यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नपुंसकम्, क्ली, (न स्त्री न पुमान् । “नभ्राण्नपा- दिति ।” ६ । ३ । ७५ । इति निपातनात् स्त्रीपुंसयोः पुंसक-आदेशः ।) क्लीवम् । इत्यमरः । २ । ६ । ३९ ॥ हिजिडा इति भाषा ॥ तस्य कारणं यथा, -- “उभयोर्ब्बीजसामान्ये जायते वै नपुंसकम् ॥” इति सुखबोधः ॥ * ॥ (नपुंसको भवेदिति भाष्यप्रयोगात् पुंलिङ्गोऽपि भवति । तथा, च पञ्चतन्त्रे । १ । ३६४ । “परदेशभयाद्भिता बहुमाया नपुंसकाः । स्वदेशे निधनं यान्ति काकाः कापुरुषा मृगाः ॥”) नपुंसकगर्भस्य चिह्नं यथा, -- “नपुंसकं यदा गर्भो भवेद्गर्भोऽर्वुदाकृतिः । उन्नते भवतः पार्श्वे पुरस्तदुदरं महत् ॥” * ॥ नपुंसकविशेषानाह । “आसेक्यश्च सुगन्धिश्च कुम्भीकश्चेर्षकस्तथा । अमी सशुक्रा बोद्धव्या अशुक्रो भ्रूणसंज्ञकः ॥” तेषां लक्षणान्याह । “पित्रोस्तु स्वल्पवीर्य्यत्वादासेक्यः पुरुषो भवेत् । स शुक्रं प्राश्य लभते ध्वजोन्नतिमसंशयम् ॥ यः पूतियोनौ जायेत स हि सौगन्धिको भवेत् । स्वे गुदेऽब्रह्मचर्य्याद्यः स्त्रीषु पुंवत् प्रवर्त्तते । स कुम्भीक इति ज्ञेयो गुदयोनिस्तु स स्मृतः ॥ दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्त्तते । ईर्षकः स तु विज्ञेयो दृष्टियोनिश्च स स्मृतः ॥ यो भार्य्यायामृतौ मोहादङ्गनेव प्रवर्त्तते । तत्र स्त्रीचेष्टिताकारो जायते षण्ढसंज्ञकः ॥” इति भावप्रकाशः ॥ (अस्य विवृतिर्यथा, -- “समवीर्य्यरजस्त्वेन नरः स्त्रीप्रकृतिर्भवेत् । नपुंसकमिति ख्यातं न स्त्री न पुरुषो वदेत् ॥” “समदोषबलेनापि प्रकृत्या विकृतेरपि । समो भवेदसृक् शुक्रो नपुंसकसमुद्भवः ॥” इति हारीते शारीरस्थाने प्रथमेऽध्याये ॥)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नपुंसक पुं-नपुं।

नपुंसकम्

समानार्थक:पोटा,तृतीयाप्रकृति,शण्ढ,क्लीब,षण्ड,नपुंसक

2।6।39।2।5

सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ। तृतीया प्रकृतिः शण्ढः क्लीबः पण्डो नपुंसके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नपुंसक¦ पु॰ न॰ न स्त्रीपुंसौ नभ्राडित्यादि पा॰ स्त्रीपुं-सयोः पुंसकभावः नि॰ नञः प्रकृतिभावश्च। क्लीवे क्लीव-शब्दे

