यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन, रवे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं- सेट् ।) धनति मृदङ्गः । इति दुर्गादासः ॥

धन, लि र धान्ये । इति कविकल्पद्रुमः ॥ (ह्वां- परं-अकं-सेट् ।) धान्यमिह धान्यक्रिया । र, वैदिकः । लि, दधन्ति भूमिर्धान्यमुत्पादयति इत्यर्थः । इति दुर्गादासः ॥

धनम्, क्ली, (धनति रौतीति । धन रवे + पचाद्यच् ।) स्नेहपात्रम् । इति शब्दरत्नावली ॥ गोधनम् । इति मेदिमेदीनी । ने, १२ ॥ (यथा, हरिवंशे । ७३ । ३३ । “अनुजग्मुश्च गोपालाः कालयन्तो धनानि च ॥”) जीवनोपायः । (दधन्ति धान्यादिकमुत्पादय- तीति । धन + अच् । यद्वा, दधाति सुखमिति । धा + “कॄपॄवृजिमन्दिनिधाञः क्युः ।” उणां २ । ८१ । इत्यत्र “बाहुलकात् केवलादपि क्युः ।” इत्युज्ज्वल- दत्तोक्तेः क्युः ।) द्रविणम् । (यथा, उद्भटे । “धनैर्निष्कुलीनाः कुलीना भवन्ति धनैरापदं मानवा निस्तरन्ति । धनेभ्यः परो नास्ति बन्धुर्हि लोके धनान्यर्जयध्वं धनान्यर्ज्जयध्वम् ॥”) अनुग्रहार्थं भगवता धनहरणम् । यथा, -- “राजन् यमनुगृह्णामि हरिस्ये तद्धनं शनैः । ततोऽधनं त्यजन्त्यस्य स्वजना दुःखदुःखितम् ॥” इति श्रीभागवतम् ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन नपुं।

द्रव्यम्

समानार्थक:द्रव्य,वित्त,स्वापतेय,रिक्थ,ऋक्थ,धन,वसु,हिरण्य,द्रविण,द्युम्न,अर्थ,रै,विभव,द्रविण,ग्रन्थ,साधन

2।9।90।1।6

द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु। हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि॥

 : नद्यादितरणे_देयमूल्यम्, अवश्यं_दीयमानद्रव्यम्, विक्रेयवस्तूनां_मूल्यम्, मूलधनम्, अधिकफलम्, निक्षेपः, स्वामिने_निक्षेपार्पणम्, क्रये_प्रसारितं_द्रव्यम्, क्रेतव्यमात्रके_द्रव्यम्, चौर्यधनम्, वेतनम्, द्यूते_लाप्यमानः, स्त्रीधनम्, मूलवणिग्धनम्, धनम्

पदार्थ-विभागः : धनम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन¦ धान्योत्पादने जुहो॰ पर॰ सेट्। दधन्ति अधानीत्अधनीत् दधान। गृहीतकर्मकत्वात् अकर्मकत्वम्। तेनदधन्ति भूमिः धान्यमुत्पा{??}यतीत्यर्थः, वैदिकोऽयम्।

