यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्याकम्, क्ली, (धन्यते भक्षार्थिभिरिति । धन + “पिनाकादयश्च ।” उणां ४ । १५ । इत्याकप्रत्ययेन निपातनात् साधुः ।) धनिया इति ख्यातं शस्यम् । तत्पर्य्यायः । छत्रा २ वितुन्नकम् ३ कुस्तुम्बुरु ४ । इत्यमरः । २ । ९ । ३८ ॥ धान्यकम् ५ धन्यम् ५ धनिकम् ७ धनीयकम् ८ कुस्तुम्बुरी ९ धान्या- कम् १० तुम्बुरु ११ धन्या १२ तुम्बुरी १३ धने- यकम् १४ । इति भरतधृतकोषान्तरम् ॥ धान- कम् १५ धान्यम् १६ धानेयम् १७ धनिका १८ छत्राधान्यम् १९ सुगन्धि २० शाकयोग्यम् २१ सूक्ष्मपत्रम् २२ जनप्रियम् २३ धान्यबीजम् २४ वीजधान्यम् २५ वेधकम् २६ । इति राज- निर्घण्टः ॥ कुलटी २७ धेनिका २८ धन्यकम् २९ धाना ३० धानेयकम् ३१ । इति भावप्रकाशः ॥ अस्य गुणाः । मधुरत्वम् । शीतत्वम् । कषा- यत्वम् । पित्तज्वरकासतृषाच्छर्दिकफनाशित्वम् । दीपनत्वञ्च । इति राजनिर्घण्टः ॥ स्निग्धत्वम् । वृष्यत्वम् । मूत्रलत्वम् । लघुत्वम् । तिक्तत्वम् । कटुत्वम् । वीर्य्यकारित्वम् । पाचनत्वन् । रोच- नत्वम् । ग्राहित्वम् । स्वादुपाकित्वम् । त्रिदोष- दाहश्वासामार्शःकृमिनाशित्वञ्च ॥ “आर्द्रन्तु तद्गुणं स्वादु विशेषात् पित्तनाशनम् ॥” इति भावप्रकाशः ॥ “शिलायां साधु संपिष्टं धान्यकं वस्त्रगालितम् । शर्करोदकसंमिश्रं कर्पूरादिसुसंस्कृतम् ॥ नवीने मृण्मये पात्रे स्थितं पित्तहरं परम् ॥” राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्याक¦ पु॰ धन्यते भक्षार्थिभिः पिन्याकादि॰ नि॰। (धनिया) ख्याते पदार्थे
“शिलायां साधुसम्पिष्टं धन्याकंवस्त्रगालितम्। शर्करोदकसम्मिश्रं कर्पूरादिसुसंस्कृतम्। नवीने मृण्मये पात्रे स्थितं पित्तहरं परम्” भावप्र॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्याक¦ n. (-कं) A plant, bearing a small pungent seed used by the Hindus as a condiment, (Coriandrum sativum.) E. धन to produce, (as grain,) deriv. irr. धन्यते भक्ष्यार्थिभिः | धनिया इति ख्याते पदार्थे |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्याकम् [dhanyākam], 1 A plant bearing a small pungent seed used as a condiment.

The seed of this plant (coriander).

"https://sa.wiktionary.org/w/index.php?title=धन्याक&oldid=325441" इत्यस्माद् प्रतिप्राप्तम्