यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारणम्, क्ली, (धृ + णिच् + भावे ल्युट् ।) विधा- रणम् । इति मेदिनी । णे, ५६ ॥ धरण इति भाषा ॥ (यथा, सुश्रुते । १ । ४६ । “तैक्ष्ण्याच्च निर्हरेदाशु कफं गण्डूषधारणात् ॥” पुं, कश्यपपुत्त्रो नागविशेषः । यथा, महा- भारते । ५ । १०३ । १६ । “विरजा धारणश्चैव सुबाहुर्मुखरो जयः ॥” धारयतीति । धृ + णिच् + ल्युः । धारके, त्रि । यथा, महाभारते । १२ । ३३५ । ५४ । “जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः । धारणाः सर्व्वलोकानां सर्व्वधर्म्मप्रवर्त्तकाः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारण¦ न॰ धारि--ल्युट्।

१ धरणे

२ विचारणे भावे युच्।

३ बुद्धिभेदे

४ राज्ञां न्यायपथस्थितो च स्त्री अमरः।

४ योगाङ्गभेदे स्त्री तल्लक्षणादिकं पात॰ सू॰ भा॰ उक्तं यथा
“योगाङ्गानुष्ठानन्तु द्विधैव कारणत्वं लभते इति योगा-ङ्गान्यवधार्य्यन्ते” भा॰
“यमनियमासनप्राणायामप्रत्याहार-धारणाध्यानसमाधयोऽष्टावङ्गानि” पा॰ सू॰।
“यथाक्रमंएतेषाम् अनुष्ठानं स्वरूपञ्च वक्ष्यामः” भा॰ इति उद्देश्यतेषां मध्ये पञ्चानां लक्षणानि पात॰ सू॰ समाधिपादेदर्शयित्वा धारणादेर्लक्षणानि विभूतिपादे उक्तानि तत्रधारणायाः लक्षणं दर्शितं यथा
“उक्तानि पञ्च बहि-रङ्गानि साधनानि धारणा वक्तव्या” भा॰ आभासः(
“देशबन्धश्चित्तस्य धारणा” पा॰ सू॰।
“नाभिचक्रे हृदयपुण्डरीके मूर्द्ध्नि ज्योतिषि नासिकाग्रेजिह्वाग्रे इत्येवमादिषु देशेषु वाह्ये वा विषये[Page3886-a+ 38] चित्तस्य वृत्तिमात्रेण बन्ध इति बन्धोधारणा” भा॰।
“प्रथमद्वितीयपादाभ्यां समाधिस्तत्साधनं चोक्तम्तृतीयपादे तत्प्रवृत्त्यनुगुणाः श्रद्धोत्पादहेतवो विभूतयोवक्तव्याः ताश्च संयमसाध्याः संयमश्च धारणाध्यानसमाधिसमुदाय इति विभूतिसाधनतया पञ्चभ्यश्चयोगाङ्गेभ्यो बहिरङ्गेभ्योऽस्याङ्गत्रयस्यान्तरङ्गतया वि-शेषज्ञापनार्थमत्र त्रयस्योपन्यासः तत्रापि च धारणा-ध्यानसमाधीनां कार्यकारणभावेन नियतपौर्वापर्यत्वा-त्तदनुरोधेनोपन्यासक्रम इति प्रथमं धारणा लक्षणीये-त्याह उक्तानीति देशेति” आध्यात्मिकदेशमाह। नाभि-चक्र इति। आदिशब्देन ताल्वादयो ग्राह्याः बन्धःसम्बन्धः। बाह्यदेशमाह बाह्यैति। बाह्ये च नस्वरूपेण चित्तस्य सम्बन्धः सम्भबतीत्युक्तं वृत्तिमात्रेणइति अत्रापि पुराणम्
“प्राणायामेन पबनं प्रत्या-हारेण चेन्द्रियम्। वशीकृत्य ततः कुर्याच्चित्तस्थानंशुभाश्रये” शुभाश्रया बाह्या हिरण्यगर्भवासवप्रजापतिप्रभृतयः इदञ्च तत्रोक्तम्।
“मूर्त्तं भगवतोरूपं सर्वोपा-श्रयनिष्पृहम्। एषा वै धारणा ज्ञेया यच्चितं तत्रधार्यते। तच्च मूर्त्तं हरेरूपं तद्विचिन्त्य नराधिप!। तत्श्रूयतामनाधारा धारणा नोपपद्यते। प्रसन्नवदनंचारु पद्मपत्रनिभेक्षणम्। सुकपोलं सुविस्तीर्णललाटफलकोज्वलम्। समकर्णान्तविन्यस्तचारुकुण्डलभूषणम्। कम्बुग्रीवं सुविस्तीर्णं श्रीवत्साङ्कितवक्षसम्। वलीवि-भङ्गिना मग्रनाभिना चोदरेण च। प्रलम्बाष्टभूजं विष्णुमथ वापि चतुर्भुजम्। समस्थितोरुजङ्घञ्च स्वस्तिकाङ्घ्रिकराम्बुजम्। चिन्तयेद् ब्रह्मभूतं तं पीतनिर्मलवाससम्। किरीटहारकेयूरकटकादिविभूषितम्। शार्ङ्गचक्रगदा-खड्गशङ्खाक्षवलयान्वितम्। चिन्तयेत्तन्मयो योगीसमाधायात्ममानसम्। तावत् यावत् दृढीभूता तत्रैवनृप! धारणा। एतदातिष्ठतोऽन्यद्वा स्वेच्छया कर्मसर्वतः। नापयाति यदा चित्तं सिद्धां मन्येत तांतदेति” विवृतिः। सां॰ सूत्रोक्ते पूरणरेचककुम्भकाख्यप्राणनिरोधरूपे चित्त-वशीकरणे

