्निः सपशुद्रव्यसञ्चयम् ॥”) तस्य क्रियाविशेषे नवपुराणभेदेन प्रशस्तत्वं यथा, -- “द्रव्याण्यभिनवान्येव प्रशस्तानि क्रियाविधौ । ऋते गुडघृतक्षौद्रधान्यकृष्णाविडङ्गतः ॥” इति नारायणदासकृतपरिभाषा ॥ तैजसं वै समादाय यद्युच्छिष्टो भवेद्द्बिजः । भूमौ निःक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत् ॥ यद्यद्द्रव्यं समादाय भवेदुच्छेषणान्वितः । अनिधायेतरद्द्रव्यमाचान्तः शुचितामियात् ॥ वस्त्रादिषु विकल्पः स्यात्तत् स्पृष्ट्वा चाचमेदिह । अरण्येऽनुदके रात्रौ चौरव्याघ्राकुले पथि । कृत्वा मूत्रपुरीषं वा द्रव्यहस्तो न दुष्यति ॥” इति कूर्म्मपुराणम् ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव्य नपुं।

द्रव्यम्

समानार्थक:द्रव्य,वित्त,स्वापतेय,रिक्थ,ऋक्थ,धन,वसु,हिरण्य,द्रविण,द्युम्न,अर्थ,रै,विभव,द्रविण,ग्रन्थ,साधन

2।9।90।1।1

द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु। हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि॥

 : नद्यादितरणे_देयमूल्यम्, अवश्यं_दीयमानद्रव्यम्, विक्रेयवस्तूनां_मूल्यम्, मूलधनम्, अधिकफलम्, निक्षेपः, स्वामिने_निक्षेपार्पणम्, क्रये_प्रसारितं_द्रव्यम्, क्रेतव्यमात्रके_द्रव्यम्, चौर्यधनम्, वेतनम्, द्यूते_लाप्यमानः, स्त्रीधनम्, मूलवणिग्धनम्, धनम्

पदार्थ-विभागः : धनम्

द्रव्य नपुं।

शुभम्

समानार्थक:श्वःश्रेयस,शिव,भद्र,कल्याण,मङ्गल,शुभ,भावुक,भविक,भव्य,कुशल,क्षेम,शस्त,अरिष्ट,द्रव्य,अथो,अथ

3।3।155।1।2

वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये। धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

द्रव्य नपुं।

गुणाश्रयम्

समानार्थक:द्रव्य

3।3।155।1।2

वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये। धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव्य¦ न॰ द्रोर्विकारः द्रोरिति यत्
“द्रव्यञ्च भव्ये” पा॰ निपा॰।

