यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नकुलीशः, पुं, (नकुल्या ईशः ।) भैरवविशेषः । यथा, पीठमालायाम् । “नकुलीशः कालिपीठे दक्षपादाङ्गुली मम ॥” हकारः । यथा, -- “हकारो नकुलीशोऽपि हंसः प्राणोऽङ्कुशः प्रिये ! । महेशो नकुली चैव वराहो गगनं रविः ॥ लिङ्गं शून्यो महाशून्यः प्राणश्च परमेश्वरि ! ॥” इति हकारपर्य्याये बीजाभिधानम् ॥

"https://sa.wiktionary.org/w/index.php?title=नकुलीशः&oldid=143094" इत्यस्माद् प्रतिप्राप्तम्