५ प्राणायामभेदे च। यथा
“ध्यानस्यापि सा-धनान्याह” भा॰
“धारणामनस्वकर्मणा तत्सिद्धिः” सां॰ सू॰
“वक्ष्यमाणेन धारणादित्रयेण ध्यानं भवतीत्यर्थः। धार-णादित्रयं क्रमात् सूत्रत्रयेण लक्षयति।
“निरोधश्छर्दि-विधारणाभ्याम्” सू॰
“प्राणस्येति प्रसिद्ध्या लभ्यते। [Page3886-b+ 38] प्रच्छर्दनविधारणाभ्यां वा प्राणस्येति योगसूत्रे भाष्य-कारेण प्राणायामस्य व्याख्यातत्वात्। छर्दिश्च वम-नम्। विधारणं त्याग इति यावत्। तेन पूरणरेचनयोर्लाभः। धारणञ्च कुम्भकम्। तथा च प्राणस्यपूरकरेचककुम्भकैर्यो निरोधो वशीकरणं सा धारणे-त्यर्थः। आसनादेः स्वशब्देन पश्चाल्लक्षणीयतया-सूत्रे परिशेषत एव धारणायालक्ष्यत्वलाभाद्धारणापदंनोपात्तम्। चित्तस्य धारणा तु समाधिवद्ध्यानशब्दे-नैव गृहीतेत्युक्तम्” प्र॰ भा॰।
“धारयेत्तत्र चात्मानं धारणां धारयन् बुधः” याज्ञ॰प्राणायमविशेषरूपस्य धारणात्मकत्वमुक्तम् व्याख्यातञ्चैतत्
“तत्र च हृद्यात्मानं मनीगोचरतया धारयेत्। तथाधारणाञ्च धारयेद्धारणास्वरूपञ्च जान्वग्रभ्रमणेन छो-टिकादानकालोमात्रा ताभिः पञ्चदशमात्राभिरधमः प्रा-णायामस्त्रिंशद्भिर्मध्यमः। पञ्चचत्वारिशद्भिरुत्तम इत्ये-वम्प्राणायामत्रयात्मिकैका धारणा। तास्तिस्रो योगशब्द-वाच्यास्तांश्च धारयेत्। यथोक्तमन्यत्र
“संभ्राम्य छोटि-कान्दद्यात्कराग्रञ्जानुमण्डले। मात्राभिः पञ्चदशभिः प्रा-णायामोऽधमः स्मृतः। मध्यमोद्विगुणः श्रेष्ठस्त्रिगुणो-धारणा तथा। त्रिभिस्त्रिभिः स्मृतैकैका ताभिर्योगस्तथैवचेति”। धारणात्मकयोगाभ्यासे प्रयोजनमाह
“अन्त-र्द्धानं स्मृतिः कान्तिर्दृष्टिः श्रोत्रज्ञता तथा। निजंशरीरमुत्सृज्य परकायप्रवेशनम्। अर्थानाञ्छन्दतःसृष्टिर्योगसिद्धेश्च लक्षणम्। सिद्धे योगे त्यजन्देहममृत-त्वाय कल्पते” मिताक्षरा कृता। वह्निपु॰ धारणास्वरूपभेदादिकमन्यथोक्तं यथाअग्निरुवाच