१ पित्तले

२ वित्ते

३ पृथिव्यादिषु नवसु।

४ विलेपने न॰

५ भेषजे

६ द्रुमविकारे

७ तत्सम्बन्धिनि च त्रि॰ मेदि॰।

८ जतुनि

९ विनये न॰ हेम॰।

१० मद्ये न॰ राजनि॰। द्रव्यलक्षणमौलुक्यशब्दे

१५

८६ पृ॰ उक्तं तद्भेदाश्च नव
“पृथिव्यापस्तेजो वायुराकाशं कालोदिगात्मा इतिद्रव्याणि” कणा॰ सू॰
“इदानीमपवर्गभागितया सर्वपदार्थाश्रयतया च प्रथमोद्दिष्टस्य द्रव्यपदार्थस्य विभागंविशेषोद्देशञ्च कुर्तन्नाह पृथिव्याप इति इतिकारोऽबधा-रणार्थः तेन नवैव द्रव्याणि नाधिकानि न न्यूनानिवेत्यर्थः। ननु विभागबलादेव नूनाधिकसङ्ख्याव्यवच्छेद-सिद्धौ किमितिकारेणेति चेत् उद्देशमात्रपरतयाऽपिसूत्रसम्भवे विभागतात्पर्य्यस्फोरणार्थतयैवेतिकाराभिधा-नात् सुवर्णादीनामीश्वरस्य चात्रैवान्तर्भावात् अन्ध-कारस्य चाधिकत्वेनाशङ्क्यमानस्याभावत्वव्युत्पादनादेत-दध्यवसेयम्। असमासकरणन्तु सर्वेषां प्राधान्यप्रदर्श-नाय” उप॰ वृ॰। वैद्यके तु तस्य पञ्चविधतोक्ता यथा
“रसोगुणस्तथा वीर्य्यं विपाकः शक्तिरेव च। पञ्चानां यःसमाहारस्तद्द्रव्यमिति कीर्त्त्यते” इति भिषग्वराः। प्रका-रान्तरेण च पञ्चविसम् अत्यन्तकठिनकठिनार्द्रकोल्वणद्रवद्र-व्यभेदात्। द्रव्यभेदानां गुणवत्तावधिश्च वैद्यकोक्तः यथा
“गुणहीनं भवेद्वर्षादूर्द्ध्वं तद्रपमौषधम्। मासद्वयात् तथा[Page3778-a+ 38] चूर्णं लभते हीनवीर्य्यताम्। हीनत्वं गुटिका लेहो लभतेवत्सरान् परम्। हीनाः स्युर्घृततैलाद्याश्चतुर्मासाधिका-स्तथा। घृततैलाद्या इति यागविशेषणम्। चतुर्मासा-धिकाः संवत्सरादुपरि चत्वारोमासा अधिका येषांते।
“घृतमव्दात् परं पक्वं हीनवीर्य्यत्वमाप्नुयात्। तैलं पक्वमपक्वं वा चिरस्थायि गुणाधिकम्। तदपिषोडशमासाभ्यन्तरे पक्वतैलं गुणाधिकं बोद्धव्यम्।
“ओ-षध्यो लघुपाकाः स्युर्निर्वीर्य्या वत्सरात्परम्”। ओ-षध्यो धान्यादयः। लघुपाकाः शीघ्रपाकाः
“निर्वीर्य्याःस्युर्गुणैर्युक्ता आसवा धातवोरसाः”। सामान्यतो वैद्यकेऽभिनवानामेव गुणवत्ता घृतादीनांपक्वानामपि केषाञ्चित् गुणवत्ता उक्ता यथा
“द्रव्याण्य-भिनवान्येव प्रशस्तानि क्रियाविधौ। ऋते गुडघृतक्षौद्र-धान्यकृष्णाविडङ्गतः” रसादिमध्येऽपि द्रव्यस्यैव सुश्रुतेप्रधानत्वमुक्तं यथा
“अथातो द्रव्यरसगुणवीर्यविपाकविज्ञानीयमध्यायं व्या-ख्यास्यामः। केचिदाचार्य्या ब्रुवते द्रव्यं प्रधानं कस्मा-द्व्यवस्थितत्वादिह खलु द्रव्यं व्यवस्थितं न रसादयोयथामे फले ये रसादयस्ते पक्वे न सन्ति। नित्यत्वाच्चनित्यं हि द्रव्यमनित्या गुणा यथा कल्कादिप्रविभागःस एव सम्पन्नरसगन्धो व्यापन्नरसगन्धो वा भवति। स्वजात्यवस्थानाच्च यथा हि पार्थिवं द्रव्यमन्यभावं नगच्छत्येवं शेषाणि। पञ्चेन्द्रियग्रहणाच्च पञ्चभिरिन्द्रि-यैर्गृह्यते द्रव्यं न रसादयः। आश्रयत्वाच्च द्रव्यमाश्रितारसादयो भवन्ति। आरम्भसामर्थ्याच्च द्रव्याश्रित आ-रम्भो यथा विदारिगन्धादिमाहृत्य सङ्क्षुद्य विपचेदित्ये-वमादिषु न रसादिष्वारम्भः। शास्त्रप्रामाण्याच्च शास्त्रेहि द्रव्यं प्रधानमुपदेशे हि योगानां यथा मातुलुङ्गा-ग्निमन्थौ चेति न रसादय उपदिश्यन्ते। क्रमापेक्षित-त्वाच्च रसादीनां रसादयो हि द्रव्य क्रममपेक्षन्ते यथातरुणे तरुणाः सम्पूर्णे सम्पूर्णा इति। एकदेशसाध्य-त्वाच्च द्रव्याणामेकदेशतोऽपि व्याधयः साध्यन्ते यथामहावृक्षक्षीरेणेति तस्माद्द्रव्यं प्रधानं द्रव्यलक्षणन्तुक्रियागुणवत्समवायिकारणमिति। नेत्याहुरन्येरसास्तु प्रधानं कस्मादागमादागमोहि शास्त्रमुच्यतेशास्त्रे हि रसा अधिकृता यथा रसायत्त आहार इतितस्मिंश्च प्राणाः। उपदेशाच्चोपदिश्यन्ते हि रसा यथामधुराम्ललवणा वातं शमयन्ति। अनुमानाच्च रसेन[Page3778-b+ 38] ह्यनुमीयते द्रव्यं यथा मधुरमिति। ऋषिवचनाच्चऋषिवचनं वेदो यथा किञ्चिदिज्यार्थं मधुरमाहरेदिति। तस्माद्रसाः प्रधानं रसेषु गुणसंज्ञा। रसलक्षणमन्यत्रो-पदेक्ष्यामः। नेत्याहुरन्ये। वीर्य्यं