धन¦ शब्दे भ्वा॰ पर॰ अक॰ सेट्। धनति अधानीत् अधनीत्।

धन¦ न॰ धन--अच्।

१ गोधने

२ वित्ते च मेदि॰।

३ स्नेहपात्रेशब्दर॰

४ धनिष्ठानक्षत्रे ज्योतिषम्। अर्थशब्दे

३६

७ पृ॰धनभेदादिकमुक्तं विशेषस्तु कश्चित् शुद्धित॰ उक्तो यथा
“धनं तु त्रिविधं ज्ञेयं शुक्लं शवलमेव च। कृष्णञ्च तस्यविज्ञेयो विभागः सप्तधा पृथकु। क्रमायातं प्रीतिदायं[Page3836-a+ 38] प्राप्तञ्च सह भार्य्यया। अविशेषेण सर्वेषां वर्णानां त्रि-विधं धनम्। वैशेषिकं धनं दृष्टं ब्राह्मणस्य त्रिलक्षणम्। याजनाध्यापने नित्यं विशुद्धाच्च प्रतिग्रहः। त्रिविधंक्षत्रियस्यापि प्राहुर्वैशेषिकं धनम्। युद्धार्थलब्धं करजंदण्ड्यबध्यापहारतः। वैशेषिकं धनं दृष्टं वैश्यस्यापित्रिलक्षणम्। कृषिगोरक्षबाणिज्यं शूद्रस्यैभ्यस्त्वनु-ग्रहात्। कुषीदकृषिबाणिज्यं प्रकुर्वीत स्वयकृतम्। आपत्काले स्वयं कुर्वन्नैनसा युज्यते द्विजः”। तामसादि-भेदेन तस्य त्रैविध्यं नारदेन उक्तं यथा
“पार्श्विकद्यूत-चौर्य्यार्त्तिप्रतिरूपकसाहसैः। व्याजेनोपार्जितं यत्तुतत् कृष्णं समुदाहृतम्”। पार्श्विकः पात्रतयायोऽर्जयति। आर्त्त्या परपीडया प्रतिरूपकेण कृत्रिम-रत्नादिना। साहसेन समुद्रयानगिर्य्यारोहणा-दिना। व्याजेन ब्राह्मणवेशेन शूद्रादिना। कृष्णंतामसम्। राजसधनं यथा
“कुसीदकृषिबाणिज्यशुल्क-गानानुवृत्तिभिः। कृतोपकारादाप्तञ्च राजसं समुदा-हृतम्”। अनुवृत्त्या सेवया। सात्विकधनं यथा।
“श्रुतशौर्य्यतपःकन्याशिष्ययाज्यान्वयागतम्। धनं सप्त-विधं शुद्धं मुनिभिः समुदाहृतम्”। श्रुतेनाध्ययनेनशौर्य्येण जयादिना। तपसा जपहोमदेवार्चादिना। कन्यागतं कन्यया सहागतं श्वशुरादेर्लब्धम्। शिष्यागतंगुरुदक्षिणादिना। याज्यागतं आर्त्विज्यलब्धम। शुद्धंसात्विकम्” शुद्धित॰ दृश्यम्।

५ युक्ते

६ योज्ये च
“स्वोच्चाप-कृष्टा भगणैः प्राङ्मुखं यान्ति यद्ग्रहाः। तत् तेषु धन-मित्युक्तमृणं पश्चान्मुखेषु तु” सू॰ सि॰।
“स्वोच्चजीवा-कर्षिता ग्रहाः पूर्वाभिमुखं भगणैः राशिभिर्भगोलस्थक्रान्तिवृत्तानुसृतस्वाकाशगोलान्तर्गतक्रान्तिवृत्ते द्वादश-राश्यन्तिके यद्राशिविभागैरित्यर्थः। यद्यत्सङ्ख्यामितंगच्छन्ति तत्तत्सङ्ख्यामितं भागादिकं फलरूपं तेषु पूर्वा-वगतग्रहराश्यादिभोगेषु धनं योज्यम्” रङ्ग॰।

