यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखी, स्त्री, (नख + गौरादित्वात् ङीष् ।) नख- नामगन्धद्रव्यम् । इत्यमरः । २ । ४ । १३० ॥ (अस्याः पर्य्यायो यथा, वैद्यकरत्नमालायाम् । “करजाख्यश्चाश्वखुरो नखो व्याघ्रनखो नखी ॥”)

नखी, [न्] पुं, (नखमस्त्यस्येति । नख + इनिः ।) सिंहः । इति राजनिर्घण्टः ॥ विदारणक्षम- नखयुक्तपशुमात्रम् । यथा, चाणक्ये । २७ । “नखिनाञ्च नदीनाञ्च शृङ्गिणां शस्त्रपाणिनाम् । विश्वासो नैव कर्त्तव्यः स्त्रीषु राजकुलेषु च ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखी¦ स्त्री नख आकारत्वेनास्त्यस्य अच् गौरा॰ ङीष् नख +बह्वा॰ ङीप् वा। स्वनामख्याते गन्धद्रव्ये अमरः धूप-शब्दे उदा॰ दृश्यम्।

"https://sa.wiktionary.org/w/index.php?title=नखी&oldid=339084" इत्यस्माद् प्रतिप्राप्तम्