प्रधानमितिकस्मात्तद्वशेनौषधकर्म्मनिष्पत्तेः। इहौषधकर्म्माण्यूर्द्ध्वा-धोभागोमयभागसंशोधनसंशमनसंग्रहणाग्निदीपनप्रपी-डनलेखनवृंहणरसायनवाजीकरणश्वयथुकरणविलयनद-हनदारणदाहनप्राणघ्नविषप्रशमनानि वीर्य्यप्राधान्या-द्भवन्ति। तच्च वीर्य्यं द्विविधमुष्णं शीतं चाग्नीषोमी-यत्वाज्जगतः। केचिदष्टविधमाहुरुष्णं शीतं स्निग्धंरूक्षं विशदं पिच्छिलं मृदु तीष्णंचेत्येतानि वी-र्य्याणि स्वबलगुणोत्कर्षाद्रसमभिभूयात्मकर्म कुर्व्वन्ति यथातावन्महत्पञ्चमूलं कषायं तिक्तानुरसं वातं शमयेदुष्ण-वीर्य्यत्वात् तथा कुलत्थः कषायः कटुकः पलाण्डुः स्नेह-भावाच्च। मधुरश्चेक्षुरसो वातं वर्द्धयति शीतवीर्य्य-त्वात्। कटुका पिप्पली पित्तं शमयति मृदुशीत-वीर्य्यत्वादम्लमामलकं लवणं सैन्धवञ्च। तिक्ता काक-माची पित्तं वर्द्ध त्युष्णवीर्य्यत्वान्मधुरा मत्स्याश्च। कटुकं मूलकं श्लेष्माणं वर्द्धयति स्निग्धवीर्य्यत्वात्। अम्लंकपित्थं श्लेष्माणं शमयति रूक्षवीर्य्यत्वान्मधुरं क्षौद्रञ्च। तदेतन्निदर्शनमात्रमुक्तम्” भवन्ति चात्र
“ये रसा वात-शमना भवन्ति यदि तेषु वै। रौक्ष्यलाघवशैत्यानि नते हन्युः समीरणम्। ये रसाः पित्तशमना भवन्ति यदितेषु वै। तैक्ष्ण्यौष्ण्यलघुताश्चैव न ते तत्कर्म्मकारिणः। ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै। स्नेहगोर-वशैत्यानि वलासं वर्द्धयन्ति ते” तस्माद्वीर्य्यं प्रधानमिति। नेत्याहुरन्ये। विपाकः प्रधानमिति कस्मात् सम्यङ्-मिथ्याविपाकत्वादिह सर्वद्रव्याण्यभ्यवहृतानि सम्यक्विपक्वानि गुणं दोषं वा जनयन्ति। तत्राहुरन्येप्रतिरसं पाक इति। केचित्त्रिविधमिच्छन्ति मधुरमम्लंकटुकं चेति तत्तु न सम्यक् भूतगुणादागमाच्चाम्लो वि-पाको नास्ति पित्तं हि विदग्धमम्लतामुपैत्यग्नेर्मन्द-त्वात्। यद्येवं लवणोऽप्यन्यः पाको भविष्यति श्लेष्माहि विदग्धो लवणमुपैति मधुरो मधुरस्याम्लोऽम्लस्यैवंसर्वेषामिति केचिदाहुर्दृष्टान्तं चोपदिशन्ति यथा तावत्क्षीरस्थालीगतमभिपच्यमानं मधुरमेव स्यात्तथा शालियव-मुद्गादयः प्रकीर्णाः स्वभावमुत्तरकालेऽपि न परित्यजन्तितद्वदिति। केचिद्वदन्त्यबलवन्तो बलवतां वशमायान्ती-[Page3779-a+ 38] त्येवमनवस्थितिस्तस्मादसिद्धान्त एष। आगमे हिद्विविध एव पाको मधुरः कटुकश्च तयोर्मधुराख्यो गुरुःकटुकाख्यो लघुरिति तत्र पृथिव्यप्तेजोवाय्वाकाशानांद्वैविध्यं भवति गुणसाधर्म्याद्गुरुता लघुता च पृथिव्या-पश्च गुर्व्यः शेषाणि लघूनि तस्माद्द्विविध एव पाकइति। भवन्ति चात्र। द्रव्येषु पच्यमानेषु येष्वम्बु-पृथिवीगुणाः। निर्वर्त्त्यन्तेऽधिकास्तत्र पाको मधुरउच्यते। तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु। निर्वर्त्त्यन्तेऽधिकास्तत्र पाकः कटुक उच्यते। पृथक्त्व-दर्शिनामेष वादिनां वादसंग्रहः। चतुर्णामपि सामर्थ्य-मिच्छन्त्यत्र विपश्चितः। तद्द्रव्यमात्मना किञ्चित्किञ्चि-द्वीर्य्येण सेवितम्। किञ्चिद्रसविपाकाभ्यां दोषं हन्तिकरोति वा। पाको नास्ति विना वीर्य्याद्वीर्य्यं नास्तिविना रसात्। रसो नास्ति विना द्रव्याद्द्रव्यं श्रेष्ठमतःस्मृतम्। जन्म तु द्रव्यरसयोरन्योऽन्यापेक्षकं स्मृतम्। अन्योऽन्यापेक्षकं जन्म यथा स्याद्देहदेहिनोः। वीर्य्य-संज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः। रसेषुन वसन्त्येते निर्गुणास्तु गुणाः स्मृताः। द्रव्ये द्रव्याणियस्माद्धि विपच्यन्ते न षड्रसाः। श्रेष्ठं द्रव्यमतो ज्ञेयंशेषा भावास्तदाश्रयाः। अमीमांस्यान्यचिन्त्यानि प्रसि-द्धानि स्वभावतः। आगमेनोपयोज्यानि भेषजानिविचक्षणैः। प्रत्यक्षलक्षणफलाः प्रसिद्धाश्च स्वभावतः। नौषधीर्हेतुभिर्विद्वान् परीक्षेत कथञ्चन। सहस्रेणापिहेतूनां नाम्बष्ठादिर्विरेचयेत्। तस्मात्तिष्ठेत्तु भतिमा-नागमेन तु हेतुषु”।
“वस्तूपलक्षणं यत्र सर्वनाम प्रयु-ज्यते। द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन व्यवस्थितः” हरिणा परिभाषिते