७ लग्नात्द्वितीयस्थाने तत्र जन्मलग्नात् द्वितीयस्थाने चिन्त्यपदार्थाग्रहयोगभेदेन शुभाशुभं च जातकपद्धतावुक्तं यथा
“सुवर्णरत्नविक्रयक्रयाश्च कोशसंग्रहः। धनामिधान-मन्दिरे बुधैर्विचिन्त्य आदरात्। समस्तपापखेचरैर्युते-क्षितं धनाभिधम्। दरिद्रताविधायकं विशेषतः कृशा-नुना। शुद्धः शनिर्धनगतो धनिनं करोति दृष्टीयुधेन रविजान्यखगप्रदृष्टः। सूर्य्योऽपि, सौम्यखचराधनगा धनानि नानाविधानि न यदा खलदृष्टदेहाः। बुध-[Page3836-b+ 38] गुरुकवयश्चेद्वित्तगा वित्तलामं विदघति यदि दृष्टाः सोम-सौम्येन्दुपुत्रैः। क्रमश, इह कविश्चेत् सौम्यगेहे घ-नाप्त्यै भवति शुभखगानां दृष्टितो मानवस्य। क्षीणःशशी ज्ञेन विलोकितोऽर्थे पूर्वार्जितार्थस्य विनाशदःस्यात्। नवीनवित्तागमरोधकौ च धने कुजेन्दू त्वचिंदोषदौ स्तः। रविर्धनेऽत्यष्टिमिते कुजोऽङ्के षड्विंशके ज्ञेधननाशदः स्यात्। भाव्दे विधुः पीडनमङ्गिराश्च भूपे-ऽल्पतायाञ्च कविः षडव्दे। द्वितीयस्य पतिर्नेत्रखामीशुकमतादिह। सेन्दुशुक्रोऽष्टषष्ठान्त्यस्थितो रात्र्यान्ध्यकृच्च सः। ससूर्य्यः शुक्रलग्नेशो जात्यन्धत्वाय-कल्पते। एमिः पित्रादिभावेशैर्युक्तश्चेत्तत्तदान्ध्यकृत्। सशुक्रलग्नपश्चेत् स्यान्नेत्रयोर्वैपरीत्यकृत्। भावाधीशःशुभैर्युक्तः केन्द्रकोणे शुभप्रदः”। वर्षलग्नात् द्वितीयस्थग्रहयोगादिफलम् नी॰ ता॰ उक्तं यथा
“वित्ताधिपो जन्मनि बित्तगोऽव्दे जीवो यदा लग्न-पतीत्थशाली। तदा धनाप्तिः सकलेऽपि वर्षे क्रूरेशराफेधनधान्यहानिः। जन्मन्यर्थावलोकीज्योऽव्देऽव्देशोबलवान् यदा। तदा धनाप्तिर्बहुला विनायासेन जायते। एवं यद्भावगोजन्मन्यव्दे तद्भावगो गुरुः। लग्नेशे-नेत्थशाली चेत्तद्भावजसुखं भवेत्। यदा जनुषि यं पश्येत्भावमव्देऽव्दपो गुरुः। तदा तद्भावजं सौख्यमुक्तंताजकवेदिभिः। जन्मषष्ठाधिपः सौम्यः षष्ठोऽव्देस्वल्पलामदः। पापार्दिते गुरौ रन्ध्रेऽपवाद उपजायते। गुरुर्वित्ते शुभैर्दृष्टयुतो राज्यार्थसौख्यदः। जन्मन्यव्देच मुथहाराशिं पश्यन् विशेषतः। एवं सितेऽव्दपेभूरिधनं धान्यं च जायते। वित्तलग्नेशसंयोगो वित्तसौख्यफलप्रदः। एवं बुधे सवीर्य्येऽस्माल्लिपिज्ञानो-द्यमैर्धनम्। जन्मलग्नगताः सौम्या वर्षेऽर्थे धनलाभदाः। लाभसद्मनि वित्ते वा बुधेज्यसितसंयुते। तैर्वा दृष्टे धनंभूरि स्वकुले राज्यमाप्नुयात्। अर्थार्थसहमेशौ चेत्शुभैर्मित्रदृशेक्षितौ। बलिनौ सुखतो लाभप्रदौ यत्ना-दरेर्दृशा। मित्रदृष्ट्या मुथशिलेऽङ्गार्थयोः सुखतो धनम्। तयोर्भूशरिफे वित्तनाशदुर्जनभीतयः। जन्मनीज्योऽस्तियद्राशौ तद्राशिवर्षलग्नगः। शुभस्वामीक्षितयुतो नै-रुज्यस्वाम्यवित्तदः। सूतौ लग्ने रविर्वर्षे धनस्थो धन-सौख्यदः। शनौ वित्ते कार्य्यनाशो लाभोऽल्पोऽथ धन-व्ययः। भ्रातृसौख्यं गुरुयुते भूतयः स्युः शुभेक्षणात्। क्रूरयोगेक्षणात् सर्वं विपरीतं फलं वदेत्। वित्तेशो[Page3837-a+ 38] जन्मनि गुरुर्वर्षे वर्षेशतां दधत्। यद्भावगस्तमाश्रित्यलाभदो लग्नमात्मनः। वित्ते सुवर्णरौप्यादेः भ्रात्रादेःसहजर्क्षगः। पितृमातृक्षमादिभ्यो वित्तं सुहृदिपञ्चमे। सुहृत्तनयषष्ठेऽरिवर्गाद्धानिप्रभीतिदः। स्त्रीभ्योद्यूनेऽष्टमे मृत्युरर्थहेतुर्यशोऽङ्कगे। खे नृपादेर्नृप-कुलादायेऽन्त्ये व्ययदो भवेत्। इत्थं विमृश्य सुधियावाच्यमित्यपरे जगुः”। तद्भावानयनं द्वादशभावशब्दोक्त-दिशावसेयम्। वीजगणितोक्ते

