यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाध्यक्षः, पुं, (धनानामध्यक्षः ।) कुवेरः । इति हलायुधः ॥ (यथा, अध्यात्मरामायणे । ७ । २ । ४७ । “ततः क्रुद्बो दशग्रीवो जगाम धनदालयम् । विनिर्जित्य धनाध्यक्षं जहारोत्तमपुष्पकम् ॥”) धनाधिकृतः । तहविलदार इति खाजाञ्चि इति च भाषा । तस्य लक्षणं यथा, -- “लोहवस्त्राजिनादीनां रत्नानाञ्च विधानवित् । विज्ञाता फलगुसाराणामनाहार्य्यः शुचिः सदा । निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्त्तितः ॥ आयद्बारेषु सर्व्वेषु धनाध्यक्षसमा नराः । व्ययद्बारेषु च तथा कर्त्तव्याः पृथिवीक्षिता ॥” इति मत्स्यपुराणे १८९ अः ॥

"https://sa.wiktionary.org/w/index.php?title=धनाध्यक्षः&oldid=142241" इत्यस्माद् प्रतिप्राप्तम्