“धारणा मनसोध्येये संस्थितिध्यनिवद्-द्विधा। मूर्त्तामूर्त्तहरिध्यानं मनोधारणतो हरौ। यद्बाह्यावस्थितं लक्ष्यं तस्मान्न चलते मनः। तावत्कालं प्रदेशेषु धारणा मनसि स्थितिः। कालाबधिपरिच्छिन्नं देहे संस्थापितं मनः। न प्रच्यवति यल्ल-क्ष्याद्धारणा साऽभिधीयते। धारणा द्वादशायामा ध्यानंद्वादश धारणाः। ध्यानं द्वादशकं यावत्समाधिरभिधी-यते। धारणाभ्यासयुक्तात्मा यदि प्राणैर्विमुच्यते। कुलै-कविंशमुत्तार्य्य स्वर्य्याति परमं पदम्। यस्मिन् यस्मिन्भवेदङ्गे योगिनां व्याधिसम्भवः। तत्तदङ्गं धिया व्याप्यधारयेत्तत्त्वधारणम्। आग्नेयी वारुणी चैव ऐशानीचामृतात्मिका। साग्निः शिखा फडन्ता च विष्णोः[Page3887-a+ 38] कार्या द्विजोत्तम!। नाडीभिर्विकटं दिव्यं शूलाग्रंवेधयेच्छुभम्। पादाङ्गुष्ठात् कपालान्तं रश्मिमण्डल-मावृतम्। तिर्य्यक् चाधोर्द्धभागेभ्यः प्रयान्त्योऽतीवतेजसा। चिन्तयेत् साधकेन्द्रस्तं यावत् सर्वं महामुने!। भस्मीभूतं शरीरं स्वन्ततश्चैवोपसंहरेत्। शीतश्लेष्मादयस्तापा विनश्यन्ति द्विजाऽसमाः। शिरोग्रीवाकरे चैवकण्ठे चोरोमुखे स्मरेत्। ध्यायेदच्छिन्नचित्तात्मा पयोभूतेन चात्मना। स्फुरच्छोकरसंस्पर्शप्रभूते हिमगा-म्बुभिः। धाराभिरखिलं विश्वमापूर्य्य भुवि चिन्तयेत्। ब्रह्मरन्ध्राच्च संक्षोमाद्यावदाधारमण्डलम्। सुषुम्णान्त-र्गतो भूत्वा संपूर्णेन्दुकृतालयम्। संप्लाव्य हिमसंस्पर्श-तोयेनामृतमूर्त्तिना। क्षुत्पिपासाक्रमप्रायसन्तापपरिपी-डितः। धारयेद्वारुणीं मन्त्री तुष्ट्यर्थं चाप्यतन्त्रितः। वारुणी धारणा प्रोक्ता ऐशानीं घारणां शृणु। व्योम्निब्रह्ममये पद्मे प्राणापाने क्षयङ्गते। प्रसादं चिन्तयेद्विष्णोर्यावच्चिन्ता क्षयं गता। महातारञ्जपेत् सर्वं ततोव्यापक ईश्वरः। अर्द्धेन्दुं परमं शान्तं निराभास-न्निरञ्जनम्। असत्यं सत्यमाभाति तावत्सर्वं चरा-चरम्। यावत् स्वस्यन्दरूपन्तु न दृष्टं गुरुवक्त्रतः। दृष्टे तस्मिन् परे तत्त्वे आब्रह्म सचराचरम्। प्रमा-तृमानमेयञ्च ध्यानहृत्पद्मकल्पनम्। मातृमोदनकृत् सर्वंजपहोमार्चनादिकम्। विष्णुमन्त्रेण वा कुर्य्यादमृतांधारणां वदेत्। संपूर्णेन्दुनिभं ध्यायेत् कमलं तत्त्रिमू-र्त्तिकम्। शिरःस्थं चिन्तयेद् यत्राच्छशाङ्कायुतवर्चसम्। सम्पूर्णमण्डलं व्योम्नि शिवकल्लोलपूर्णितम्। तथा हृत्-कमले ध्यायेत्तन्मध्ये स्वतनुं स्मरेत्। साधको विगतक्लेशोजायते घारणादिभिः”।

