यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमकेतुः, पुं, (धूमः केतुश्चिह्नं यस्य ।) अग्निः । (यथा, महाभारते । १ । १०३ । १७ । “प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्मताम् ॥”) उत्पातविशेषः । स धूमाभा तारका । इत्यमर- भरतौ ॥ (यथा, कुमारे । २ । ३२ । “भवल्लब्धवरोदीर्णस्तारकाक्षो महासुरः । उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ॥”) ग्रहभेदः । इति विश्वः ॥ * ॥ केतवश्च शिखा- वन्ति ज्योतींषि स्थिराण्युत्पातरूपाणि । तदु- दये कालाशुद्धिर्यथा, -- “धूमकेतौ समुत्पन्ने ग्रहणे चन्द्रसूर्य्ययोः । ग्रहाणां सङ्गरे चैव न कुर्य्यान्मङ्गलक्रियाम् ॥ उल्कापाते च त्रिदिनं धूमे पञ्च दिनानि च । वज्रपाते दिनञ्चैकं वर्ज्जयेत् सर्व्वकर्म्मसु ॥” इति गर्गवचनम् ॥ भोजराजः । “ग्रहे रवीन्दोर्द्धरणीप्रकम्पे केतूद्गमोल्कापतनादिदोषे । व्रते दशाहानि वदन्ति तज्ज्ञा- स्त्रयोदशाहानि वदन्ति केचित् ॥” वज्रकेतूद्गमोत्पाते ग्रहणे चन्द्रसूर्य्ययोः । प्रयाणन्तु त्यजेत् क्षत्त्रः सप्तरात्रमतःपरम् ॥ ब्राह्मणः क्षत्त्रियो वैश्यस्त्यजेत् कर्म्म त्रिरात्रकम् । शूद्रस्त्यक्त्वा चैकरात्रं सर्व्वकर्म्म समाचरेत् ॥” इति मलमासतत्त्वम् ॥ अथ केतूनां संस्थानम् । “शतमेकाधिकमेके सहसमपरे वदन्ति केतूनाम् । बहुरूपमेकमेव प्राह मुनिर्नारदः केतुम् ॥” तथा च पराशरः । “शतमेकोत्तरं केतूनां भवन्ति तेषां षोडश मृत्युनिश्वासजाः । द्वादशादित्य- सम्भवाः । दश दक्षमखविलयने रुद्रक्रोधजाः । सप्त पैतामहाः । पञ्चदश वर्षे वौद्दालिकस्य पुत्त्राः । सप्तदश मरीचिकश्यपललाटजाः । पञ्च च प्राजापतिसहजाः । त्रयो विभाव- सुजाः । धूमोद्भवश्चैकः । चतुर्द्दश मथ्यमाने- ऽमृते सोमेन सह सम्भूताः । एकस्तु ब्रह्म- कोपजः ॥” * ॥ गर्गादयः सहस्रं वदन्ति । तथा च गर्गः । “अमित्योदयचाराणामशुभानाञ्च दर्शनम् । आगन्तॄणां सहस्रं स्याद्ग्रहाणां संनिबोध मे ॥” नारदाख्यो मुनिरेकमेव केतुं बहुरूपं प्राह । यथा, -- “दिव्यान्तरीक्षभौमस्थ एकः केतुः प्रकीर्त्तितः । शुभाशुभफलं लोके ददात्यस्तमयोदये ॥” तत्र धूमकेतुलक्षणम् । “उक्तविपरीतरूपो न शुभकरो धूमकेतुरुत्पन्नः । इन्द्रायुधानुकारी विशेषतो द्वित्रिचूलो वा ॥” “ह्रस्वतनुः प्रसन्न इत्यस्मादुक्तात् यो विपरीतो विशेषतः शक्रचापरूपकेतुरुत्पन्नः स धूमकेतुः स च न शुभकरः पापं करोतीत्यर्थः इन्द्रधनुः- सदृशो न शुभकर एव तथा द्बिशिखस्त्रि- शिखश्च विशेषतः पापफलदः । तथा च समय- संहितायाम् । अचिरस्थितोऽतिवृष्टस्त्वस्तमितः स्निग्धमूर्त्तिरुदगुदितः । ह्नस्वतनुः प्रसन्नः केतु- र्लोकस्याभावाय न शुभो विपरीतोः विशेषतः शक्रचापसङ्काशः । द्वित्रिचतुश्चूलो वा दक्षिण- संस्थश्च मृत्युकरः ।” इति भट्टोत्पलकृतवराह- संहिताटीका ॥ (अश्वविशेषः । यथा, नकुल- कृताश्ववैद्यके । ४ । २६ । “पुच्छदेशे यदावर्त्तो वाजिनः संप्रदृश्यते । धूमकेतुरिति ख्यातः स त्याज्यो दूरतो नृपैः ॥” तथाच युक्तिकल्पतरौ । “पृष्ठवंशे यदावर्त्त एकः संपरिलक्ष्यते । धूमकेतुरिति ख्यातः स त्याज्यो दूरतो नृपैः ॥” महादेवः । यथा, महाभारते । १३ । १७ । १०३ । “धन्वन्तरिर्धूमकेतुस्कन्दो वैश्रवणस्तथा ॥”)

"https://sa.wiktionary.org/w/index.php?title=धूमकेतुः&oldid=142805" इत्यस्माद् प्रतिप्राप्तम्