सम्स्कृतम् सम्पाद्यताम्

नामम् सम्पाद्यताम्

नखम्

തർജ്ജമകൾ सम्पाद्यताम्

  • आम्गलम्: nail नॆयिल्
  • तमिल्: நகம் (उच्चारणम्: नकम्)
  • मलयालम्- നഖം-नखम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखम्, क्ली, पुं, (नह्यते इव शरीरे । नह बन्धे + “नहेर्हलोपश्च ।” उणां ५ । २३ । इति खः हलोपश्च ।) अङ्गुलीकण्टकः । नह इति हिन्दी भाषा । तत्तु उपधातुविशेषः गर्भस्थ- बालकस्य षष्ठमासे भवति । इति सुखबोधः ॥ तत्पर्य्यायः । पुनर्भवः २ कररुहः ३ नखरः ४ इत्यमरः । २ । ६ । ८३ ॥ कामाङ्कुशः ५ करजः ६ पाणिजः ७ अङ्गुलीसम्भूतः ८ पुनर्नवः ९ । इति राजनिर्घण्टः ॥ कराग्रजः १० करकण्टकः ११ स्मराङ्कुशः १२ रतिरथः १३ करचन्द्रः १४ कराङ्कुशः १५ । इति शब्दरत्नावली ॥ * ॥ रतिक्रीडायां नखाघातस्थानानि यथा, -- “नखाघातः प्रदातव्यो यथास्थानानि कर्म्मसु । पार्श्वयोः स्तनयोश्चैव ऊरौ चैव नितम्बके ॥ कक्षस्थले च कर्णान्ते कपाले बाहुमूलके । ग्रीवायां कण्ठदेशे च नखाघातं समाचरेत् ॥ तथा सर्व्वशरीरेषु नखं दद्यात् शनैः शनैः ॥” इति कामशास्त्रम् ॥ “न नखैर्विलिखेद्भूमिं गाञ्च सद्वेशयेन्नहि । न स्वाङ्गे नखवाद्यं वै कुर्य्यान्नाञ्जलिना पिबेत् ॥” इति कूर्म्मे उपविभागे १५ अध्यायः ॥

नखम्, क्ली, स्त्री, (नखमिव आकृतिरस्त्यस्येति । अच् ।) नखीनामगन्धद्रव्यम् । नखी इति ख्यातः । तत्पर्य्यायः । शुक्तिः २ शङ्खः ३ खुरः ४ कोलदलम् ५ । इत्यमरः । २ । ४ । १३० ॥ करजाख्यः ६ अश्वखुरः ७ नखः ८ व्याघ्रनखः ९ नखी १० । “द्विधा शङ्खनखाख्योऽन्यः शुक्त्याख्यो वदरीच्छदः ।” इति रत्नमालायाम् । १४४ ॥ कररुहः ११ सिम्बी १२ शफः १३ चलः १४ कोशी १५ करजः १६ हनुः १७ नागहनुः १८ पाणिजः १९ वदरीपत्रः २० रूप्यः २१ पण्य- विलासिनी २२ सन्धिनालः २३ पाणिरुहः २४ । इति राजनिर्घण्ठः ॥ व्याघ्रायुधम् २५ चक्रकार- कम् २६ शङ्खनखः २७ नखरी २८ । इति शब्द- रत्नावली ॥ अपि च । अथ नखनखीगन्ध- द्रव्यम् । “नखं व्याघ्रनखं व्याघ्रायुधं तञ्चक्रकारकम् । नखं स्वल्पं नखी प्रीक्ता हनुर्हट्टविलासिनी ॥ नखद्वयं ग्रहश्लेष्मवातास्रज्वरकुष्ठहृत् । लघूष्णं शुक्रलं वर्ण्यं स्वादुव्रणविषापहम् ॥ अलक्ष्मीमुखदौर्गन्ध्यं हृत्पाकरसयोः कटुः ॥” इति भावप्रकाशः ॥ स्वल्पनखस्य पर्य्यायः । नखी १ हनुः २ हट्ट- विलासिनी ३ । तयोर्गुणाः । ग्रहश्लेष्मवातास्र- ज्वरकुष्ठनाशित्वम् । लघुत्वम् । उष्णत्वम् । शुक्र- लत्वम् । वर्ण्यत्वम् । स्वादुत्वम् । व्रणविषालक्ष्मी- मुखदौर्गन्ध्यनाशित्वम् । पाकरसयोः कटुत्वञ्च । इति भावप्रकाशः ॥ कण्डुभूतविनाशित्वम् । इति राजनिर्घण्टः ॥ रक्षोघ्नत्वम् । इति राज- वल्लभः ॥ * ॥ “शैलरुहं व्याघ्रनखं हनुहट्टविलासिनी । शुषिराञ्जनकेशी च कपोताङ्घ्रिर्नली खुरः ॥ स्वल्पपत्रस्त्वसौ शुक्तिर्नखरी वदरीच्छदा । महांस्त्वसौ शङ्खनखः शङ्खाख्यो गन्धसारणः ॥” इति भरतधृतवाचस्पतिः ॥

"https://sa.wiktionary.org/w/index.php?title=नखम्&oldid=506746" इत्यस्माद् प्रतिप्राप्तम्