धार
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धारम्, क्ली, (धाराया इदम् । धारा + “तस्येदम् ।” ४ । ३ । १२० । इत्यण् ।) वर्षोद्भवं जलम् । तद्द्विविधम् । गाङ्गम् १ सामुद्रञ्च २ । यथा, -- “यदा स्यादाश्विने मासि सूर्य्यः स्वातीविशाखयोः । तदाम्बु जलदैर्मुक्तं गाङ्गमुक्तं मनीषिभिः ॥ अन्यदा मृगशीर्षादिनक्षत्रेषु यदम्बुदैः । अभिवृष्टमिदं तोयं सामुद्रमिति संज्ञितम् ॥” तयोर्गुणाः । यथा, -- “गाङ्गं जलं स्वादु सुशीतलञ्च रुचिप्रदं पित्तकफापहञ्च । निर्दोषमिष्टं लघु तच्च नित्यं गुणाधिकं व्योम्नि गृहीतमाहुः ॥ सामुद्रसलिलं शीतं कफवातकरं गुरु । चित्रायामाश्विने तच्च गुणाढ्यं गाङ्गवद्भवेत् ॥ पतितं भुवि तत्तोयं गाङ्गं सामुद्रमेव वा । स्वस्वाश्रयवशाद्गच्छेदन्यदन्यद्रसादिकम् ॥ इति राजनिर्घण्टः ॥
धारः, पुं, (धार्य्यते इति । धृ + णिच् + घञ् ।) ग्रावान्तरम् । ऋणम् । इति मेदिनी । रे, ५१ ॥ जलधरासारवर्षणम् । इति हेमचन्द्रः ॥ प्रान्तः । गम्भीरः । इति शब्दरत्नावली ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धार¦ न॰ धाराया इदम् अण्।
१ वर्षोद्भवजले दिव्यपानीयप्रभेदे। तद्गुणभेदादि भावप्र॰ उक्तं यथा
“धाराभिः पतितं तोयं[Page3885-b+ 38] गृहीतं स्फीतवाससा। शिलायां वसुधायां वा धौतायांपतितञ्च यत्। सौवर्णे राजते ताम्रे स्फाटिके काचनि-र्मिते। भाजने मृणमये वापि स्थापितं धारमुच्यते। धारंनीरं त्रिदोषघ्नमनिर्देश्यरसं लघु। सौम्यं रसायनं बल्यंतर्पणं ह्लादि जीवनम्। पाचनं मतिकृन्मूर्च्छा तन्द्रादाहश्रमक्लमान्। तृष्णां हरति तत् पथ्यं विशेषात् प्रावृषिस्मृतम्”। राजनि॰ तु अन्यथोक्तं यथा
“यदा स्यादाश्विनेमासि सूर्य्यः स्वातीविशाखयोः। तदाम्बुजलदैर्मुक्तं गाङ्ग-मुक्तं मनीषिभिः। अन्यदा मृगशीर्षादिनक्षत्रेषु यदम्बुदैः। अभिवृष्टमिदं तोयं सामुद्रमिति संज्ञितम्। तयोर्गुणाः।
“गाङ्गं जलं स्वादु सुशीतलञ्च रुचिप्रदं पित्तकफापहञ्च। निर्दोषमिष्टं लघु तच्च नित्यं गुणाधिकं व्योम्नि गृहीत-माहुः। सामुद्रं सलिलं शीतं कफवातकरं गुरु। चि-त्रायामाश्विने तच्च गुणाढ्यं गाङ्गवद्भवेत्। पतितं भुवितत्तोयं गाङं सामुद्रमेव वा। स्वस्वाश्रयवशाद्गच्छेदन्य-दन्यद्रसादिकम्”। धृ--णिच् अच्।
२ ग्रावान्तरे
३ ऋणेच मेदि॰ भावे अप्।
४ जलधारावर्षणे हेमच॰।
५ खड्गादेरन्तभागे
६ गम्भीरे पु॰ शब्दा॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धार¦ n. (-रं) Water derived from rain. m. (-रः)
1. A sort of stone.
2. Debt.
3. Slight sprinling rain.
4. Frost.
5. End, bound, a line or limit.
6. A deep place, a depth. f. (-रा)
1. A horse's pace, [Page369-b+ 60] as the trot, canter, &c.
2. The van of an army.
3. The sharp edge of a sword or any cutting instrument.
4. The flowing. running, oozing, or distilling &c. of any liquid, the motion of a fluid, stream, current, &c.
5. Offspring.
6. A leak, a flaw, a hole in pitcher &c.
7. Excellence.
8. The wheel of a carriage.
9. A garden wall or fence, a hedge, &c.
10. The edge of a mountain.
11. Quantity, multitude.
12. A heavy shower falling in large drops, or hail.
13. Fame.
14. Likeness.
15. Custom, usage.
16. The capital of BHOJA.
17. Pouring a stream of water upon an image to get rid of a fever. E. धृ to fall, to uphold &c. in the cansal form, and णिच् and अच् affs. धाराया इदम् अण् |
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धार [dhāra], a. [धृ-णिच्-अच्]
Holding, bearing, supporting; नमः स्त्रीरूपधाराय Mb.13.14.13.
Streaming, dripping, flowing.
रः An epithet of Visnu.
A sudden and violent shower of rain, sharp-driving shower.
Snow, hail.
A deep place.
Debt.
A boundary, limit.
A sort of stone.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धार mf( ई)n. ( धृ)holding , supporting , containing( ifc. ; See. कर्ण-, छत्त्र-, तुला-etc. )
धार m. N. of विष्णुL.
धार m. debt L.
धार m. or n. (1. धाव्)stream , gush(See. तैल-[add.] and तोय-)
धार mfn. coming down in a stream or as rain Sus3r. Bhpr.
धार m. a sort of stone L.
धार m. edge. boundary L. (See. 2. धारा)
धार m. deep place , depth W. (to 1. धार?).
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a son of Candra. वा. ६६. २३.
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
DHĀRA : A holy place. If one bathes in this holy place (Bath) his sorrows will be at an end. (M.B. Vana Parva, Chapter 84, Stanza 25).
_______________________________
*6th word in right half of page 223 (+offset) in original book.