यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्माधिकरण¦ न॰ धर्मोऽधिक्रियतेऽत्र अधि + कृ--आधारेल्युट्। नृपाणां तन्नियुक्तानाञ्च व्यवहारदर्शनयोग्ये

१ स्थानभेदे। तत्स्वरूपभेदादिकं वीरमि॰ उक्तं यथावृहस्पतिः
“दुर्गमध्ये गृहं कुर्य्याज्जलवृक्षान्वितं पृ-थक्। प्राग्दिशि प्राङ्मुखीन्तस्य लक्षण्याङ्कल्पयेत्स-भाम्। माल्यभूपासनोपेतां वीजरत्नसमन्विताम्”। ल-क्षण्यां वास्तुशास्त्रोक्तलक्षणेन तु लक्षिताम्। समायांधर्माधिकरणत्वं च
“धर्मशास्त्रानुसारेण अर्थशास्त्रविवे-चनम्। यत्राधिक्रियते स्थाने धर्माधिकरणं हि तदिति” उक्तेः। तत्र सभ्योपवेशनमाह मनुः”
“यस्मिन्देशेनिषीदन्तिविप्रा वेदविदस्त्रयः। राज्ञश्चाधिकृतोविद्वान् ब्राह्मणस्तांसभां विदुरिति” त्रय इत्युपलक्षणम्
“अधिकानामपिस्मृतत्वात्। तच्च वक्ष्यते। अधिकृतो विद्वान् प्राङ्-विवेकः। अत्र
“सभामेव प्रविशेत्” इत्यादि-वचनात् सभा मुख्यं व्यवहारदर्शनस्थानम्। अन्या-न्यमुख्यानि नानावचनादवगन्तव्यानि
“देशस्थानानिवादानां पञ्च चैवाब्रवीद्भृगुः। निर्णयं येन गच्छन्तिविवादं प्राप्य वादिनः। आरण्यास्तु स्वकैः कुर्य्युःसार्थिकाः सार्थिकैस्तथा। सैनिकाः सैनिकैरेव ग्रामे-ऽप्युभयवासिभिः। उभयानुमतञ्चैव गृह्यते स्थानमीप्-सितम्। कुलिकाः सार्थमुख्याश्च पुरग्रामनिवासिनः। ग्रामपौरगणश्रेण्यश्चातुर्विद्यश्च वर्गिणः। कुलानि कुलि-काश्चैव नियुक्ता नृपतिस्तथेति” स्वकैरारण्यकैःग्रामेऽपीत्यपिशब्दाद्ये ग्रामेऽरण्यादौ च निवसन्ति तेउभयवोसिभिर्निर्णयं कुर्य्युरुभयव्यवहाराभिज्ञत्वात्तेषाम्। कुलिकाः कुलश्रेष्ठाः। सार्थो ग्रामदेवयात्रादौ मिलितीजनसङ्घः तन्मुख्याः सार्थवाहादयः। पुरं मुख्यनगरम्। तस्मादर्वाचीनो ग्राम इति पुरग्रामनिवासिनोर्भेदः। कुलिकादीनि पञ्च स्थानानि तानि चारण्यकादीनामेवग्रामादीनि दश स्थानानि साधारणानि। ग्रामोग्रामाकारेणावस्थितोजनः। पौरः पुरवासिनां समूहः। श्रेण्यो रजकाद्या हीनजातयः। चातुर्विद्यः आन्वी-क्षिक्यादिविद्याचतुष्टयोपेतः। वर्गिणो गणप्रभृतयः”। तत् अर्हत्वेनास्त्यस्य अच्।

२ तत्र नियुक्ते प्राड्विवेकादीपु॰।
“समः शत्रौ च मित्रे च सर्वशास्त्रविशारदः। विप्र-मुख्यः कुलीनश्च धर्माधिकरणो भवेत्” मत्स्यपु॰
“पुरुषा-[Page3865-b+ 38] न्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः। धर्माधिकरणे कार्य्याजनाह्वानकरानराः इति मत्स्यपु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्माधिकरण¦ n. (-णं) A court of justice. m. (-णः) A judge. E. धर्म, and अधिकरण supervision. धर्मोऽधिक्रियते अत्र | अधि + कृ आधारे ल्युट् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्माधिकरण/ धर्मा n. administration or court of Justice Pan5c. (600387 -स्थानn. a law. court ib. )

धर्माधिकरण/ धर्मा m. a judge , magistrate MatsyaP.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--judges, generally Brahmanas. M. २१५. २४ and ३०; २१७. ११.

"https://sa.wiktionary.org/w/index.php?title=धर्माधिकरण&oldid=431385" इत्यस्माद् प्रतिप्राप्तम्