यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनदः, पुं, (धनं दयते पालयतीति । दे ङ पालने + “आतोऽतुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) कुबेरः । इत्यमरः । १ । १ । ७२ ॥ (यथा, देवीभागवते । ५ । ३ । ४० । “त्रिविष्टपं ग्रहीष्यामि जित्वेन्द्रं वरुणं यमम् । धनदं पावकञ्चैव चन्द्रसूर्य्यौ विजित्य च ॥” ब्रह्मा अस्य तपसा सन्तुष्ट एनं धनेशं चकार । यथा, अध्यात्मरामायणे । ७ । १ । ३८ । “ददौ तत्तपसा तुष्टो ब्रह्मा तस्मै वरं शुभम् । मनोऽभिलषितं तस्य धनेशत्वमखण्डितम् ॥”) हिज्जलवृक्षः । इति राजनिर्घण्टः ॥ (धनदः आश्रयित्वेनास्त्यस्येति अच् । हिमवत एक- देशः । यथा, महाभारते । १३ । १९ । १६ । “धनदं समतिक्रम्य हिमवन्तञ्च पर्व्वतम् ॥” धनं ददातीति । दा + कः ।) दातरि, त्रि । इति मेदिनी । दे, ३२ ॥ (यथा, कामन्दकीय- नीतिसारे । ३ । २३ । “उद्वेजयति भूतानिक्रूरवाक् धनदोऽपि सन् ॥”)

"https://sa.wiktionary.org/w/index.php?title=धनदः&oldid=142218" इत्यस्माद् प्रतिप्राप्तम्