२३

४५ पृ॰ दृश्यम्।
“नपुंसको भवतीति” महा-भाष्यप्रयोगात् अस्य पुंस्त्वमपि। लिङ्गस्य शब्दगत-त्वेऽपि शब्दार्थे तद्व्यवहारस्तु अभेदारोपात् तदेतत्शब्दार्थरत्नेऽस्माभिः समर्थितं यथा
“लिङ्गत्वञ्च प्राकृतगुणगतावस्थात्मकोधर्म एव तद्विशेषश्चपुंनपुंसकत्वादिः। तथा हि सर्वेषां त्रिगुणप्रकृतिकार्य-तया शब्दानामपि तथात्वेन गुणगतविशेषाच्छब्देषु वि-शेष इति कल्प्यते। स च विशेषः शास्त्रे इत्थमभ्यधायि। विकृतसत्वादीनां तुल्यरूपेणावस्थानात् नपुंसकत्वं, सत्व-स्याधिक्ये पुंस्त्वम्, रज आधिक्ये स्त्रीत्वमिति। एवञ्चलिङ्गस्य शब्दधर्मत्वेऽपि शब्देन सहार्थाभेदारोपात् अ-सति बाधके अर्थेऽपि साक्षात् तत्पारतन्त्र्येण वा सर्वत्रतस्य विशेषणत्वम् शाब्दबोधे शब्दभानस्येष्टत्वाच्च शब्दस्यनामार्थतावत् तद्गतलिङ्गस्यापि नामार्थतौचित्यात्
“नसोऽस्ति प्रत्ययोलोके यः शब्दानुगमादृते” इति हर्य्युक्तेः
“शब्दोऽपि यदि भेदेन विवक्षा स्यात्तदा तथा। नोचेत्श्रोत्रादिभिः सिद्धोऽप्यसावर्थऽवभासते” इति हर्य्युक्तेश्चशब्दानां तदर्थतावगतेः। तथा प्रातिपदिकार्थः। अभे-दविबक्षायां तु श्रोत्रादिभिरेव सिद्धः ज्ञातः सन् अर्थे[Page3964-b+ 38] प्रकारतया भासते इति तदर्थः। युक्तञ्चैतत् पुंलिङ्गःशब्द इति व्यवहारात्
“स्वमोर्नपुंसकादिति” पा॰ सूत्रेशब्दस्यैव नपुंसकत्वव्यपदेशात् दारानित्यादौ पुंस्त्वान्वयवा-धाच्च लिङ्गस्य शब्दधर्मत्वमन्यथैतेषु लिङ्गानन्वयापत्तेर्व्य-वहारसूत्रनिर्देशासङ्गत्यापत्तेश्च। तथा अर्थभेदाच्छब्दभे-दवत् लिङ्गभेदादपि शब्दभेद इति कल्प्यते प्रागुक्तधर्म-विशेषरूपभेदकसद्भावात्। उक्तञ्च भाष्ये
“एकार्थे शब्दा-न्यत्वाद्दृष्टं लिङ्गान्यत्वमिति”। एवञ्च तटादिशब्दानाम-नेकलिङ्गत्वव्यवहारः समानापूर्वीकत्वेनैव। वस्तुतस्तेषांभिन्नानामेव भिन्नलिङ्गत्वमिति दिक्। अर्थरूपनंपुस-कस्योत्पत्तौ कारणं शा॰ ति॰ उक्तं यथा
“विन्दुरेको विशेद्गर्भमुभयात्मा क्रमादसौ। रजोऽधिको भवेन्नारी भवेद्रे-तोऽधिकः पुमान्। उभयोः समतायां तु नपुंसकमितिस्मृतम्”।
“सुडनपुंसकस्य” पा॰
“नपुंसकमनपुंसकेने-त्यादि” पा॰। तत्र पुंसि
“नैव स्त्री न पुमानेष न चैवायंनपुंसकः” श्वेताश्व॰। क्लीवे
“न वामनाः कुब्जकुणा नखञ्जाः नान्धो जडः स्त्री न नपुंसकञ्च” भा॰ शा॰

८३ अ॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नपुंसक¦ mn. (-कः-कं)
1. A eunuch.
2. An impotent or imbecile man.
3. The neuter gender. E. न not. पुंसक male.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नपुंसकः [napuṃsakḥ] कम् [kam], कम् [न पुमान् न स्त्री]

A hermaphrodite (neither man, nor woman).

An impotent man, a eunuch.

A coward.

कम् A word in the neuter gender.

The neuter gender.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नपुंसक/ न--पुंसक mf( आ)n. ( न-)neither male nor female

नपुंसक/ न--पुंसक mf( आ)n. a hermaphrodite

नपुंसक/ न--पुंसक mf( आ)n. a eunuch

नपुंसक/ न--पुंसक mf( आ)n. a weakling , coward MaitrS. Br. Up. MBh. etc.

नपुंसक/ न--पुंसक n. neutera word in the -nneuter gender or the -nneuter -ggender itself S3Br. Pra1t. Pa1n2. etc.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NAPUṀSAKA : (EUNUCH). Mention is made in Brahmāṇḍa Purāṇa, Chapter 48, that the semen intro- duced into the womb of the woman by the man at the time of coition, will get mixed with the blood in the womb, and that the issue will be male, female or eunuch according to the proportion of the mixture. In the mixture of semen and blood, if blood exceeds semen the issue will be female and if semen exceeds, it will be male child and if both are equal the child will be a eunuch.


_______________________________
*8th word in left half of page 525 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नपुंसक&oldid=431608" इत्यस्माद् प्रतिप्राप्तम्