११ वस्तुपदार्थे च।
“स्वार्थो द्रव्यञ्चलिङ्गञ्च संख्या कर्मादिरेव च” हरिः लिङ्गसंख्यान-न्वयित्वेन सत्वरूपतया च तस्य तथात्वम्।
“क्रियान युज्यते लिङ्गक्रियानाधारकारकैः। असत्वभूततातस्या इयमेवावधार्य्यताम्” हरिः। क्रियानाधारकार-कत्वैर्न युज्यते इत्यर्थः। तेन लिङ्गसंख्याकारकत्वशून्यत्वंसत्वत्वमेव द्रव्यत्वम्।
“कृदभिहितो भावो द्रव्यवत् प्रका-शते” इति भाष्यम्। द्रव्यविशेषहस्तादौ उच्छिष्टदोषादि-शुद्धिभेद उक्तः कूर्मपु॰
“उच्चावचान्नपानेषु द्रव्यहस्तो भवे-न्नरः। भूमौ निःक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत्। तैजसं वै समादाय यद्युच्छिष्टो भवेद्द्विजः। भूमौ निः-क्षिप्य तद्दव्यमाचम्याभ्युक्षयेत्तु तत्। यद्यद्द्रव्यं करे[Page3779-b+ 38] धृत्वा भवेदुच्छेषणान्वितः। आनिधायेतरद्द्रव्यमाचान्तःशुचितामायात्। वस्त्रादिषु विकल्पः स्यात् न तत्स्पृष्ट्वा-चमेदिह। अरण्येऽनुदके रात्रौ चौरव्याध्राकुलेपथि। कृत्वा मूत्रपुरीषं वा दुष्टहस्तो न दुष्यति”।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव्य¦ mfn. (-व्यः-व्या-व्यं)
1. Fit, proper, right, what is or ought to be.
2. Derived from or relating to a tree. n. (-व्यं)
1. Wealth, property.
2. Substance, thing, the receptacle or substratum of properties, &c.
3. Elementary substance, nine kinds of which are reckoned; viz. earth, water, fire, air, æther, time, space, soul, and intellect.
4. Brass.
5. A stake, a wager.
6. A drug, a medicament, any thing. used in medicine.
7. Anointing, plastering.
8. Lac, the animal dye.
9. Extract, gum, resin, &c. derived from vegetables.
10. Modesty, propriety.
11. Spirituous liquor. E. द्रु a tree, affix यत् |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव्यम् [dravyam], 1 A thing, substance, object, matter; the whole creation (अधिभूत); द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् Bhāg.12.6.38.