८ ऋणभिन्ने च। तत्रधनर्णसङ्कलनादिप्रकारस्तत्रोक्तो यथा
“धनर्णसङ्कलने करणसूत्रं वृत्तार्द्धम् योगे युतिःस्यात्क्षययोः स्वयोर्वा धनर्णयोरन्तरमेव योगः। उदाहरणम्। रूपत्रयं रूपचतुष्टयं च क्षयं धनं वासहितं वदाशु। स्वर्णं क्षयं स्वं च पृथक् पृथङ्मेधनर्णयोः सङ्कलनामवैषि। अत्र रूपाणामव्यक्तानांचाद्याक्षराण्युपलक्षणार्थं लेख्यानि यानि ऋणगतानितान्यूर्द्ध्वविन्दनि च। न्यासः रू

३ ं रू

४ ं योगे जातं रू

७ ंन्यासः रू

३ रू

४ योगे जातं रू

७ न्यासः रू

३ रू

४ ं योगे जातं रू

१ ंन्यासः रू

३ ं रू

४ योगे जातं रू

१ एवं विभिन्नेष्वपि। धनर्णव्यवकलने करणसूत्रं वृत्ता-र्द्धम् संशोध्यमानं स्वमृणत्वमेति स्वत्वं क्षयस्तद्युति॰रुक्तवच्च। उदाहरणम्। त्रयाद्द्वयं स्वात् स्वमृणा-दृणं च व्यस्तं च संशोध्य वदाशु शेषम्। न्यासः रू

३ रू

२ अन्तरे जातं रू

१ न्यासः रू

३ ं रू

२ ं अन्तरे जातं रू

१ ंन्यासः रू

३ रू

२ ं अन्तरे जातं रू

१ ंन्यासः रू

३ ं रू

२ अन्तरे जातं रू

१ ं। इति धनर्णसङ्कलनव्यवकलने। गुणने करणसूत्रं वृत्तार्द्धम् स्वयोरस्वयोः स्वं धनस्वर्णघाते क्षयोभागहारेऽपि चैवं निरुक्तम्। उदाहरणम्। धनं धनेनर्णमृणेन निघ्नं द्वयं त्रयेण स्वमृ-णेन किं स्यात्”। न्यासः रू

२ रू

३ धनं धनघ्नं धनं स्वादिति जातंरू

६ न्यासः रू

२ ं रू

३ ं ऋणमृणघ्नं धनं स्यादितिजातं रू

६ न्यासः रू

२ रू

३ ं धनमृणगुणमृणंस्यादिति जातं रू

६ ं न्यासः रू

२ ं रू

३ ऋणं धनगुण-मृणं स्यादिति जातं रू

६ ं। इति धनर्णगुणनम्। [Page3837-b+ 38] भागाहारेऽपि चैवं निरुक्तमिति। उदाहरणम्। रूपा-ष्टकं रूपचतुष्टयेन धनं धनेनर्णमृणेन भक्तम्। ऋणंधनेन स्वमृणेन किं स्याद् द्रुतं वदेदं यदि बोबुधीषि। न्यासः रू

