यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटिका, स्त्री, (नाटक + टापि अत इत्वम् ।) नाटकविशेषः । यथा, -- “कैशिकीवृत्तिसंयुक्ता नारीपरिजनोज्ज्वला । चतुर्थसन्धिहीना च नाटिका नृपनायिका ॥ इयं शृङ्गारबहुला ततः स्यात् कैशिकीमयी । मृद्बीयं कैशिकीवृत्तिर्न स्यादन्यरसाश्रया ॥ न कुञ्जरकराघातमात्रं शक्नोति कन्दली । लास्यां विटः पीठमर्द्दः सञ्चयो वाद्यसञ्चयः ॥ अन्तःपुरचरो राज्ञ ईषद्विद्यो विदूषकः । अत्र भार्य्याजितो राजा निभृतः काममाचरेत् ॥ अन्तःपुरगतां कन्यां देवीगुप्तां यियासति । मन्त्रिणि न्यस्तराज्यस्तु सुखसंस्थापितः प्रभुः ॥ युवा भूमिपतिः प्रायो निभृतः काममाचरेत् ॥ कन्यामिह परिणयविषयां देवीगुप्तां महिषीं ज्ञानविरहेण ॥ एके तु । चतुर्भिरङ्कैरुत्पाद्यन्तिसृभिर्नृ पनायकम् । यत् कैशिकीरसप्रायं नाटकं सैव नाटिका ॥ पूर्ब्बक्रमान्नाटकक्रमाद्रत्नावली नाटिका । एवमन्यश्चेद्बोद्धव्यः ।” इति सङ्गीतदामोदरः ॥ (अस्या लक्षणं यथा, साहित्यदर्पणे । ६ । ५३९ । “नाटिका कऌप्तवृत्ता स्यात् स्त्रीप्राया चतु- रङ्किका । प्रख्यातो धीरललितस्तत्र स्यान्नायको नृपः ॥ स्यादन्तःपुरसम्बन्धा सङ्गीतव्यापृताथवा । नवानुरागा कन्यात्र नायिका नृपवंशजा ॥ सम्प्रवर्त्तेत नेतास्यां देव्यास्त्रासेन शङ्कितः । देवी पुनर्भवेज्ज्येष्ठा प्रगल्भा नृपवंशजा ॥ पदे पदे मानवती तद्वशः सङ्गमो द्वयोः । वृत्तिः स्यात् कौशिकी स्वल्पविमर्षाः सन्धयः पुनः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटिका¦ स्त्री दृश्यकाव्यभेदे तल्लक्षण यथा
“नाटिकाकॢप्तवृत्ता स्यात् स्त्रीप्राया चतुरङ्किका। प्रख्यातो धीर-ल{??}तस्तत्र स्यान्नायकोनृपः। स्यादन्तःपुरसम्बन्धा सङ्गी-[Page4020-b+ 38] तव्यापृताऽथ वा। नवानुरागा कन्यात्र नायिका नृप-वंशजा। सम्प्रवर्त्तेत नेताऽस्यां देव्यास्त्रासेन शङ्कितः। देवी पुनर्भवेज्जेष्ठा प्रगल्भा नृपवंशजा। पदे पदेमानवती तद्वशः सङ्गमो द्वयोः। वृत्तिः स्यात् कैशिकीस्वल्पविमर्षाः सन्धयः पुनः”। द्वयोर्नायकनायिकयोः। यथा रत्नावली विद्धशालभञ्जिकादि” सा॰ द॰। सङ्गीत-दामोदरेऽत्र कश्चिद्विशेष उक्तस्तत्रैव दृश्यः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटिका¦ f. (-का) A short or light comedy, the first of the Uparu4pakas or dramas of the second order. E. नट् to dance, ण्वुल् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटिका [nāṭikā], A short or light comedy, one of the Uparūpakas, q. v.; e. g. the Ratnāvalī, Priyadarśikā or Viddhaśālabañjikā. The S. D. thus defines it: नाटिका क्लृप्तवृत्ता स्यात् स्त्रीप्राया चतुरङ्किका । प्रख्यातो धीरललितस्तत्र स्यान्नायको नृपः ॥ स्यादन्तःपुरसंबन्धा संगीतव्यापृता$थवा । नवानुरागा कन्या$त्र नायिका नृपवंशजा ॥ संप्रवर्तेत नेतास्यां देव्यास्त्रासेन शङ्कितः । देवी पुनर्भवेज्ज्येष्ठा प्रगल्भा नृपवंशजा ॥ पदे पदे मानवती तद्वशः संगमो द्वयोः । वृत्तिः स्यात् कौशिकी स्वल्पविमर्शाः संधयः पुनः ॥ 539.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटिका f. a kind of उप-रूपकor drama of the second order Sa1h. etc.

नाटिका f. of टकSee.

"https://sa.wiktionary.org/w/index.php?title=नाटिका&oldid=500599" इत्यस्माद् प्रतिप्राप्तम्