The ingredient or material of anything.

A material to work upon.

A fit or suitable object (to receive instruction &c.); द्रव्यं जिगीषुमधि- गम्य जडात्मनो$पि Mu.7.14; see अद्रव्य also.

An elementary substance, the substratum of properties; one of the seven categories of the Vaiśeṣikas; (the dravyas are nine: पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि); one of the six of the Jainas (जीव, धर्म, अधर्म, पुद्गल, काल and आकाश).

Any possession, wealth, goods, property, money: षड् द्रव्याणि 'मणयः पशवः पृथिवी वासो दास्यादि काञ्चनम्'; उपार्जनं च द्रव्याणां परिमर्दश्च तानि षट् Mb.12.59.64; तत् तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः U.2.19.

A medicinal substance or drug.

Modesty.

Bell-metal, brass or gold; Rām.7.

Spirituous liquor.

A wager, stake.

Anointing, plastering.

An ointment.

The animal-dye, lac.

Extract, gum.

A cow; L. D. B.

A verse from the Ṛigveda. द्रव्यशब्द- श्छन्दोगैर्ऋक्षु आचरितः । ŚB. on MS.7.2.14. -Comp. -अर्जनम्, -वृद्धिः, -सिद्धिः f. acquisition of wealth.-ओघः f. affluence, abundance of wealth. -कल्कम् Viscous sediment given out by oily substances when ground; द्रव्यकल्कः पञ्चधा स्यात् कल्कं चूर्णं रसस्तथा । तैलं मष्टिः क्रमाज्ज्ञेयं यथोत्तरगुणं प्रिये ॥ Āyurveda. -गणः a class of 37 similar substances (in medicine). -परिग्रहः the possession of property or wealth. -प्रकृतिः f. the nature of matter.-वाचकम् a substantive. -शुद्धिः Cleansing of soiled articles. -संस्कारः the consecration of articles for sacrifice &c. -हस्तः a. holding anything in the hand; Ms.5.143.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव्य n. a substance , thing , object Up. Mn. MBh. etc.

द्रव्य n. the ingredients or materials of anything MBh. R.

द्रव्य n. medicinal substance or drug Sus3r.

द्रव्य n. ( phil. ) elementary substance (9 in the न्याय, viz. पृथिवी, अप्, तेजस्, वायु, आकाश काल, दिश्, आत्मन्, मनस्; 6 with जैनs , viz. जीव, धर्म, अधर्म, पुद्गल, काल, आकाश)

द्रव्य n. ( Gr. )single object or person , individual(See. एक-)

द्रव्य n. fit object or person(See. आ-.)

द्रव्य n. object of possession , wealth , goods , money Mn. Ya1jn5. MBh. etc.

द्रव्य n. gold R. vii , 18 , 34 Sch.

द्रव्य n. bell-metal , brass L.

द्रव्य n. ointment L.

द्रव्य n. spirituous liquor L.

द्रव्य n. a stake , a wager W.

द्रव्य mfn. (fr. 4. द्रु)derived from or relating to a tree Pa1n2. 4-3 , 161

द्रव्य mfn. tree-like or corresponding to a tree S3a1n3khBr. x , 2

द्रव्य n. lac , gum , resin L.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव्य न.
(द्रु+यत्) यज्ञीय सामग्री, पुरोडाश, आज्य इत्यादि; एक आहुति, का.श्रौ.सू. 1.2.2. इसकी उपलब्धि या प्रबन्ध यजमान का कर्तव्य है, आप.श्रौ.सू. 4.1.2.

"https://sa.wiktionary.org/w/index.php?title=द्रव्य&oldid=500402" इत्यस्माद् प्रतिप्राप्तम्