यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रपुरुषः, पुं, (नक्षत्रैः पुरुष इव ।) व्रत- विशेषः । यथा, -- “श्रूयतां कथयिष्यामि नक्षत्रपुरुषव्रतम् । नक्षत्राङ्गाणि देवस्य यानि यानीह नारद ! ॥ मूलर्क्षं चरणौ विष्णोर्जङ्घे द्वे रोहिणी स्थिता । द्वे जानुनी तथाश्विन्यौ संस्थिते रूपधारिणः ॥ आषाढे द्वे तथा चोरू गुह्यस्थं फल्गुनीद्वयम् । कटिस्थाः कृत्तिकाश्चैव वासुदेवस्य संस्थिताः ॥ प्रोष्ठपद्यद्वयं पार्श्वं कुक्षिभ्यां रेवती स्थिता । उरःसंस्था त्वनुराधा श्रविष्ठा पृष्ठसंस्थिता ॥ विशाखा भुजयोर्हस्तः करद्बयमुदाहृतम् । पुनर्व्वसुरथाङ्गुल्यो नखाः सर्व्वं तथोच्यते ॥ ग्रीवास्थिता तथा ज्येष्ठा श्रवणः कर्णयोः स्थितः । मुखसंस्थस्तथा पुष्यः स्वातिर्द्दन्ताः प्रकीर्त्तिताः ॥ हनू द्वे वारुणश्चोक्तो नासा पैत्र्यमुदाहृतम् । प्राजापत्यञ्च नेत्राभ्यां रूपद्याम्नः प्रतिष्ठितम् ॥ शिरो रौद्रस्तथा चैव नक्षत्राङ्गमिदं हरेः । विधानं संप्रवक्ष्यामि यथायोगेन नारद ! ॥ संपूजितो हरिः कामान् विदधाति यथेप्सितान् । चैत्रे मास्यसिताष्टम्यां यदा मूलगतः शशी ॥ भगवन्तं सह लक्ष्म्या पूजयेच्च विधानतः । नक्षत्रसन्निधौ दद्याद्बिप्रेन्द्राय च भोजनम् ॥ जानुनी चाश्विनीयोगे पूजयेदथ भक्तितः । दोहदे च हविष्यान्नं पूर्ब्बवद्द्बिजभोजनम् ॥ आषाढाभ्यां तथा द्बाभ्यां द्वावूरू पूजयेद्बुधः । सलिलं शिशिरं तत्र दोहदे च प्रकीर्त्तितम् ॥ फल्गुनीद्वितये गुह्यं पूजनीयं विचक्षणः । दोहदे च पयो गव्यं देयञ्च द्विजभोजनम् ॥ कृत्तिकासु कटिः पूज्या सोपहारैर्ज्जितेन्द्रियैः । देयञ्च दोहदे विष्णोः सुगन्धिकुसुमोदकम् ॥ पार्श्वे भाद्रपदायुग्मे पूजयित्वा विधानतः । गुडं सशालिकं दद्याद्दोहदे देवप्रीतिदम् ॥ द्बे कुक्षी रेवतीयोगे दोहदे शुद्धमोदकम् । अनुराधासु जठरं कुलत्थांस्तत्र दोहदे ॥ श्रविष्ठायां तथा पृष्ठं शालिभक्तञ्च दोहदे । पुष्ये मुखं पूजयेत दोहदे घृतपायसम् ॥ स्वातियोगे च दशनान् दोहदे तिलशक्तुनी । भुजयुग्मं विशाखासु दोहदे परमोदनम् ॥ हस्ते हस्तौ तथा पूज्यौ यावकं दोहदे स्मृतम् । पुनर्व्वसावङ्गुलीश्च पटोलं तत्र दोहदे ॥ दातव्यं केशवप्रीत्यै ब्राह्मणस्य च भोजनम् । हनू शतभिषायां वै पूजयेत्तु प्रयत्नतः ॥ प्रियङ्गुरक्तशाल्यन्नं दोहदञ्च मधुद्विषः । मघासु नासिका पूज्या मधु दद्याच्च भोजनम् मृगोत्तमाङ्गे नयने मृगमांसञ्च दोहदे । चित्रायोगे ललाटञ्च दोहदे चारु भोजनम् ॥ भरणीषु शिरः पूज्यं चारु भक्तञ्च दोहदे । सम्पूजनीया विद्बद्भिरार्द्रायोगे शिरोरुहाः ॥ विप्रांश्च भोजयेद्भक्त्या दोहदे च गुडार्द्रकम् । नक्षत्रयोगेष्वेतेषु संपूज्य जगतः पतिम् ॥ ततस्तु दक्षिणां दद्यात् स्त्रीपुंसोश्चारु वाससम् छत्रोपानद्युगञ्चैव सप्त धान्यानि काञ्चनम् ॥ घृतपात्रञ्च गां दोग्ध्रीं ब्राह्मणाय निवेदयेत् । प्रतिनक्षत्रयोगेन पूजनीया द्विजातयः ॥ नक्षत्रज्ञाय विप्राय पृथग्दद्याच्च दक्षिणाम् । नक्षत्रपुरुषाख्यं हि व्रतानां व्रतमुत्तमम् ॥ एवं विधानतो ब्रह्मन् ! नक्षत्राङ्गो जनार्द्दनः । पूजितो रूपधारी यैस्तैः प्राप्ता च सुकामिता ॥ एतत्तवोक्तं परमं पवित्रं धन्यं यशस्यं शुभरूपदायि । नक्षत्रपुंसः परमं विधानं शृणुष्व पुण्यामिह तीर्थयात्राम् ॥” इति वामनपुराणे ७७ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रपुरुषः&oldid=143128" इत्यस्माद् प्रतिप्राप्तम्