८ रू

४ धनं धनहृतं धनं स्यातितिजातं रू

२ । न्यासः रू

८ ं रू

४ ं ऋणमृणहृतंधनं स्यादिति जातं रू

२ न्यासः रू

८ ं रू

४ ऋणंधनहृतं ऋणं स्यादिति जातं रू

२ ं। न्यासः रू

८ रू

४ ं धनमृणहृतमृणं स्यादिति जातं रू

२ ं। इतिधनर्णभागहारः। बर्गे करणसूत्रं वृत्तार्द्धम्।
“कृतिःस्वर्णयोः स्वं स्वमूले धनर्णे, न मूलं क्षयस्यास्ति तस्याकृति-त्वात्। उदाहरणम्। धनस्य रूपत्रितयस्य वर्गंक्षयस्य च ब्रूहि सखे! ममाशु। न्यासः रू

३ रू

३ ंजातौ वर्गौ रू

९ रू

९ मूलोदाहरणम्। धनात्मका-नामधनात्मकानां मूलं नवानां च पृथग्वदाशु।

८ । न्यासः रू

९ मूलं रू

३ वा रू

३ ं न्यासः रू

९ ं एषा-मवर्गत्वान्मूलं नास्ति। धन--रवे अच्।

८ शब्दे च।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन¦ r. 1st cl. (धनति) To sound. r. 3rd cl. (दधन्ति) To bear or produce, (grain, &c.): restricted to the Ve4das. भ्वा० प० अक० सेट् | जुहो० |

धन¦ n. (-नं)
1. property of any description, thing, substance, wealth.
2. Wealth in cattle, property in herds.
3. A term of endearment
4. (In Algebra,) The affirmative quantity or plus. E. धन to pro- duce, (a crop,) affix अच्।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनम् [dhanam], [धन्-अच्]

Property, wealth, riches, treasure, money (gold, chattels &c.); धनं तावदसुलभम् H. 1; (fig. also) as in तपोधन, विद्याधन, &c.

(a) Any valued possession, an object of affection or endearment, dearest treasure; कष्टं जनः कुलधनैरनुरञ्जनीयः U.1.14; गुरोरपीदं धनमाहिताग्नेः R.2.44; मानधन, अभिमान˚ &c. (b) A valuable article; Ms.8.21,22.

Capital (opp. वृद्धि or interest).

A booty, prey, spoil.

The reward given to a victor in a combat, the prize won in a game.

A contest for prizes, a match.

The lunar mansion called धनिष्ठा

Surplus, residue.

(In math.) The affirmative quantity or plus (opp. ऋण).

A sound. -Comp. -अधिकारः right to property, right of inheriting property. -अधिकारिन् m.

अधिकृतः a treasurer.

an heir. -अधिगोप्तृ m.,

अधिपः, अधिपतिः, अध्यक्षः an epithet of Kubera; अनुचेरण धनाधिपते रथो नगविलोकनविस्मितमानसः (स जगदे) Ki.5.16. धना- धिपेन विद्धस्य अनुह्रादस्य संयुगे Hariv.; यदस्माकं धनाध्यक्षः प्रभूतं धनमाहरत् Mb.179.18.

अपहारः fine.

plunder. -अर्चित a.

honoured with gifts of wealth, kept contented by valuable presents; मानधना धनार्चिताः Ki.1.19.

wealthy, opulent. -अर्थिन् a. desiring or seeking for wealth, covetous, miserly. -आढ्य a. opulent, rich. -आदानम् acceptance of money; Ms.11.69.-आधारः a treasury. -आशा f. Desire for wealth; धनाशा जीविताशा च जीर्यतो$पि न जीर्यति Subhāṣ.

