यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्धरः, पुं, (धरतीति । धृ + अच् । धनुषो धरः ।) धनुर्धारी । तिरन्दाज इति भाषा । तत्पर्य्यायः । धन्वी २ धनुष्मान् ३ धानुष्कः ४ निषङ्गी ५ अस्त्री ६ तूणी ७ धनुर्भृत् ८ । इति हेमचन्द्रः । ३ । ४३५ ॥ (यथा, महाभारते । १ । १३४ । २७ । “प्रयतिष्ये तथा कर्त्तुं यथा नान्यो धनुर्धरः । तत्समो भविता लोके सत्यमेतत् ब्रवीमि ते ॥” स्वनामख्यातो धृतराष्ट्रस्य पुत्त्रविशेषः । यथा, महाभारते । १ । ११७ । ११ । “कवची निषङ्गी कुण्डी च कुण्डधारो धनुर्धरः ॥”)

"https://sa.wiktionary.org/w/index.php?title=धनुर्धरः&oldid=142265" इत्यस्माद् प्रतिप्राप्तम्