यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रनेमिः पुं, (नक्षत्रस्य नक्षत्रचक्रस्य नेमि- रिव ।) विष्णुः । यथा, (महाभारते । १३ । १४९ । ६० । “नक्षत्रनेमिर्न्नक्षत्री क्षमः क्षामः समीहनः ॥” “नक्षत्रैस्तारकैः सार्द्धं चन्द्रसूर्य्यादयो ग्रहाः । वाय्वाकाशमयैर्बद्धैर्न्निबद्धा ध्रुवसंज्ञितैः ॥ स ज्योतिषां चक्रं भ्रामयंस्तारामयस्य शिशु- मारस्य पुच्छदेशे ध्रुवस्तस्य शिशुमारस्य हृदये ज्योतिश्चक्रस्य नेमिवत् प्रवर्त्तकः स्थितो विष्णु- रिति नक्षत्रनेमिः शिशुमारवर्णने विष्णुहृदय- मिति श्रुतेः ॥” इति शाङ्करभाष्यम् ॥) चन्द्रः । ध्रुवः । रेवत्यां स्त्री । इति मेदिनी । मे, ६३ ॥

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रनेमिः&oldid=143124" इत्यस्माद् प्रतिप्राप्तम्