३७

४ अ॰। काशीख॰

४२ अ॰ विशेषोऽत्रोक्तो यथा
“प्राणायामद्विषट्केन प्रत्याहार उदाहृतः। प्रत्या-हारैर्द्वादशभिर्धारणा परिकीर्त्तिता। भवेदीश्वरसङ्गत्यैध्यानं द्वादशधारणम्”
“प्रत्याहारेण सम्पन्नो धारणा-मथ चाभ्यसेत्। हृदये पञ्चभूतानां धारणं यत् पृथक्पृथक्। मनसो निश्चलत्वेन धारणा साऽभिधीयते। हरितालनिभां भूमिं सालङ्कारां समेधसम्। चतुष्कोणांहृदि ध्यायेदेषा स्यात् क्षितिधारणा। कण्ठेऽम्बुतत्त्वमर्द्धेन्दुनिभं विष्णुसमन्वितम्। वकारवीजंकुन्दाभं ध्यायेन्नम्बु जयेदिति। तालुस्थमिन्द्रगोपाभं त्रि-कोणं रेफसंयुतम्। रुद्रेणाधिष्ठितं तेजोध्यात्वा वह्निं[Page3887-b+ 38] जयेदिति। वायुतत्त्वं भ्रुवोर्मध्ये वृत्तमञ्जनसन्निभम्। यं वीजमीशदैवत्यं ध्यायेद्वायुं जयेदिति। आकाशञ्चमरीचिधारसदृशं यद्व्रह्मरन्ध्रस्थितं यन्नाथेन सदाशिवेनसहितं शान्तं हकाराक्षरम्। प्राणं तत्र विलीय पञ्च-घटिकं चित्तान्वितं धारयेदेषा मोक्षकपाटनपटुः प्रोक्तानभोधारणा। स्तम्भनी प्लावनी चैव शोधनी भामनीतथा। शमनी च भवन्त्येता भूतानां पञ्च धारणाः” वृ॰ सं॰ उक्ते जलसूचके वायुविशेषधारणाद्यात्मके