ईशः, ईश्वरः a treasurer.

an epithet of Kubera. -उष्मन् m.

warmth of wealth; cf. अर्थोष्मन्;

burning desire for wealth; Ms.9.231. -एषिन् m. a creditor who claims his money. -काम, -काम्य a. covetous, greedy. -केलिः an epithet of Kubera. -क्षयः loss of wealth; धनक्षये वर्धति जाठराग्निः Pt.2.178. -गर्व, -गर्वित a. purse-proud.-छूः the numidian crane. -जातम् all kinds of valuable possessions, aggregate property; सर्वेषां धनजातानामाददी- ताग्ऱ्यमग्रजः Ms.9.114. -द a. liberal.

(दः) a liberal or munificent man.

an epithet of Kubera; जिगमिषुर्ध नदाध्युषितां दिशम् R.9.25;17.8.

N. of fire.

= धनञ्जय (4) q. v. ˚अनुजः an epithet of Rāvaṇa; R.12.52.88.-दण्डः punishment in the shape of a fine. -दायिन् m. fire. -धानी treasury.

धान्यम् money and grain.

a spell for restraining certain magical weapons.

पतिः an epithet of Kubera; तत्रागारं धनपतिगृहानुत्तरेणास्मदीयम् Me.77,7.

= धनञ्जय (4) q. v.

पालः a treasurer.

an epithet of Kubera. -पिशाचिका, -पिशाची 'the demon of wealth', an avaricious desire of wealth, greed, avarice. -प्रयोगः usury. -मद a. purseproud. (-दः) pride of wealth. -मूलम् principal, capital.-लोभः avarice, cupidity.

व्ययः expenditure.

extravagance. -सूः f.

mother of daughters; L. D. B.

m. the forktailed shrike.

स्थानम् a treasury.

the second mansion from लग्न in a horoscope.

हरः an heir.

a thief.

a kind of perfume. -हार्य a. to be won over by wealth; वहसि हि धनहार्यं पण्यभूतं शरीरम् Mk.1.31;5.9. -हीन a. deprived of wealth, poor.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन n. the prize of a contest or the contest itself( lit. a running match , race , or the thing raced for ; हितंधा-नम्, a proposed prize or contest ; धनं-जि, to win the -pprize or the fight) RV.

धन n. booty , prey( धनम्-भृA1. , to carry off the prize or booty) RV. AV.

धन n. any valued object , ( esp. ) wealth , riches , (movable) property , money , treasure , gift RV. etc.

धन n. capital ( opp. to वृद्धिinterest) Ya1jn5. ii , 58

धन n. = गो-धनHariv. 3886

धन n. ( arithm. ) the affirmative quantity or plus ( opp. to ऋण, क्षय, व्यय, हानि)

धन n. N. of the 2nd mansion Var.

धन m. N. of a merchant HParis3. Sin6ha7s.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhana, ‘prize,’ is often found in the Rigveda,[] probably the prize in racing rather than the ‘booty’ in battle. It also denotes[] the ‘stake’ at dicing. In some passages it possibly means the ‘contest’ itself.[] More generally it denotes ‘wealth’ or ‘gift.’[] But it sometimes expresses ‘booty,’[] probably from the notion of ‘wealth’ rather than of ‘prize.’

  1. Rv. i. 81, 3;
    vi. 45, 2;
    viii. 80, 8;
    ix. 53, 2;
    109, 10. Cf. Geldner, Vedische Studien, 1, 120;
    Pischel, ibid., 1, 171.
  2. Rv. x. 34, 10;
    Av. iv. 38, 3.
  3. Rv. i. 31, 6;
    v. 35, 7;
    vii. 38, 8;
    viii. 5, 26;
    8, 21;
    49, 9;
    50, 9;
    x. 48, 5, etc.
  4. Rv. i. 42, 6;
    x. 18, 2;
    84, 7;
    Av. i. 15, 3;
    ii. 7, 4;
    iii. 15, 2;
    v. 19, 9;
    vi. 81, 1;
    vii. 81, 4;
    viii. 5, 16, etc.
  5. Rv. i. 74, 3;
    157, 2, etc.
"https://sa.wiktionary.org/w/index.php?title=धन&oldid=500447" इत्यस्माद् प्रतिप्राप्तम्