६ योगभेदेच
“ज्यैष्ठसितेऽष्टम्याद्याश्चत्वारो वायुधारणादिवसाः। मृदुशुभपवनाः शस्ताः स्निग्धवनस्थगितगगनाश्च। तत्रैवस्वात्याद्ये वृष्टे भचतुष्टये क्रमान्मासाः। श्रावणपूर्वाज्ञेयाः परिस्रुता धारणास्ताः स्युः। यदि ताः स्युरेक-रूपाः शुभास्ततः सान्तरास्तु न शिवाय। तस्करभयदाःप्रोक्ताः श्लोकाश्चाप्यत्र वासिष्ठाः। सविद्युतः सपृषतःसपांशूत्करमारुताः। सार्कचन्द्रपरिच्छन्ना धारणाः। शुभ-धारणाः। यदा तु विद्युतः श्रेष्ठाः शुभाशाप्रत्युप-स्थिताः। तदापि सर्वसस्यानां वृद्धिं ब्रूयाद्विचक्षणः। सपांशुवर्षाः सापाश्च शुभा बालक्रिया अपि। पक्षिणांसुखरा वाचः क्रीडा पांशुजलादिषु। रविचन्द्रपरि-वेषाः स्निग्धा नात्यन्तदूषिताः। वृष्टिस्तदापि विज्ञेयासर्वसस्याभिवृद्धये। मेघाः स्निग्धा संहताश्च प्रदक्षिणगति-क्रियाः। तदास्यान्महती वृष्टिः सर्वसस्यार्थसाधिका”

२२ अ॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारण¦ n. (-णं) Holding, having, keeping, maintaining. f. (-णा)
1. Con- tinuance in rectitude, keping in the right way.
2. Fortitude, firmness, steadiness, resolution.
3. A particular religious exercise; keeping the mind collected, the breath suspended, and all natural wants restrained; steady, immoveable abstraction.
4. Mental re- tention, memory.
5. Understanding, intellect.
6. Believing, con- viction.
7. Certainty, conclusion.
8. Positive precept or injunction.
9. Debt. f. (-णी)
1. Any tubular vessel of the body.
2. A mystical verse or charm, or collection of such verses, among the Baudd'has
3. A row or line. E. धृ to hold, (purpose, intent, virtue, &c.) affix ल्युट् or भावे युच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारण [dhāraṇa], a. (-णी f.) [धृ-णिच्-ल्युट्] Holding, bearing, carrying, preserving, sustaining, protecting, having, assuming, &c. -णौ (du.) The two female breasts.

णम् The act of holding, bearing, supporting, preserving or keeping back.

Possessing, possession.

Observing; holding fast.

Retaining in the memory; ग्रहणधारणपटुर्बालकः.

Being indebted (to any one).

Steady abstraction of the mind.

Keeping, maintaining.

Restraining.

(In gram.) Pronouncing imperfectly.

णी A row or line.

A vein or tubular vessel.

Steadiness.

A mystical verse or charm to assuage pain. -Comp. -अध्ययनम् The conservative method of reading (opp. to ग्रहणाध्ययन). -मातृका One of the 64 arts. -यन्त्रम् a kind of amulet.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारण mf( ई)n. holding , bearing , keeping (in remembrance) , retention , preserving , protecting , maintaining , possessing , having( ifc. or with gen. ) TA1r. MBh. Sus3r. : BhP.

धारण mf( ई)n. assuming the shape of( gen. ) , resembling MBh. xiii , 739

धारण m. N. of शिवMBh.

धारण m. of a son of कश्यपib.

धारण m. of a prince of the चन्द्रवत्सs ib.

धारण m. du. the two female breasts L.

धारण n. the act of holding , bearing etc. S3Br. Mn. Ya1jn5. MBh. etc.

धारण n. wearing(See. लिङ्ग-)

धारण n. suffering , enduring R.

धारण n. keeping in remembrance , memory TA1r. Mn. MBh. Hariv. : immovable concentration of the mind upon( loc. ) Veda7ntas.

धारण n. restraining(See. श्वास-)

धारण n. keeping back i.e. pronouncing imperfectly Pra1t.

धारण f( आand ई). See. धारणाand णी.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhāraṇa : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 16, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*3rd word in left half of page p32_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhāraṇa : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 16, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*3rd word in left half of page p32_mci (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारण न.
(धृ+णिच्+ल्युट्) पवित्र अगिन् का संरक्षण, अगिन् को जलते हुए रखना, का.श्रौ.सू. 4.8.11 (रात्रिं जागरणधारणे)।

"https://sa.wiktionary.org/w/index.php?title=धारण&oldid=500477" इत्यस्माद् प्रतिप्राप्तम्